| YouTube Channel

मायामोहः (mAyAmohaH)

 
शब्दकल्पद्रुमः
Sanskrit
मायामोहः,
पुं,
(मायया मोहयति असुरानिति ।मुह + णिच् + अच् माया मोहश्च तौयस्येति वा ।) विष्णुदेहनिर्गतासुरमोहक-पुरुषविशेषः यथा, --श्रीपराशर उवाच ।“इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः ।तमुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान्
”श्रीभगवानुवात्त ।“मायामोहोऽयमखिलान् दैत्यांस्तान्मोहयिष्यति ।ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः
स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः ।ब्रह्मणो येऽधिकारस्य देवदैत्यादिकाः सुराः
तद्गच्छत भीः कार्य्या मायामोहोऽयमग्रतः ।गच्छत्वद्योपकाराय भवतां भविता सुराः
”श्रीपराशर उवाच ।“इत्युक्त्वा प्रणिपत्यैनं ययुर्देवा यथागतम् ।मायामोहोऽपि तैः सार्द्धं ययौ यत्र महा-सुराः
”इति विष्णुपुराणे अंशे १७ अध्यायः