| YouTube Channel

मानं (mAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
मानं,
क्ली,
(मीयतेऽनेनेति मा + करणे ल्युट् ।)परिमाणम् तत्पर्य्यायः यौतवम् द्रुव-यम् पाय्यम् पौतवम् तत्तु तुलाङ्गुलि-प्रस्थैस्त्रिविधं भवति तत्र तुलाग्रहणेनोन्मा-नाद्युपलक्ष्यते अङ्गुल्या हस्तादि प्रस्थेनद्रोणादि इत्यमरभरतौ ८५
प्रमाणम् ।इति मेदिनी ने, १५
यत्र तालो विरमतितत् तदेव गृहसुच्यते तच्चतुर्विधम् समंविषमं अतीतं अनागतञ्च इति सङ्गीत-शास्त्रम्
*
अथ मानपरिभाषा ।“न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् ।अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया
चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः ।विहाय सर्व्वमानानि मागधं मानमुच्यते
त्रसरेणुर्व्वुधैः प्रोक्तस्त्रिंशता परमाणुभिः ।त्रसरेणुस्तु पर्य्यायनाम्ना ध्वंसीति गद्यते
जालान्तरगतैः सूर्य्यकरैर्ध्वंसी विलोक्यते ।षड्ध्वंसीभिर्म्मरीचिः स्यात्ताभिः षड्भिश्चराजिका ।तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः ।यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्
षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम-धानकौ ।माषैश्चतुर्भिः शाणः स्याद्धरणः निगद्यते
टङ्कः एव कथितस्तद्द्वयं कोलमुच्यते ।क्षुद्रमो वटकश्चैव द्रङ्क्षणः निगद्यते
कोलद्बयस्तु कर्षः स्यात् प्रोक्तः पाणि-मानिकः ।अक्षः पिचुः पाणितलं किञ्चित् पाणिश्च तिन्दु-कम्
विडालपदकञ्चैव तथा षोडशिका मताः ।करमध्यो हंसपदं सुवर्णं कवलग्नहम्
उडुम्बरञ्च पर्य्यायैः कर्ष एब निगद्यते ।स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा ।शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका ।प्रकुञ्चः षोडशी विल्वं पलमेमात्र कीर्त्त्यते
पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते ।प्रसृतिभ्यामञ्जलिः स्यात् कुडवोऽर्द्धसरावकः
अष्टमानञ्च ज्ञेयः कुडवाभ्याञ्च मानिका ।सरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः
शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः ।भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः
चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः ।उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः
द्रोणाभ्यां सूर्पकुम्भौ चतुःषष्टिशरावकः ।सूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी सास्मृता
द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः ।चतुःसहस्रपलिका षण्णवत्यधिका सा
पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः ।तुलापलशतं ज्ञेया सर्व्वत्रैवैष निश्चयः
माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् ।राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः
*
मागधपरिभाषायां षड्रत्तिको माषश्चतुर्व्विंशति-रत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः अयं चरक-सम्मतः
सुश्रुतमते पञ्चरत्तिको माषोविंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः अय-मेव कलिङ्गपरिभाषायामपि यतस्तत्राष्ट-रत्तिको माषो द्बात्रिंशद्रत्तिकष्टङ्कः सार्द्ध-टङ्कद्वयमितः कर्षः ।“गुञ्जादिमानमारभ्य यावत् स्यात् कुडवस्थितिः ।द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम्
प्रस्थादिमानमारभ्य द्बिगुणन्तु द्रवार्द्रयोः ।मानं तथा तुलायास्तु द्विगुणं क्वचित् स्मृतम्
मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् ।विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत्
”इति मागधमानम्
*
अथ कालिङ्गमानम् ।“यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराःकलौ ।अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसम्मता
यवो द्वादशभिर्गौरैः सर्षपैः प्रोच्यते बुधैः ।यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते ।माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित्
चतुर्भिर्माषकैः शाणः निष्कष्टङ्क एव ।गद्यानो माषकैः षडभिः कर्षः स्याद्दशमा-षिकः
चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः ।चतुःपलैश्च कुडवः प्रस्थाद्याः पूर्व्ववन्मताः
स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयोबलम् ।प्रकृतिं दोषदेशौ दृष्ट्वा मात्रां प्रकल्पयेत्
नाल्पं हन्त्यौषधं व्याधिं यथाम्भोऽल्पं महा-नलम् ।अतिमात्रञ्च दोषाय यथा शस्ये बहूदकम्
”इति मानपरिभाषा इति भावप्रकाशः