| YouTube Channel

माणिक्यं (mANikyaM)

 
Apte 1890
English
माणिक्यं A ruby.
शब्दकल्पद्रुमः
Sanskrit
माणिक्यं,
क्ली,
(मणिप्रकारः मणि “+ स्थूलादिभ्यःप्रकारवचने कन् ।” इति प्रशं-सायां कन् ततो मणिकमेवेति मणिक +“चातुर्वर्णादीनामुपसंख्यानम् ।” १२४ ।इति वार्त्तिकबलात् ष्यञ् ।) रत्नविशेषः ।माणिक् इति भाषा तत्पर्य्यायः शोण-रत्नम् रत्नराट् रविरत्नकम् शृङ्गारी ५रङ्गमाणिक्यम् तरुणम् रत्ननामकम् ८रागयुक् पद्मरागः १० रत्नम् ११ शोणो-पलः १२ सौगन्धिकम् १३ लोहितकम् १४कुरुबिन्दम् १५ अस्य गुणाः मधुरत्वम् ।स्निग्धत्वम् वातपित्तनाशित्वम् रत्नप्रयोगेप्रधानत्वम् परं रसायनकारित्वञ्च तस्यलक्षणं यथा, --“स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं समाङ्गञ्चसुरङ्गदञ्च
”इति जात्यमाणिक्यं कल्याणं धारणात् कुरुते
तस्य दोषो यथा, --“द्बिच्छायमभ्रपिहितं कर्कशं शार्करिलंभिन्नं धूम्रञ्च ।विरूपं रागविमलं लघुमाणिक्यं धारये-द्धीमान्
”तस्य चतुर्विधा जातिर्यथा ।“तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा ।जानीयात् कुरुबिन्दकं यदरुणं स्यादेषु सौग-न्धिकम् ।तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैःमाणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यंजगुः
इति राजनिर्घण्टः
*
मतान्तरे तस्य दोषा यथा, --“माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैःद्बिच्छायञ्च द्विरूपञ्च सम्भेदः कर्करन्तथा
अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै ।गुणाश्चत्वार आख्याताश्छायाः षोडशकीर्त्तिताः
”छायास्तु पूर्व्वोक्ता एव तास्तु पद्मरागशब्देद्रष्टव्याः ।“छायाद्वितयसम्बन्धाद्द्विच्छायं बन्धुनाशनम् ।द्बिरूपं द्बिपदं तेन माणिक्येन पराभवः
सम्मेदो भिन्नमित्युक्तं शस्त्रघातविधायकम् ।कर्करं कर्करायुक्तं पशुबन्धुविनाशकृत्
दुग्धेनेव समालिप्तमघनीपुटमुच्यते ।अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत्
मधुबिन्दुसमच्छायं कोकिलं परिकीर्त्तितम् ।आयुर्लक्ष्मीयशो हन्ति सदोषं तन्न धारयेत्
रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् ।धूम्रं धूमसमाकारं वैद्यतं भयमावहेत्
”तथा ।“शोभाद्वितयवन्तो ये मणयः क्षतिकारकाः ।उभयत्र पदं येषां तेन स्यात् पराभवः
भिन्नेन युद्धे मृत्युः स्यात् कर्करन्धननाशकृत् ।दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत्
दुःखकृत् समाख्यातो नृपै रक्षणीयकः ।भधुबिन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता ।तेषाञ्च बहुभेदाः स्युर्न ते धार्य्याः कदाचन
”अथ गुणाः ।“गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता ।”तथा ।“वर्णाधिकं गुरुत्वञ्च स्निग्धता तथाच्छता ।अर्च्चिष्मत्ता महत्ता मणीनां गुणसंग्रहः
”फलम् ।“ये कर्कराश्छिद्रमयोऽपदिग्धाःप्रभाविमुक्ताः परुषा विवर्णाः ।न ते प्रशस्ता मणयो भवन्तिसमासतो जातिगुणैः समस्तैः
दोषोपसृष्टं मणिमप्रबोधाद्बिभर्त्ति यः कश्चन कञ्चिदेकम् ।तं बन्धुदुःखामयबन्धुवित्त-नाशादयो दोषगणा भजन्ते
सपत्नमध्येऽपि कृताधिवासंप्रमादवृत्तावपि वर्त्तमानम् ।न पद्मरागस्य महागुणस्यभर्त्तारमापत् समुपैति काचित्
दोषोपसर्गप्रभवाश्च ये तेनोपद्रवास्तं समभिद्रवन्ति ।गुणैः समुख्यैः सकलैरुपेतंयः पद्मरागं प्रयतो बिभर्त्ति
बालार्ककरसंस्पर्शात् यः शिखां लोहितांवमेत् ।रञ्जयेदाश्रमं वापि महागुण उच्यते
दुग्धे शतगुणे क्षिप्तो रञ्जयेद्यः समन्ततः ।वमेच्छिखां लोहितां वा पद्मरागः उत्तमः
अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः ।प्रकाशयति सूर्य्याभः श्रेष्ठः पद्मरागकः
पद्मकोषे तु यो न्यस्तो विकाशयति तत्क्षणात् ।पद्मरागवरो ह्येष देवानामपि दुर्लभः
सर्व्वरिष्टप्रशमनाः सर्व्वसम्पत्तिदायकाः ।चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम्
यो मणिर्दृश्यते दूराज्ज्वलदग्निसमच्छविः ।वंशकान्तिः विज्ञेयः सर्व्वसम्पत्तिदायकः
पञ्चसप्तनवविंशतिरागःसम्बृतोऽपि सकलः खलु वस्त्रे ।वर्जयेद्बमति वा करजालंउत्तरोत्तरमहागुणिनस्ते
नीलीरसं दुग्धरसं जलं वाये रञ्जयन्ति द्बिशतप्रमाणम् ।ते ते यथापूर्व्वमतिप्रशस्ताःसौभाग्यसम्पत्तिविधानदायकाः
गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् ।पद्मरागस्तुलयति यथापूर्व्वं महागुणः
क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान् ।पद्मरागस्तुलयति यथापूर्व्वं महागुणः
