| YouTube Channel

मालातृणकं (mAlAtRNakaM)

 
शब्दकल्पद्रुमः
Sanskrit
मालातृणकं,
क्ली,
(मालातृण स्वार्थे कन् ।)भूस्तृणम् इत्यमरः १६७
द्वे गन्धखडइति ख्याते मालारूपं तृणं मालातृणं स्वार्थेकः भुवस्तृणं भूलग्नत्वात् भूस्तृणं मनीषादित्वात्सागमः मालातृणकभूस्तृणे इति क्लीवे ।इति सुभूत्यादयः
मालातृणकभूस्तृणावितिपुंसि पठन्ति केचित्
स्वामी तु छत्राति-च्छत्रादिभूस्तृणान्तं पर्य्यायमाह यथा, --“भूस्तृणो रौहिषो भूतिर्भूमिकोऽथ कुटुम्बकः ।मालातृणश्च पालघ्नश्छत्रातिच्छत्रकस्तथेति
”रामकर्पूरं बहुपत्रकाण्डं कर्पूरसुगन्धि ।इदन्तु शतपुष्पिकावदुत्कटगन्धं भूलग्नञ्च भवती-त्यनयोर्भेदः इति तट्टीकायां भरतः
(तथास्यपर्य्यायः ।“गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुकप्रियम् ।भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)