| YouTube Channel

माणः (mANaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ऊर्णुञ् आच्छादने”@} 2 3 ऊर्णावकः-विका, ऊर्णावकः विका, 4 ऊर्णुनविषकः-ऊर्णुनुविषकः-ऊर्णु- नूषकः-षिका, 5 ऊर्णोनूयकः-यिका
6 ऊर्णविता-ऊर्णुविता-त्री 7, ऊर्णावयिता-त्री, ऊर्णुनविषिता-ऊर्णुनुविषि- ता-ऊर्णुनूषिता-त्री, ऊर्णोनूयिता-त्री
8 ऊर्णुवन्-ऊर्णुवती, ऊर्णावयन्-न्ती, ऊर्णुनविषन्-ऊर्णुनुविषन्-ऊर्णु- नूषन्-न्ती
9 ऊर्णुवानः, ऊर्णावयमानः, ऊर्णुनविषमाणः-ऊर्णुनुविषमाणः-ऊर्णुनूष- माणः, ऊर्णोनूयमानः
अूर्णविष्यमाणः-ऊर्णुविष्यमाणः, ऊर्णावयिष्यमाणः, ऊर्णुनविषिष्यमाणः- ऊर्णुनुविषिष्यमाणः-ऊर्णुनूषिष्यमाणः, ऊर्णोनूयिष्यमाणः
10 ऊर्णुत्-ऊर्णुतौ-ऊर्णुतः
11 12 ऊर्णुतम्- 13 तः, ऊर्णावितं-तः, ऊर्णुनविषितः-ऊर्णुनुविषितः-ऊर्णुनूषितः, ऊर्णोनूयितः-तवान्
अूर्णवः, ऊर्णावः, 14 ऊर्णुनविषुः-ऊर्णुनुविषुः-ऊर्णुनूषुः, ऊर्णुनावयिषुः, 15 ऊर्णोनुवः
अूर्णवितव्यम्-ऊर्णुवितव्यम्, ऊर्णावयितव्यम्, ऊर्णुनविषितव्यम्-ऊर्णुनु- विषितव्यम्-ऊर्णुनूषितव्यम्, ऊर्णोनूयितव्यम्
अूर्णवनीयम्, ऊर्णावनीयम्, ऊर्णुनविषणीयम्-ऊर्णुनुविषणीयम्-ऊर्णुनू- षणीयम्, ऊर्णोनूयनीयम्
16 ऊर्णव्यम्- 17 अवश्योर्णाव्यम्, ऊर्णाव्यम्, ऊर्णुनविष्यम्-ऊर्णुनुविष्यम्- ऊर्णुनूष्यम्, ऊर्णोनूय्यम्
अीषदूर्णवः-दुरूर्णवः-सूर्णवः
18 ऊर्णूयमानः, ऊर्णाव्यमानः, ऊर्णुनविष्यमाणः-ऊर्णुनुविष्यमाणः-ऊर्णु- नूष्यमाणः, ऊर्णोनूय्यमानः
19 ऊर्णवः, ऊर्णावः, ऊर्णुनविषः-ऊर्णुनुविषः-ऊर्णुनूषः, ऊर्णोनूयः
अूर्णवितुम्- 20 ऊर्णुवितुम्, ऊर्णावयितुम्, ऊर्णुनविषितुम्-ऊर्णुनुविषितुम्- ऊर्णुनूषितुम्, ऊर्णोनूयितुम्
21 अूर्णुतिः, ऊर्णावना, ऊर्णुनविषा-ऊर्णुनुविषा-ऊर्णुनूषा, ऊर्णुनावयिषा, ऊर्णोनूया
अूर्णवनम्, ऊर्णावनम्, ऊर्णुनविषणम्-ऊर्णुनुविषणम्-ऊर्णुनूषणम्, ऊर्णोनूयनम्
अूर्णुत्वा, ऊर्णावयित्वा, ऊर्णुनविषित्वा-ऊर्णुनुविषित्वा-ऊर्णुनूषित्वा, ऊर्णोनूयित्वा
समूर्णुत्य, समूर्णाव्य, समूर्णुनविष्य-समूर्णुनुविष्य-समूर्णुनूष्य, समूर्णोनूय्य
ऊर्णावम् २, ऊर्णुत्वा २, ऊर्णावम् २, ऊर्णावयित्वा २, ऊर्णुनविषम् २, ऊर्णुनविषित्वा २, ऊर्णुनुविषम्
ऊर्णुनुविषित्वा
ऊर्णुनूषम् २- ऊर्णुनूषित्वा २, ऊर्णोनूयम् २- ऊर्णोनूयित्वा
22 ऊर्णा, 23 ऊरुः।
प्रासङ्गिक्यः
01
=>
(११४)
02
=>
(२-अदादिः-१०३९। सक। सेट्। उभ।)
03
=>
[[१। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धौ, आवादेशः। एवं णिच्यपि सर्वत्र बोध्यम्।]]
04
=>
