| YouTube Channel

मातृका (mAtRkA)

 
Monier Williams Cologne
English
मातृका a
f.
See next
मातृका b
f.
a mother (also fig.
=
source, origin),
Kāv.
Kathās.
Pur.
a divine mother (cf. under मातृ),
RTL.
188
a nurse,
L.
a grandmother,
Daś.
N.
of 8 veins on both sides of the neck (prob. so called after the 8 divine m°),
Suśr.
N.
of partic. diagrams (written in characters to which a magical power is ascribed
also the alphabet so employed
prob. only the 14 vowels with Anusvāra and Visarga were originally so called after the 16 div° m°),
RāmatUp.
Pañcar.
any alphabet,
Hcat.
(pl. ),
Lalit.
a wooden peg driven into the ground for the support of the staff of Indra's banner,
VarBṛS.
N.
of the works included in the Abhidharma-piṭaka,
Buddh.
of the wife of Aryaman,
BhP.
=
करण,
L.
Apte Hindi
Hindi
मातृका
स्त्री*
- -
माता
मातृका
स्त्री*
- -
दादी
मातृका
स्त्री*
- -
"धात्री, दाई"
मातृका
स्त्री*
- -
"स्रोत, मूल"
मातृका
स्त्री*
- -
देवमातृका
मातृका
स्त्री*
- -
अक्षरों में लिखे हुए कुछ रेखाचित्र जो जादू की शक्ति रखने वाले कहे जाते हैं
मातृका
स्त्री*
- -
इस प्रकार प्रयुक्त की गई वर्णमाला
मातृका
स्त्री*
- -
"ग्रीवा की नाड़ियाँ, शिराएँ"
Shabdartha Kaustubha
Kannada
मातृका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉಪಮಾತೆ /ದಾದಿ
मातृका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಬ್ರಾಹ್ಮೀ ಮೊದಲಾದ ಸಪ್ತ ಮಾತೃಗಳು
मातृका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವರ್ಣಮಾಲೆ /ಅಕಾರ ಮೊದಲಾದ ಅಕ್ಷರಸಮಾಮ್ನಾಯ
मातृका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ತಾಯಿ /ಜನನಿ
विस्तारः - > "मातृका धातृकामात्रोः दैवीभिद्वर्णमालयोः" - मेदि०
L R Vaidya
English
mAtfka {% (I) a. (f. का) %} Coming from a mother, पित्र्यमंशमुपवीतलक्षणं मातृकं धनुस्वर्जितं दधन् R.xi.64, 90.
mAtfkA {% (I) f. %} 1. A mother
2. a nurse
3. a grandmother
4. source, origin
5. the alphabet employed in certain diagrams for magical purposes
6. a divine mother.
mAtfkA {% (II) f. pl. %} the alphabet.
भूतसङ्ख्या
Sanskrit
७, अग, अचल, अद्रि, अनिल, अश्व, ऋषि, कलत्र, कुलाचल, क्षितिभृत् क्ष्माधर, क्ष्माभूत्, गन्धन्वह, गन्धवह, गिरि, घोटा, छन्द, छन्दस्, तत्त्व, तापस, तुरग, तुरङ्ग, दिविचर, द्वीप, धरणिधर, धराधर, धरित्रीधर, धातु, धी, नग, पन्नग, पर्वत, पवन, भय, भूधर, भूध, भूभृत्, मरुत्, महीधर, महीघ्र, मातृका, मारुत, मुनि, यति, लोक, वक्री, वाजि, वात, वायु, वार, वासर, व्यसन, शिला, शिलोच्चय, शैल, सप्त, समीर, समीरण, स्थिर, स्वर, हय
Edgerton Buddhist Hybrid
English
mātṛkā (= Pali mātikā),
(1) a name for the Abhidharma(piṭaka): °kādhītā Divy 〔18.6〕
sūtrasya vinayasya °kāyāḥ 〔18.15〕
sūtraṃ mātṛkā ca 〔333.7〕
MSV 〔iii.122.4〕 °kā-dharo
Prāt 〔520.13〕
(2) (see also Bodhisattva(sūtra-)-piṭaka-mātṛkā) summary, condensed statement of contents
the Abhidharma probably professed originally to be a summary of the main points of certain aspects of the Dharma (see CPD s.v. abhidhamma): Bbh 〔210.10〕
〔274.21〕
(prob.) 〔303.25〕
aṣṭau mātṛkā-padāni MSV 〔ii.161.14〕, eight summary points.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
मातृका ° = कृतकमाता, V 315. H. an. 3, 81. Vgl. Zach. Beitr. मातृकुल, मातृदास und मातृविष्णु m. N. pr. verschiedener Männer, M. Müller, Ren. 314, N. 1.