वदरीफलतुल्यो यः स्वरदिग्वसुमासकः ।तथा धात्रीफलत्रिंशत्विंशतिद्व्यष्टमासकः
तथाक्षफलतुल्यो यो वह्निपक्षैकमासकः ।ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः ।विम्बीफलसमाकारो वसुषड्दशतोलकः
अतःपरं प्रमाणेन मानेन लभ्यते ।यदि लभ्येत पुण्येन तदा सिद्धिमवाप्नुयात्
केचिच्चारतराः सन्ति जात्यानां प्रतिरूपकाः ।विजातयः प्रयत्नेन सिद्धास्ता मूल्यमाहरेत्
काङ्कलकाः सिंहलदेशोत्थमुक्तमालीयाः ।श्रीपर्णिकाश्च सदृशा विजातयः पद्मरागाणाम्
तुषोपसङ्गाद्दलनाभिधानंमणिः स्वभावादपि तुम्बुरूत्थः ।कार्ष्णात्तथा सिंहलदेशजातंमुक्ताभिधानं नभसः स्वभावात् ।श्रीपर्णकं दीप्तिनिराकृतित्वा-द्विजातिलिङ्गाश्रयभेद एषः
*
”तथा ।“स्नेहप्रदेहो मृदुता लघुत्वंविजातिलिङ्गं खलु सार्व्वजन्यम् ।यः श्यामिकां पुष्यति पद्मरागोयो वा तुषाणामिव चूर्णमध्यः
स्नेहप्रदिग्धो यो विभातियो वा प्रमृज्यः प्रजहाति दीप्तिम् ।आक्रान्तमूर्द्धा तथाङ्गुलिभ्यांयः कालिकां पार्श्वगतां बिभर्त्ति
संप्राप्य तार्क्ष्योऽपि कथं स्ववृत्तंबिभर्त्ति यः सर्व्वगुणानतीव ।तुल्यप्रमाणस्य तुल्यजाते-र्यो वा गुरुत्वेन भवेन्न तुल्यः ।प्राप्यापि नानाकरदेशजातंज्ञात्वा बुधो जातिगुणेन लक्षेत्
अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् ।घृष्ट्वा योऽत्यन्तशोभावान् परिमाणं मुञ्चति
ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः ।स्वजातकं संमुखेन विलिखेद्बा परस्पपरम्
वज्रं वा कुरुबिन्दं वा विमुच्यान्योन्यकेन चेत् ।न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः
गुणोपपन्नेन सहावबन्धोमणिस्त्वजात्यो विगुणेन जातः ।सुखं कुर्य्यादपि कौस्तुभेनविद्वान् विजातिं भृयाद्बुधस्तम्
चण्डाल एकोऽपि तथाभिजातान्समेत्य दूरानपहन्ति यत्नात् ।तथा मणीन् भूरिगुणोपपन्नान्शक्तोऽतिविद्रावयितुं विजातः
*
अथ मूल्यम् ।“बालार्काभिमुखं कृत्वा दर्पणे धारयेन्मणिम् ।तत्र कान्तिविभागेन च्छायाभागं विनिर्द्दिशेत्
वज्रस्य यत्तण्डुलसंख्ययोक्तंमूल्यं समुन्मापितगौरवस्य ।तत् पद्मरागस्य गुणान्वितस्यस्यान्माषकाख्यातुलितस्य मूल्यम्
यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् ।तावन्मूल्यं तथा शुद्धे कुरुबिन्दे विधीयते
सगुणे कुरुबिन्दे यावन्मूल्यं प्रकीर्त्तितम् ।तावन्मूल्यं चतुर्थांशहीनं स्याद्वै सुगन्धिके
यावन्मूल्यं समाख्यातं वैश्यवर्णे सूरिभिः ।तावन्मूल्यचतुर्थांशं हीयते शूद्रजन्मनि
पद्मरागः पणं यस्तु धत्ते लाक्षारसप्रभः ।कार्षापणस्रहस्राणि त्रिंशन्मूल्यं लभेत सः
इन्द्रगोपकसङ्काशः कर्षत्रयधृतो मणिः ।द्वाविंशतिसहस्राणि तस्य मूल्यं विनिर्द्दिशेत्
एकोनो नूयते यस्तु जवाकुसुमसन्निभः ।कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश
बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते ।कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम्
यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः ।कार्षापणशतानान्तु विंशतिर्मूल्यमादिशेत्
चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः ।मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम्
द्बिमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः ।तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः
माषकैकमितो यस्तु पद्मरागो गुणान्वितः ।शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः
अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः ।स्वर्णद्बिगुणमूल्येन मूल्यं तेषां प्रकल्पयेत्
कार्षापणः समाख्यातः पुराणद्वयसम्मितः ।अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः
काषाया इति विख्याताः स्फटिकप्रभावाश्च ते ।तेषां दोषो गुणो वापि पद्मरागवदादिशेत्
मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा ।ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः
चतुर्विधैर्नृपतिभिर्धार्य्याः सम्पत्तिहेतवे ।अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम्
”इति युक्तिकल्पतरुः
(यथा, कथासरित्सागरे २६ ४४ ।“सोऽपि प्राप्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम् ।सौवर्णभित्ति सङ्केतकेतनं सम्पदामिव
”कदलीविशेषः तद्यथा, --“माणिक्यमर्त्त्यामृतचम्पकाद्याभेदाः कदल्या बहवोऽपि सन्ति ।”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)