[[२। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इति सन इड्विकल्पः। इट्पक्षे ‘विभाषोर्णोः’ (१-२-३) इति इडादेः प्रत्ययस्य ङित्त्वं वैकल्पिकम्। ङित्त्वाभावपक्षे गुणावादेशयोः ‘ऊर्णुनविषकः’ इति रूपम्। ङित्त्वपक्षे उवङि ‘ऊर्णुनुविषकः’ इति रूपम्। इडभावपक्षे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘इको झल्’ (१-२-९) इति सनः कित्त्वे ‘ऊर्णुनूषकः’ इति रूपम्। एवं सर्वत्र सन्नन्ते रूपत्रयस्योपपत्तिः।]]
05
=>
[[३। ‘सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यः--’ (वा। ३-१-२२) इति यङ्। ‘सन्यङोः’ (६-१-९) इति द्वितीयस्यैकाचः द्वित्वे ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणे ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घे रूपम्। एवं यङन्ते सर्वत्र बोध्यम्।]]
06
=>
[[४। ‘विभाषोर्णोः’ (१-२-३) इति इडादिप्रत्ययस्य वैकल्पिकङिद्वद्भावात् रूपद्वयम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07
=>
[[आ। ‘प्रोर्णुवित्रीं दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम्।।’ भ। का। ७-९३।]]
08
=>
[[५। ‘सार्वधातुकमपित्’ (१-२-४) इति शतुर्ङिद्वद्भावात् गुणाभावे, उवङि रूपम्। एवं ‘ऊर्णुवान’ इत्यत्रापि ज्ञेयम्।]]
09
=>
[[B। ‘दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य। तस्थौ सिसङ्ग्रा- मयिषुः शितेषुः सौमित्रिरक्षिभ्रुवमुज्जिहानः।।’ भ। का। ३-४७।]]
10
=>
[[६। क्विपि ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुक्। एवं ल्यप्यपि।]]
11
=>
[पृष्ठम्०११३+ २५]
12
=>
[[१। ‘ऊर्णोतेर्नुवद्भावो वाच्यः--’ (वा। ७-२-११) इत्यतिदेशेन एकाच्त्वात् ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। एवं क्तिनि क्त्वायां ज्ञेयम्।]]
13
=>
[[आ। ‘केऽप्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्त्राः। सोऽनूर्णुतोऽद्यौज्ज- नसुत् कुवत्या काञ्च्येव कामं स्तुवतां ब्रुवाणः।।’ धा। का। २-४७।]]
14
=>
[[B। ‘वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते। तं प्रोर्णनूषुरुपलैः सवृक्षैराबभौ कपिः।।’ भ। का। ९-३६।]]
15
=>
[[२। यङन्तात् पचाद्यचि, ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि, ‘न धातुलोप आर्धधातुके’ (१-१-४) इति गुणनिषेधे उवङि रूपम्।]]
16
=>
[[३। ‘अचो यत्’ (३-१-९७) इति यति गुणे ‘वान्तो यि प्रत्यये’ (६-१-७९) इति वान्तादेशे रूपम्।]]
17
=>
[[४। ‘ओरावश्यके’ (३-१-१२५) इति ण्यति वृद्धौ आवादेशे रूपम्।]]
18
=>
[[५। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
19
=>
[[६। ‘ॠदोरप्’ (३-३-५७) इति भावे अप्।]]
20
=>
[[C। ‘यत्नं प्रोर्णुवितुं तूर्णं दिशं कुरुत दक्षिणाम्।’ भ। का। ७-९३।]]
21
=>
[पृष्ठम्०११४+ २४]
22
=>