Wordnet
Sanskrit
Synonyms:
मातृका
noun
चुबुके विशिष्टाः अष्ट सिराः।
"वैद्यः मातृकायाः परीक्षणं करोति।"
Synonyms:
मातृका
noun
वर्णमालायां वर्तमानाः केचन वर्णाः यान् तन्त्रविदः देवीरूपेण पूज्यन्ते।
"तन्त्रविद् मातृकायाः पूजां करोति।"
Synonyms:
मातृका
noun
तान्त्रिकाणां ब्राह्म्यादयः सप्तदेवताः।
"श्मशाने तान्त्रिकः मातृकाः पूजयति।"
Synonyms:
धात्री, अङ्कपाली, उपमाता, कुलभृत्या, दोग्ध्री, क्षीरधात्री, धन्या, धात्रिका, धात्रेयिका, धात्रेयिकायी, मातृका, वर्धापिका
noun
व्यवसायविशेषः- का अपि स्त्री उपजीविकार्थे स्वामिनः शिशून् स्वं दुग्धं पाययित्वा पोषयति तथा तेभ्यः कौटुम्बिकान् आचारान् पाठयति।
"मातुः वियोगात् धात्री एव श्यामं पर्यपालयत्।"
Synonyms:
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
noun
सा देवी यया नैके दैत्याः हताः तथा या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
Synonyms:
अक्षरसमाम्नाय, अक्षरन्यासः, वर्णमाला, अक्षरमाला, मातृका
noun
वर्णानां क्रमबद्धा सारणिः।
"हिन्दिभाषायाः अक्षरसमाम्नायं पठ।"
शब्दकल्पद्रुमः
Sanskrit
मातृका,
स्त्री,
(मातेव मातृ + “इवे प्रतिकृतौ ।”५ ९६ इति कन् टाप् ।) धातृका
(यथा, बृहत्संहितायाम् ४३ ६६ ।“रज्जूत्सङ्गच्छेदने बालपीडाराज्ञो मातुः पीडनं मातृकायाः
”मातैव मातृ + स्वार्थे कन् ।) माता ।देवीभेदः वर्णमाला इति मेदिनी के, १३८
करणम् स्वरः उपमाता इति हेमचन्द्रः ।मातृकागणोत्पत्तिर्यथा, --“तत्र देवोऽप्यसौ दैत्यं त्रिशुलेनाहनद्भृशम् ।तस्याहतस्य यद्रक्तमपतद्भूतले किल
तत्रान्धका असंख्याता बभूबुरपरे भृशम् ।तद्दृष्ट्वा महदाश्चर्य्यं रुद्रः शूलेऽन्धकं मृघे
गृहीत्वा त्रिशिखाग्रेण ननर्त्त परभेश्वरः ।इतरेऽप्यन्धकाः सर्व्वे चक्रेण परमेष्ठिना
नारायणेन निहतास्तत्र येऽन्ये समुत्थिताः ।असृग्धारास्तुषारैस्तु शूलप्रोतस्य चासकृत्
अनारतं समुत्तस्थुः स्वतो रुद्रो रुषान्वितः ।तस्य क्रोधेन महता मुखाज्ज्वाला विनिर्ययौ
तद्रूपधारिणीं देवीं यान्तीं योगीश्वरीं विदुः ।स्वरूपधारिणी चान्या विष्णुनापि विनिर्म्मिता
ब्रह्मणा कार्त्तिकेयेन इन्द्रेण यमेन ।वाराहेण देवेन विष्णुना परमेष्ठिना
पातालोद्धरणं रूपं तस्या देव्या विनिर्ममे ।माहेश्वरी माहेन्द्री इत्येता अष्ट मातरः
कारणं यस्य यत् प्रोक्तं क्षेत्रज्ञेनावधारितम्
शरीरादेव नाना तु तदिदं कीर्त्तितं मया ।कामः क्रोधस्तथा लोभो मदो मोहाऽथपञ्चमः
मात्सर्य्यं षष्ठमित्याहुः पैशुन्यं सप्तमं तथा
अनसूयाष्टमी ज्ञेया इत्येता अष्ट मातरः
