| YouTube Channel

मातामहः (mAtAmahaH)

 
Apte
English
मातामहः [mātāmahḥ], A maternal grandfather. -हौ (dual) The maternal grand-father and grand-mother. -ही The maternal grand-mother.
Apte 1890
English
मातामहः A maternal grandfather.
हौ (dual) The maternal grand-father and grand-mother.
ही The maternal grand-mother.
Apte Hindi
Hindi
मातामहः
पुं*
- मातृ + डामहच्
नाना
Tamil
Tamil
மாதாமஹ: : தாயின் தந்தை.
शब्दकल्पद्रुमः
Sanskrit
मातामहः,
पुं,
(मातुः पिता “पितृव्यमातुलमातामहपितामहाः ३६ इतिडामहच् निपातितश्च ।) मातुः पिता इत्य-मरः ३३
दौहित्रस्य मातामह-साधर्म्यं यथा, --“आसीदङ्गो नृपश्रेष्ठो यज्ञशीलो दृढव्रतः ।यजतः सुमहत्कालाद्वेण एकोऽभवत्ततः
मृत्योः कन्या सुनीथा या मातुर्दुःशीलकारणात् ।क्रूरा बुद्धिरभूत्तस्य जगतोऽस्यापि पीडने
तपस्विनां कुले जाता ऋषीणाञ्च यशस्विनाम् ।सगुणां निर्गुणां वापि यान्ति मातामहीं तनुम्
”इत्यग्निपुराणम्
तन्मरणे त्रिरात्राशौचं यथा मातामहानांमरणे त्रिरात्रं स्यादशौचकम् इति शुद्धितत्त्वेकूर्म्मपुराणम्
*
दुहितृपर्य्यन्ताभावे तस्यश्राद्धे दौहित्रस्याधिकारो यथा, --“मातामहानां दौहित्राः कुर्व्वन्त्यहनि चापरे ।ते तेषां प्रकुर्ब्बन्ति द्बितीयेऽहनि सर्व्वदा
”इति शुद्धितत्त्वम् ।दुहितृपर्य्यन्ताभावे तस्य धने दौहित्रस्याधि-कारो यथा तदभावे दौहित्रः ।“पौत्त्रदौहित्रयोर्लोके विशेषो नास्ति धर्म्मतः ।तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः
”इति मनुवचने पौत्त्रतुल्याभिधानेन यथापुत्त्राभावे पौत्त्रस्तथा दुहित्रभावे दौहित्रः ।अतएव गोबिन्दराजधृतो विष्णुः ।अपुत्त्रपौत्रे संसारे दौहित्रा धनमाप्नु युः ।पूर्व्वेषां हि स्वधाकारे पौत्त्रदौहित्रकाः समाः
”इति दायतत्त्वम्