[[१। ‘ऊर्णोतेर्डः’ (द। उ। ५-६४) इति डः प्रत्ययः। ‘ऊर्णा मेषादिलोम्रि स्यादावर्ते चान्तरा भ्रुवोः’ इत्यमरकोशव्याख्यायां सुधायां तु ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डः--इति साधितम्। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इत्यत्र ‘अपिशब्दः सर्वोपाधिव्यभिचारार्थः। तेन धात्वन्तरादपि कारकान्तरेष्वपि क्वचित्-परितः खाता = परिखा--’ इति सिद्धान्तकौमुद्यामुक्तम्।]]
23
=>
[[२। ऊर्णूयते = आच्छाद्यते--इति कर्मणि ‘ऊर्णोतेर्नुलोपश्च’ (द। उ। १-११५) इति कुः प्रत्ययः। ऊरुः = सक्थिः।]]
1 {@“घट्ट चलने”@} 2 ‘घट्टयेद् घट्टते द्वे स्तां चलने णौ शपि क्रमात्’।
3 इति देवः।
घट्टकः-ट्टिका, घट्टकः-ट्टिका, जिघट्टिषकः-षिका, जाघट्टकः-ट्टिका
अित्यादीनि सर्वाण्यपि रूपाणि भौवादिककड्डधातुवत् 4 बोध्यानि।
अस्य धातोः अनुदात्तेत्त्वात् शानचि--घट्टमानः, घट्टिष्यमाणः, जिघट्टिष- माणः, जिघट्टिषिष्यमाणः
इत्यादीनि रूपाणि भवन्तीति विशेषः।
‘घट्टि- वन्दिविदिभ्यश्च’ 5 इति वचनेन घट्टना इति रूपं स्त्रियां भवति।
ल्युटि घट्टनम् 6।
7 घट्टितम्।
प्रासङ्गिक्यः
01
=>
(४५८)
02
=>
(१-भ्वादिः-२५९। सक। सेट्। आत्म।)
03
=>
(श्लो। ७३)
04
=>
(१५६)
05
=>
(वा। ३-३-१०७)
06
=>
[[B। ‘तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्।’ शिशुपालवधे ३-६।]]
07
=>
[[C। ‘तत्केलिसङ्गोष्टितलोष्टमानमद् वने मरुद्घट्टितपोस्फुटद्द्रुमे।।’ धा। का। १-३४।]]
1 {@“तुर त्वरणे”@} 2 छान्दसः।
तोरकः-रिका, तोरकः-रिका, तुतुरिषकः-तुतोरिषकः-षिका, तोतुरकः-रिका
तोरिता-त्री, तोरयिता-त्री, तुतुरिषिता-तुतोरिषिता-त्री, तोतुरिता-त्री
3 तुतुरत्-ती, तोरयन्-न्ती, तुतुरिषन्-तुतोरिषन्-न्ती
तोरिष्यन्-न्ती-ती, तोरयिष्यन्, तुतुरिषिष्यन्-तुतोरिषिष्यन्-न्ती-ती
तोरयमाणः, तोरयिष्य- माणः, 4 तोतूर्यमाणः, तोतुरिष्यमाणः
5 प्रतूः-प्रतुरौ-प्रतुरः
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुरधातुवत् 6 बोध्यानि।
7 तुरः 8।
प्रतूर्य।
प्रासङ्गिक्यः
01
=>
(७५५)
02
=>
(३-जुहोत्यादिः-११०२। अक। सेट्। पर।)
03
=>
[[१। धातोरस्य जुहोत्यादित्वात् ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति शपः श्लुः। ‘श्लौ’ (६-१-१७) इति द्विर्वचनम्। ‘सार्वधातुकमपित्’ (१-२-४) इति श्लोर्ङिद्वद्भावादङ्गस्य गुणो न। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः।]]
04
=>
[[२। ‘हलि च’ (८-२-७७) इति दीर्घः।]]
05
=>
[[३। क्विपि, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घः। विसर्गः।]]
06
=>
(२२९)
07
=>
[[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
08
=>