कामं योगीश्वरीं विद्धि क्रोधं माहेश्वरीं तथा
लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव ।मोहः स्वयन्तु कौमारी मात्सर्य्यं चैन्द्रजां विदुः
यामी दण्डधरा देवी पैशुन्यं स्वयमेव ।अनुसूया वराहाख्या इत्येताः परिकीर्त्तिताः
कामादिगण एषोऽयं शरीरं परिकीर्त्तितम् ।जग्राह मूर्त्तिन्तु यथा तथा ते कीर्त्तितं मया
एताभिर्देवताभिश्च तस्य रक्ते तु शोषिते ।क्षयं गतासुरी माया सिद्धोऽन्धकोऽभवत्
एतत्ते सर्व्वमाख्यातमात्मविद्यामृतं मया ।य एतच्छृणुयान्नित्यं मातॄणामुद्भवं शुभम्
तस्य ताः सर्व्वदा रक्षां कुर्व्वन्त्यनुदिनं नृप ! ।येनैतत् पट्यते जन्म मातॄणां पुरुषोत्तम !
धन्यः सर्व्वदा लोके शिवलोकञ्च गच्छति ।तासाञ्च ब्रह्मणा दत्ता अष्टमी तिथिरुत्तमा
एताः संपूजयेद्भक्त्या बिल्वाहारो नरः सदा ।तस्य ताः परितुष्टास्थ क्षेमारोग्यं ददन्ति
”इत्यादि वाराहपुराणे कामादिमातृगणोत्पत्ति-र्नामाध्यायः
अपि ।“ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य शक्तयः ।शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः
यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।तद्बदेव हि तच्छक्तिरसुरान् योद्धुमाययौ
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।महाहिबलया प्राप्ता चन्द्ररेखाविभूषणा
कौमारी शक्तिहस्ता मयूरवरवाहना ।योद्धुमम्याययौ दैत्यानम्बिका गुहरूपिणी
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम्
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।प्राप्ता तत्र शटाक्षेपक्षिप्तनक्षत्रसंहतिः
बज्रहस्ता तथैवैन्द्री गजराजोपरिस्थिता ।प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः ।हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम्
ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी
”इति मार्कण्डेयपुराणम्
मातृवर्गो यथा, --“गुरोः पत्नी राजपत्नी विप्रपत्नी या सती ।पत्नी भ्रातृसुतयोर्मित्रपत्नी तत्प्रसूः
प्रसूः पित्रोस्तयोर्भ्रातुः पत्नी श्वश्रूः स्वकन्यका ।जननी तत्सपत्नी भगिनी सुरभी तथा
स्वामीष्टसुरपत्नी धात्री कान्ताप्रदायिका ।गर्भधात्रीस्वनाम्नी भयात्त्रातुश्च कामिनी
एता वेदप्रणीताश्च सर्व्वेषां मातरः स्मृताः ।एतास्वपि सर्व्वासु न्यूनता नास्ति कासु
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः
षोडश मातरो यथा, --“गुरुपत्नी राजपत्नी देवपत्नी तथा वधूः ।पित्रोः स्वसा शिष्यपत्नी भृत्यपत्नी मातुली
पितृपत्नी म्रातृपत्नी श्वश्रूश्च भगिनीसुता ।गर्भधात्रीष्टदेवी पुंसः षोडश मातरः
