| YouTube Channel

मानसपूजा (mAnasapUjA)

 
Monier Williams Cologne
English
मानस—पूजा
f.
N.
of various works.
Apte Hindi
Hindi
मानसपूजा
स्त्री*
- -
मानसिक पूजा
Aufrecht Catalogus Catalogorum
English
मानसपूजा See Tripurasundarīmānasapūjā, Bhagavanmā-
nasapūjā.
मानसपूजा or गणेशपूजा from several Purāṇa. IO. 1997.
मानसपूजा attributed to Vedavyāsa. Ulwar 2292.
मन्त्राक्षरमाला or मानसपूजा tantr. Whish 42, 2.
110 B 5. 183, 3.
मानसपूजा See Mantrākṣaramālā.
मानसपूजा Śg. 1, 124.
--by Śaṅkarācārya. AK 543. 544.
शब्दकल्पद्रुमः
Sanskrit
मानसपूजा,
स्त्री,
(मानसकृता पूजा शाक-पार्थिववत् समासः ।) मनोरचितद्रव्यकरणक-सपर्य्या यथा, हृत्पद्ममध्ये देवीं विभाव्यकुण्डलीपात्रसंस्थेन स्रहस्रारामृतेन पाद्यं देव्या-श्चरणे दद्यात् ततो मनश्चार्घ्यं दत्त्वा सहस्र-दलपद्मभृङ्गारललितपरमामृतजलेन आचम-नीयं मुखे पञ्चविंशति तत्त्वेन गन्धञ्च ।अहिंसां विज्ञानं क्षमां दयां अलोभं अमोहंअमात्सर्य्यं अमायां अनहङ्कारं अरागं अद्वेषंइन्द्रियाणि द्बादश एतानि पुष्पाणि प्रदाप-येत् ततस्तेजोरूपं दीपं वायुरूपं धूपं दद्यात्अम्बरं चामरं दर्पणं सूर्य्यं चन्द्रं छत्रं पद्मन्तुमेखलां आनन्दं हारमुत्तमं अनाहतध्वनिमयींघण्टां निवेदयेत् ततः सुधारसाम्बुधिं मांस-पर्व्वतं ब्रह्माण्डपूरितं पायसञ्च दत्त्वा ।“मनोनर्त्तनसत्तालैः शृङ्गारादिरसोद्भवैः ।नृत्यैर्गीतैश्च वाद्यैश्च तोषयेत् परमेश्वरीम्
”एवं संपूज्य अभेदेन जपः कार्य्यः इति तन्त्र-सारे त्रिपुराप्रकरणम्
*
मानसैर्गु रुपूजायथा, नीलतन्त्रे ।“ततो मानसगन्धाद्यैः पूजयेत् स्वस्वमुद्रया ।कनिष्ठा पृथिवीतत्त्वं तद्योगाद्गन्धयोजनम्
अङ्गुष्ठो गगनं तत्त्वं तेनैव पुष्पयोजनम् ।तर्ज्जनी वायुतत्त्वं स्याद्धूपं तेनैव योजयेत्
अनामा जलतत्त्वं स्यात्तेनैव योजयेच्च कम् ।ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः
जपं समर्प्य भक्त्या प्रणमेद्दण्डवद्भुवि
”अपि ।“मिथुनं चिन्तयित्वा तु मानसैरुपचारकैः ।भौतिकैः पूजयेद्बिद्वान् मुद्रामन्त्रसमन्वितैः
भूभ्याकाशमरुद्वह्निवारिमन्त्रैः सबिन्दुकैः ।कनिष्ठाङ्गुलितर्ज्जन्यौ मध्यमानामिके तथा
अङ्गुष्ठेन समायोगान्मुद्राः पञ्च प्रकीर्त्तिताः ।पृथिव्यात्मकगन्धः स्यादाकाशात्मकपुष्पकम्
धूपो वाय्वात्मकः प्रोक्तो दीपो वह्न्यात्मकः परः ।रसात्मकञ्च नैवेद्यं पूजा पञ्चोपचारिका
ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः
”इत्यन्नदानकल्पः
अन्यच्च ।“मानसैरुपचारैश्च संपूज्य कल्पयेन्मुदा ।गन्धं भूम्यात्मकं दद्याद्भावपुष्पं ततः परम्
धपं वाय्वात्मकं देयं तेजसा दीपमेव ।नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम्
अम्बरं मुकुरं दद्याच्चामरं छत्रमेव ।तत्रन्मुद्राविधानेन संपूज्यात्मगुरुं जपेत्
यथाशक्ति जपं कृत्वा समाप्य कवचं पठेत्
”इति कङ्कालमालिनीतन्त्रम्
पूजाक्रमस्तु निजगुरुं ध्यात्वामुकानन्दनाथा-मुकशक्ताम्बाश्रीपादुकां पूजयामीति मानसै-र्गन्धाक्षतकुसुमैरर्च्चयेत् कनिष्ठाभ्यां लं पृथि-व्यात्मकं गन्धं समर्पयामि नमः अङ्गुष्ठाभ्यां हंआकाशात्मकं पुष्पं समर्पयामि नमः तर्ज्ज-नीभ्यां यं वाय्वात्मकं धूपं समर्पयामि नमः ।मध्यमाभ्यां रं वह्न्यात्मकं दीपं समर्पयामिनमः अनामिकाभ्यां वं अमृतात्मकं नैवेद्यंसमपैयामि नमः इति कुलमूलावतारकल्प-सूत्रटीकायां तृतीयकाण्डम्