[[B। ‘घर्मोष्मभिस्तत्र समारताग्रे नभस्तुरैस्तैः प्रधने प्रवीणैः।।’ धा। का। २। ५५।]]
1 {@“तुल उन्माने”@} 2 तोलकः-लिका, तुतोलयिषकः-षिका
तोलयिता-त्री, तुतोलयिषिता-त्री
तोलयन्-न्ती, तुतोलयिषन्-न्ती
तोलयिष्यन्-न्ती-ती, तुतोलयिषिष्यन्- न्ती-ती
तोलयमानः, तुतोलयिषमाणः
तोलयिष्यमाणः, तुतोलयिषिष्य- माणः
प्रतोल्-प्रतोलौ-प्रतोलः
तोलितम्-तः-तवान्, तुतोलयिषितः- तवान्
तोलः, 3 तुलः 4 , तुतोलयिषुः
तोलयितव्यम्, तुतोलयिषितव्यम्
5 तोलनीयम्, तुतोलयिषणीयम्
तोल्यम्, तुतोलयिष्यम्
ईषत्तोलः-दुस्तोलः- सुतोलः
तोल्यमानः, तुतोलयिष्यमाणः
तोलः, तुतोलयिषः
तोलयितुम्, तुतोलयिषितुम्
तोलना- 6 तुलना, तुला, तुतोलयिषा
तोलनम्, तुतोलयिषणम्
तोलयित्वा, तुतोलयिषित्वा
प्रतोल्य, प्रतुतोलयिष्य
तोलम् २, तोलयित्वा २, तुतोलयिषम्
तुतोलयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७५७)
02
=>
(१०-चुरादिः-१५९९। सक। सेट्। उभ।)
03
=>
[[४। ‘चुरादिणिचोऽनित्यत्वात् तदभावः।’ इति धातुकाव्यव्याख्याने (३-२१) प्रोक्तम्।]]
04
=>
[[B। ‘दुर्दान्तचक् पशुपचुक्कनमप्यरौत्सीत् प्रक्षालितक्षितितलातुलवर्षरोधी।’ धा। का। ३। २१।]]
05
=>
[पृष्ठम्०६७५+ २६]
06
=>
[[१। बाहुलकाद् गुणाभावे रूपम्। ‘चिन्तिपूजि--’ (३-३-१०५) इत्यत्र चकारात् तुला’ इति क्षीरस्वामी। माधवधातुवृत्तौ तु-- ‘तुला इति ‘णिचो- ऽनित्यत्वात्’ इति मैत्रेयः। अन्ये तु ‘णिजभावे प्रमाणाभावात् ‘तुल्यार्थैः--’ (२-३-६२) इत्यादौ तुला इति निपातनादङि णिलुकि तुला इति।’ इत्युक्तम्।]]
1 {@“मृजू शुद्धौ”@} 2 3 ‘मृजूष्--’ इति क्षीरस्वामी षितममुं पठित्वा, उत्तरत्र, ‘भिदादौ 4 मृजा।’ इत्यप्याह।
अनूदितश्चायं पक्षः पुरुषकारे 5, खण्डितश्च।
‘षकारोऽङर्थः।’ इति क्षीरस्वामिवाक्यं किञ्चिदनूदितमत्र पुरुषकारे।
परं तु क्षीरतरङ्गिण्यां नैतादृशं वाक्यमधुनोपलभ्यते।
यदि धातोः षित्त्वं प्रामाणिकं स्यात्--तर्हि षित्त्वेनैन निदानेनाङ्सिद्धेर्भिदादिपाठपरिकल्पनमन्या- य्यमिति तदाशयः।
वस्तुतस्तु क्षीरतरङ्गिण्यां धातोरस्य षित्करणं लेखकदो- षादापतितमिति भाति।]] ‘शौचालंकारयोर्वा णौ मृजेर्मार्जति मार्जयेत्।।
मार्ष्टि शुद्धौ तथा मार्जेः शब्दार्थान्मार्जयेण्णिचि।’ 6 इति देवः।
मार्जकः-र्जिका, मार्जकः-र्जिका, 7 मिमार्जिषकः-षिका-मिमृक्षकः-क्षिका, 8 9 मरीमृजकः-जिका
10 मार्जिता-मार्ष्टा-मार्ष्ट्री, मार्जयिता-त्री, मिमार्जिषिता-मिमृक्षिता-त्री, मरीमृजिता-त्री
11 मार्जन्-मृजन्-ती, मार्जयन्-न्ती, मिमार्जिषन्-मिमृक्षन्-न्ती
मार्जिष्यन्- 12 मार्क्ष्यन्-न्ती-ती, मार्जयिष्यन्-न्ती-ती, मिमार्जिषिष्यन्-मिमृक्षिष्यन्-न्ती-ती