”इति तत्रैव ५९ अध्यायः
अथ मातृकान्यासः ।भगवानुवाच ।“मातृकान्यासमधुना शृणु वेतालभैरव ! ।येन देवत्वमायाति नरोऽपि विहितेन वै
वाग्ब्रह्माणीमुखा देव्यो मातृकाः परि-कीर्त्तिताः ।तासां मन्त्राणि सर्व्वाणि व्यञ्जनानि स्वरास्तथा
चन्द्रबिन्दुप्रयुक्तानि सर्व्वकामप्रदानि ।ऋषिस्तु मातृमन्त्राणां ब्रह्मैव परिकीर्त्तितः
प्रोक्ता छन्दस्तु गायत्त्री देवता सरस्वती ।शरीरशुद्धिप्रमुखसर्व्वकामार्थसाधने
विनियोगः समुद्दिष्टो मन्त्राणां न्यूनपूरणे ।अकारेण समं कादिवर्गो यः प्रथमः स्मृतः
तैश्चन्द्रबिन्दुसंयुक्तेस्तत्रस्थैरक्षरैर्बहिः ।आकारञ्च तथोच्चार्य्य अङ्गुष्ठाभ्यां नमस्तथा ।प्रथमं मातृकामन्त्रमङ्गुष्ठद्बयतो न्यसेत्
परे वर्गाः स्वरैः सार्द्ध ये वान्ये न्यासकर्म्मणि ।ते सर्व्वे चन्द्रबिन्दुभ्यां युक्ताः कार्य्यास्तु सर्व्वतः
ह्रस्वेकारश्च वर्गेण दीर्घेकारान्तगेन तु ।तर्जन्योर्विन्यसेत् सम्यक् स्वाहान्ते तु पूर्व्ववत्
ह्रस्वोकारष्टवर्गेण दीर्घोकारान्तगेन तु ।मध्यमायुगले सम्यक् वषडन्तेन विन्यसेत्
एकारादितवर्गान्त ऐकारान्तेन चैव हुम् ।न्यसेदनामिकायुग्मे नियतं तत्र भैरव !
ओकारादिपवर्गन्तु औकारान्तेन शेषितम् ।वौषडन्तं कनिष्ठायां विन्यसेत् कार्य्यसिद्धये
अंकारादियकारादिवर्गेण क्षान्तकेन ।अः इत्यन्तेन तलयोर्विन्यसेत् पाणिपृष्ठयोः
वषट्कारं शेषभागे मन्त्रन्यासे नियोजयेत् ।हृदयादिषडङ्गेषु पूर्व्ववत् क्रमतो न्यसेत्
अङ्गुष्ठाद्युक्तवर्गैस्तु क्रमात् षड्भिस्तथाविधैः ।पुनस्तथा पादजानुसक्थिगुह्ये तु पार्श्वयोः ।वस्तौ विन्यसेन्मन्त्रान् क्रमात् पूर्व्ववदक्षरैः
बाह्वोः पाण्योस्तथा कण्ठे नाभौ जठरेतथा ।स्तनयोरपि विन्यासं तथा षड्भिः समाचरेत्
वक्त्रे चिवुके गण्डे कर्णयोश्च ललाटके ।असे कक्षे षड्वर्गैः पूर्व्ववन्न्यासमाचरेत्
रोमकूपे ब्रह्मरन्ध्रे गुदे जङ्घायुगे तथा ।नखेषु पादपार्ष्ण्योश्च तथा पूर्व्ववदाचरेत्
एवन्तु मातृकान्यासं यः कुर्य्यान्नरसत्तमः ।स धर्म्मयज्ञे पूजासु पूतो योग्यश्च जायते
नातः परतरं मन्त्रं विद्यते क्वचिदेव हि ।यः सर्व्वकामदं पुण्यं चतुर्व्वर्गफलप्रदम्
वाग्देवतां हृदि ध्यात्वा मूर्द्ध्नि सर्व्वाक्षराणिच
त्रिधा मातृकामन्त्रैः संक्रमैश्च पिबेज्जलम् ।स वाग्मी पण्डितो धीमान् जायते वरःकविः
चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्व्वान् पठेद्बुधः ।व्यञ्जनानि सर्व्वाणि केवलानि पठेत्ततः
अकारादिक्षकारान्तान्येवं श्वासैस्तु पूर्व्वकैः ।जलं करतले गृह्य पठित्वाक्षरसंघकम्
अभिमन्त्र्य तु तत्तोयं प्रथमं पूरकैः पिबेत् ।कुम्भकेन द्वितीयन्तु तृतीयन्त्वथ रेचकैः