-- 13 व्यतिमार्जानः, व्यतिमृजानः, मार्जयमानः, व्यतिमिमार्जिषमाणः-व्यतिमि- मृक्षमाणः, मरीमृज्यमानः- 14 मर्मृज्यमानासः व्यतिमार्जिष्यमाणः-व्यतिमार्क्ष्य- माणः, मार्जयिष्यमाणः, व्यतिमिमार्जिषिष्यमाणः-व्यतिमिमृक्षिष्यमाणः, मरीमृजिष्यमाणः
15 कंसपरिमृट्-कंसपरिमृड्-कंसपरिमृजौ-कंसपरिमृजः
-- 16 17 मृष्टम्-मृष्टः-मृष्टवान्, मार्जितः, मिमार्जिषितः-मिमृक्षितः, मरीमृजितः-तवान्
परिमार्जः, 18 तुन्दपरिमृजः 19 -तुन्दपरिमार्जः, 20 परिमार्क्ष्णुः, 21 मार्जनः, मार्जः, मिमार्जिषुः-मिमृक्षुः, मरी22मृजः
मार्जितव्यम्-मार्ष्टव्यम्, मार्जयितव्यम्, मिमार्जिषितव्यम्-मिमृक्षितव्यम्, मरीमृजितव्यम्
मार्जनीयम्, मार्जनीयम्, मिमार्जिषणीयम्-मिमृक्षणीयम्, मरीमृजनीयम्
23 मृज्यः- 24 मार्ग्यः, 25 अवश्यमार्ज्यः, मार्ज्यम्, मिमार्जिष्यम्-मिमृक्ष्यम्, मरीमृज्यम्
ईषन्मार्जः-दुर्मार्जः-सुमार्जः
-- -- -- मृज्यमानः, मार्ज्यमानः, मिमार्जिष्यमाणः-मिमृक्ष्यमाणः, मरीमृज्यमानः
26 मार्गः, 27 अपामार्गः, मार्जः, मिमार्जिषः-मिमृक्षः, मरीमर्जः
मार्जितुम्-मार्ष्टुम्, मार्जयितुम्, मिमार्जिषितुम्-मिमृक्षितुम्, मरीमृजितुम्
28 मृजा, 29 मृष्टिः, मार्जना, मिमार्जिषा-मिमृक्षा, मरीमृजा
परिमार्जनम्- 30 सम्मार्जनी, 31 सांमार्जनम्, मार्जनम्, मिमार्जिषणम्-मिमृक्षणम्, मरीमृजनम्
मार्जित्वा-मृष्ट्वा, मार्जयित्वा, मिमार्जिषित्वा-मिमृक्षित्वा, मरीमृजित्वा
विमृज्य-अपमृज्य, विमार्ज्य, विमिमार्जिष्य-विमिमृक्ष्य, विमरीमृज्य
मार्जम् २, मार्जित्वा २-मृष्ट्वा २, मार्जम् २, मार्जयित्वा २, मिमार्जिषम् २-मिमृक्षम् २, मिमार्जिषित्वा २-मिमृक्षित्वा २, मरीमृजम्
मरीमृजित्वा
32 मर्जूः, 33 मार्जारः, 34 मार्जालीयः।
35
प्रासङ्गिक्यः
01
=>
(१३०२)
02
=>
(२-अदादिः-१०६६। अक। वेट्। पर।)
03
=>
[[[अ]
04
=>
(३-३-१०४)
05
=>
(श्लो। ६१)
06
=>
(श्लो। ६०-६१)
07
=>
[[७। धातोरस्य ऊदित्त्वेन, ‘स्वरतिसूतिसूयतिधूञूदितो वा’ (७-२-४४) इतीड्विकल्पः। इट्पक्षे रूपमेवम्। इडभावपक्षे, झलादित्वेन सनः कित्त्वेन गुणनिषेधे, ‘व्रश्चभ्रस्जसृजमृज--’ (८-२-३६) इत्यादिना षत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे षत्वे रूपमेवम्। एवमेव सन्नन्ते सर्वत्र रूपद्वयस्योपपत्तिर्ज्ञेया।]]
08
=>
[पृष्ठम्१०४८+ २४]
09
=>
[[१। ‘न धातुलोप आर्धधातुके’ (१-१-४) इत्यत्रत्यभाष्यपरामर्शनात् यङन्ते सर्वत्र वृद्धिविकल्पः इति ज्ञायत इति बृहच्छब्देन्दुशेखरे (पु। १८७८) स्पष्टम्। ततश्चात्र सर्वत्र मरीमार्जकः-र्जिका, मरीमार्जिता-त्री
\n\n इत्यादीनि रूपाणि यथासम्भवं तत्तत्प्रत्ययेषु ज्ञेयानि। एवं ‘ममृंज्यते मर्मृज्यमानास इति चोपसंख्यानम्’ (वा। ७-४-९१) इत्युक्तत्वात् ण्वुलादिष्वप्यस्य रुकि रूपनिष्पत्तिर्भव- तीति मन्तव्यम्
\n\n यतोऽत्र निपातनस्थलेष्विव स्वरूपग्रहणात्, निर्दिष्टरूपस्यैव साधुत्वज्ञापनात्, यङ्लुकि विहितस्य रुको यङन्तेऽपि निर्दिष्टयोरुभयोर्विषयेऽप्युप- संख्यानार्थमेव वार्तिकावताराच्च इति स्पष्टं कैयटादौ।]]
10
=>
[[२। तृजादिष्वप्यूदित्त्वादिड्विकल्पः। इडभावपक्षे, इट्पक्षेऽपि लघूपधलक्षणं गुणं बाधित्वा, ‘मृजेर्वृद्धिः’ (७-२-११४) इति वृद्धिः। एवमेव तव्यदादिष्वपि ज्ञेयम्।]]
11
=>
[[३। शतरि, ‘अदिप्रभृतिभ्यः--’ (२-४-७२) इति शब्लुकि, ‘इहान्ये वैयाकरणाः मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते’ (भाष्यवाक्यम् १-१-३) इति वृद्धिविकल्पः। वृद्ध्यभावपक्षे, शतुरपित्सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न।]]
12
=>
[[४। स्यप्रत्यये इडभावपक्षे षत्वकत्वषत्वेषु रूपमेवम्।]]
13
=>
[[५। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। वृद्धिविकल्पः।]]
14
=>
[[६। यङन्ताच्छानचि, ‘मर्मृज्यते मर्मृज्यमानास उपसंख्यानम्’ (वा। ७-४-९१) इति वचनात् रीगपवादतया पाक्षिके रुकि, बहुवचने जसः, ‘आज्जसेरसुक्’ (७-१-५०) इत्यसुकि रूपमेवम्। “छन्दोऽधिकारः ‘आज्जसेरसुक्’ (७-१-५०) इति यावत्।” इति काशिकायाम् (७-१-३८) उक्तत्वात् वैदिकेष्वेवास्य प्रयोग इति ज्ञेयम्।]]
15
=>
[[७। कंसं परिमार्ष्टि इत्यर्थे, ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। पदान्तनि- मित्तके षत्वे जश्त्वे चर्त्वविकल्पे रूपमेवम्।]]
16
=>
[पृष्ठम्१०४९+ २७]
17
=>
[[१। ऊदित्त्वेनेड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। षत्वे ष्टुत्वे रूपमेवम्।]]
18
=>
[[२। तुन्दं परिमार्ष्टीत्यर्थे, ‘तुन्दशोकयोः परिमृजापनुदोः’ (३-२-५) इति कर्मण्युप- पदे अणोऽपवादतया कप्रत्ययः। कित्त्वेन गुणनिषेधः। ‘आलस्यसुखाहरणयोः--’ (वा। ३-२-५) इति वचनात् आलस्यविशिष्टे कर्तर्येवायं प्रत्यय इति ज्ञेयम्। तदभावपक्षे तुन्दपरिमार्जः इत्यत्र, ‘कर्मण्यण्’ (३-२-१) इति अण्प्रत्यये वृद्धौ रूपम्। अत्र कप्रत्ययस्य कित्त्वात्, ‘मृजेरजादौ सङ्क्रमे विभाषा वृद्धिम्--’ (भाष्यवाक्यम् १-१-३) इति वचनात् आलस्यरूपार्थे एव वृद्धिविकल्पमाशङ्क्य, ‘सा भवत्येव सत्यभिधाने’ इति उद्द्योते (३-१-५) समाहितम्। उत्तरत्र यद्यनभिधानमभिमतम्, तदानीम्, ‘इको गुणवृद्धी’ (१-१-३) इति सूत्रे भाष्य- स्वारस्यात् निरुक्तभाष्यवाक्ये ‘अजादौ’ इत्यस्य आतिदेशिकक्ङिदजादिप्रत्यये इत्यर्थपरकत्वमाश्रित्य, अत्र कप्रत्ययस्यौपदेशिककित्त्वेन वृद्धिनिषेध एवेति समाहितम्।]]
19
=>