एवं सकृत्त्रिवारन्तु पीत्वा तोयं विचक्षणः ।दृढाङ्गः पण्डितो भूयात् पुत्त्रपौत्त्रसमन्वितः
त्रिसन्ध्यमथ पीत्वैव मातृकामन्त्रमन्त्रितम् ।तोयं कवित्वमाप्नोति सर्व्वान् कामांस्तथैव
सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम् ।तोयपानं महाभागः पूरकस्तम्भरेचकैः
सर्व्वकामान् संप्राप्य पुत्त्रपौत्त्रसमृद्धिमान् ।भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः
सर्व्वत्र वल्लभो भूत्वा चान्ते मोक्षमवाप्नुयात् ।राजानमथवा राजभार्य्यां पुत्त्रमथापि वा
वशीकरोति चिरात् मातृकामन्त्रपालकः ।न्यासक्रमे क्रमः प्रोक्तो वर्गक्रम इहैव तु
अक्षराणां क्रमेणाथ तोयपानं समाचरेत् ।ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम्
ते मन्त्रा मातृकामन्त्रे नित्यमेव प्रतिष्ठिताः ।सर्व्वमन्त्रमयश्चायं सर्व्वदेवमयस्तथा
चतुर्व्वर्गप्रदश्चायं मातृकामन्त्र उच्यते ।इति ते कथितः पुत्त्र ! मातृकान्यास उत्तमः
”इति श्रीकालिकापुराणे मातृकान्यासः ७६ अः
अथ तस्य प्रयोगः ।अस्य मातृकामन्त्रस्य ब्रह्मा ऋषिर्गायत्त्रीच्छन्दोमातृकासरस्वती देवता हलो बीजानि स्वराःशक्तयो मातृकान्यासे विनियोगः शिरसि ओँब्रह्मणे ऋषये नमः मुखे ओँ मायत्त्रीच्छन्दसेनमः हृदि ओँ मातृकासरस्वत्यै देवतायैनमः गुह्ये ओँ व्यञ्जनेभ्यो बीजेभ्यो नमः ।पादयोः ओँ स्वरेभ्यः शक्तिभ्यो नमः तथा चज्ञानार्णवे ।“मातृकां शृणु देवेशि ! न्यसेत् पापनिकृन्त-नीम् ।ऋषिब्रह्मास्य मन्त्रस्य गायत्त्रीच्छन्द उच्यते
देवता मातृकादेवी ब्रीजं व्यञ्जनसञ्चयम् ।शक्तयस्तु स्वरा देवि ! षडङ्गन्यासमाचरेत्
”ततः षडङ्गन्यासौ अं कं खं गं घं ङं आंअङ्गुष्ठाभ्यां नमः इं चं छं जं झं ञं ईंतर्जनीभ्यां स्वाहा उं टं ठं डं ढं णं ऊंमध्यमाभ्यां वषट् एं तं थं दं धं नं ऐं अना-मिकाभ्यां हुम् ओँ पं फं बं भं मं औं कनि-ष्ठाभ्यां वौषट् अं यं रं लं वं शं षं सं हं लंक्षं अः करतलपृष्ठाभ्यां फट् एवं हृदयादिषु ।अं कं आं हृदयाय नमः इत्यादि तथाच ज्ञानार्णवे ।“अं आं मध्ये कवर्गन्तु इं ईं मध्ये चवर्गकम् ।उं ऊं मध्ये टवर्गन्तु एं ऐं मध्ये तवर्गकम्
ओँ औं मध्ये पवर्गन्तु बिन्दुयुक्तं न्यसेत् प्रिये ! ।अनुस्वारविसर्गान्तर्यशवर्गौ सलक्षकौ
हृदयञ्च शिरो देवि ! शिखा कवचकं तथा ।नेत्रमन्त्रं न्यसेत् ङेऽन्तं नमः स्वाहा क्रमेण तु
वषट् हुं वौषडन्तञ्च फडन्तं योजयेत् प्रिये ! ।षडङ्गोऽयं मातृकायाः सर्व्वपापहरः स्मृतः
*