[[आ। ‘इह युवतिवदनकान्तिभिराप्यायिततुन्दपरिमृजः शेते।’ अनर्घराघवे ७-११०।]]
20
=>
[[३। ताच्छीलिके, “-- ‘परिक्षिपच्परिमृजः ग्स्नुः’ इति ग्स्नुप्रत्ययः। परिमार्क्ष्णुः।” इति प्रक्रियाकौमुदी। भाष्यादिषु तु नैतादृशं वचनमुपलभ्यते।]]
21
=>
[[४। बाहुलकात्, नन्द्यादेः (३-१-१३४) आकृतिगणत्वाद्वा ण्यन्तात् कर्तरि ल्युप्रत्यये रूपमेवम्।]]
22
=>
[मार्जः]
23
=>
[[५। ‘मृजेर्विभाषा’ (३-१-११३) इति विभाषा क्यप्। पक्षे ण्यति निष्ठायामनिट्त्वात् ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे वृद्धौ मार्ग्यः इति रूपम्।]]
24
=>
[[B। ‘मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च तेन ते।।’ भ। का। ६-५७।]]
25
=>
[[६। आवश्यकार्थे ण्यति, ‘ण्य आवश्यके’ (७-३-६५) इति कुत्वनिषेधः।]]
26
=>
[पृष्ठम्१०५०+ २८]
27
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि, कुत्वे, ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६-३-१२२) इति ‘अप’ इत्युपसर्गान्त्याकारस्य दीर्घे रूपमेवम्। अपमृज्यतेऽनेन व्याध्यादिरिति अपामार्गः = ओषधिविशेषः।]]
28
=>
[[२। स्त्रियां भावादौ भिदादिपाठात् (३-३-१०४) अङि, औपदेशिकङित्त्वादस्य प्रत्ययस्य ‘मृजेरजादौ--’ (भाष्यवाक्यम् १-३-५) इत्यत्र नास्य ग्रहणमिति निर्णयात्, ‘क्ङिति च’ (१-१-५) इति वृद्धिनिषेधे रूपमेवम्। बाहुलकात् क्तिनि वृद्धौ माष्टिः इत्यपि रूपमिति ज्ञेयम्। मा। धा। वृत्तौ तु ‘मार्ष्टिरिति चुरादौ वक्ष्यते’ इत्युक्तम्। चुरादिषु तु कुत्रापि मार्ष्टिशब्दनिष्पत्तिः तेन क्रियते। मृष्टिरिति तु बाहुलकात् क्तिनि, क्तिचि वा निष्पद्यत इति ज्ञेयम्।]]
29
=>
[[आ। ‘पयोधरांश्चन्दनपङ्कदिग्धान् वासांसि चामृष्टमृजानि दृष्ट्वा।’ भ। का। ११। २७।]]
30
=>
[[३। सम्मार्जनी इति करणल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपम्। सम्मार्जनी = शोधनसाधनी।]]
31
=>
[[४। सम्पूर्वकादस्माद् भावे ‘अभिविधौ भाव इनुण्’ (३-३-४४) इतीनुणि, तदन्तात् ‘अण् इनुणः’ (५-४-१५) इति स्वार्थिके अण्प्रत्यये, ‘इनण्यनपत्ये’ (६-४-१६४) इति नान्तस्य प्रकृतिभावे रूपमेवम्। क्लीबत्वं लोकादत्रेति ज्ञेयम्। काशिकायाम् (६-४-१६४) उदाहृतमिदं पदम्।]]
32
=>
[[५। ‘मृजेर्गुणश्च’ (द। उ। १-१६५) इत्यूप्रत्यये, वचनादेव वृद्ध्यपवादे गुणे रूपम्। मर्जूः = शुद्धिः।]]
33
=>
[[६। ‘कञ्जिमृजिभ्यां चित्’ (द। उ। ८-६७) इत्यारन्प्रत्यये रूपसिद्धिः। मार्ष्टि भवन- मिति मार्जारः = बिडालः।]]
34
=>
[[७। ‘स्थाचतिमृजेः आलवालजालीयरः’ (द। उ। १०-१) इत्यनेन यथासंख्यमालीयर् प्रत्यये रूपमेवम्। मार्ष्टि अशुभं रक्षांसि चेति मार्जालीयः = अग्निः।]]
35
=>
[पृष्ठम्१०५१+ २९]