अथान्तर्मातृकान्यासः ।अकारादिषोडशस्वरान् सबिन्दून् षोडशदल-कमले कण्ठमूले न्यसेत् ककारादिद्बादश-वर्णान् सबिन्दून् द्बादशदलकमले हृदये न्यसेत् ।डकारादिदशवर्णान् सबिन्दून् दशदलकमलेनाभौ न्यसेत् वकारादिषड्वर्णान् सबिन्दून्षड्दलकमले लिङ्गमूले न्यसेत् वकारादि-चतुरो वर्णान् सबिन्दून् चतुर्दलकमले मूला-धारे न्यसेत् हक्षवर्णद्वयं सबिन्दुं द्विदलपद्म-भ्रूमध्ये न्यसेत् तथा ज्ञानार्णवे ।“द्ब्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडष विन्यसेत् ।द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत्
दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश ।षट्पत्रमध्ये लिङ्गस्थे बकारादीन्न्यसेच्च षट्
आधारे चतुरो वर्णान्न्यसेद्बादीन् चतुर्द्दले ।हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये !
”अगस्त्यसहितायाम् ।“एकैकवर्णमेकैकपत्रान्ते विन्यसेत् प्रिये ! ।एवमन्तः प्रविन्यस्य मनसातो बहिर्न्यसेत्
*
वैष्णवे तु ।एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् ।नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः
अथान्तर्मातृकान्यासो मूलाधारे चतुर्द्दले ।सुवर्णाभे चतुर्व्वर्गविभूषिते
षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।ब मैर्य लैर्युक्ते वर्णैः षड् भिश्च मुव्रते !
मणिपूरे दशदले नीलजीमूतसन्निभे ।डादिफान्तदलैर्युक्ते बिन्दूद्भासितमस्तकैः
अनाहते द्वादशारे प्रवालरुचिसन्निभे ।कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे
विशुद्वे षोडदशदले धूम्राभे स्वरभूषिते ।आज्ञाचक्रे तु चन्द्राभे द्बिदले हक्षलाञ्छिते
सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते ।अकथादित्रिरेखात्म क्ष त्रयभूषिते
तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् ।एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः
”ततो वाह्यमातृकाध्यानम् ।“पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलांभास्व मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ता-स्वुजै-र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवता-माश्रये
”एवं ध्यात्वा न्यसेत् तत्राङ्गुलिनियमस्तन्त्रे ।“ललाटेऽनामिकामध्ये विन्यसेम्मुखपङ्कजे ।तर्जनीमध्यमानामा वृद्धानामे नेत्रयोः
अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः ।मध्यास्तिस्रो गण्डयोश्च मध्यमाञ्चोष्ठयोर्न्यसेत्
अनामां दन्तयोर्नस्य मध्यमामुत्तमाङ्गके ।मुखेऽनामां मध्यमाञ्च हस्तपादे पार्श्वयोः
कनिष्ठानामिकामध्यास्तास्तु पृष्ठे विन्यसेत् ।ताः साङ्गुष्ठा नाभिदेशे सर्व्वाः कुक्षौ चविन्यसेत्
हृदये तलं सर्व्वं अंसयोश्च ककुत्स्थले ।हृत्पूर्व्वं हस्तपत्कुक्षि मुखेषु तलमेव
एतास्तु मातृकामुद्राः क्रमेण परिकोर्त्तिताः ।अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्यनिष्फलः
”गौतमीये ।“ललाटमुखबृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।ओष्ठदन्तोत्तमाङ्गास्यदोः पत्सन्ध्यग्रकेषु
पाश्वयोः पृष्ठतो नाभौ जठरे हृदयेऽसके ।ककुद्यंसे हृत्पूर्व्वं पाणिपादयुगे तथा ।जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात्
”तद्यथा अं नमो ललाटे आं नमो मुख-वृत्ते इं ईं चक्षुषोः उं ऊं कर्णयोः ।ऋं ॠं नसोः ऌं ॡं गण्डयोः एं ओष्ठे ।ऐं अधरे ऊर्द्ध्वदन्ते औं अधोदन्ते अंब्रह्मरन्ध्रे अः सुखे कं दक्षबाहुमूले खंकुर्परे गं मणिबन्धे घं अङ्गुलिमूले ङंअङ्गुल्यग्रे एवं चं वामबाहुमूलसन्ध्यग्रकेषु ।एवं टं दक्षिणपादमूलसन्ध्यग्रकेषु एवं तं ५वामपादमूलसन्ध्यग्रकेषु पं दक्षिणपार्श्वे फंवामपार्श्वे बं पृष्ठे भं नाभौ मं जठरे ।यं हृदि रं दक्षबाहुमूले लं ककुदि ।वं वामबाहुमूले शं हृदादिदक्षहस्ते षंहृदादिवामहस्ते सं हृदादिदक्षपादे हंहृदादिवामपादे लं हृदाद्युदरे क्षं हृदादि-मुखे सर्व्वत्र नमोऽन्तेन न्यसेत् तथा ।“ओमाद्यन्तो नमोऽन्तो वा सबिन्दुर्व्विन्दु-वर्ज्जितः ।पञ्चाशद्वर्णविन्यासः क्रमादुक्तो मनीषिभिः
”इति भट्टः
*
अथ संहारमातृकान्यासः ।तस्या ध्यानं यथा, --“अक्षस्रजं हरिणपोतमुदग्रटङ्कंविद्याः करैरविरतं दधतीं त्रिनेत्राम् ।अर्द्धेन्दुमौलिमरुणामरबिन्दरामांवर्णेश्वरीं प्रणमत स्तनभारनम्राम्
न्यासस्तु क्षकाराद्यकारान्तः यथा क्षं नमोहृदादिमुखे इत्यादि
*
अपरञ्च ।“चतुर्धा मातृका प्रोक्ता केवला बिन्दुसंयुता ।सविसर्गा सोभया रहस्यं शृणु कथ्यते
विद्याकरी केबला सोभया भुक्तिदायिनी ।पुत्त्रदा सविसर्गा तु सबिन्दुर्व्वित्तदायिनी
”विशुद्धेश्वरे ।वाग्भवाद्या वाक्सिद्ध्यै रमाद्या श्रीप्रवृद्धये ।हृल्लेखाद्या सर्व्वसिद्ध्यै कामाद्या लोकवश्यदा ।श्रीकण्ठाद्यानिमान्न्यस्येत् सर्व्वमन्त्रः प्रसीदति
”श्रीविद्याबिषये नवरत्नेश्वरे ।“वाग्भवाद्या नमोऽन्ताश्च न्यस्तव्या मातृका-क्षराः ।श्रीविद्याविषये मन्त्री वाग्भवाद्यष्टसिद्धये
”इति तन्त्रसारः
(मातृ + “ऋतष्ठञ् ।” ७८ इति ठञ् ।त्रि मातुरागतम् यथा, महाभारते ।८७ ६७ ।“योऽन्वयो मातृकस्तस्य एनमभिपेदि-वान्
”)
वाचस्पत्यम्
Sanskrit
मातृका स्त्री मातेव कायति कै--क उपमातरि ब्रह्मा-ण्यादिषु चण्डीप्रसिद्धदेवीमूर्त्तिषु सर्वशब्दोत्पादकेषुअकारादिकोनपञ्चाशद्वर्णेषु मातरि मेदि० मातृ +स्वार्थे मातृशब्दार्थे