| YouTube Channel

मांसलः (mAMsalaH)

 
Wordnet
Sanskrit
Synonyms:
माषः, कुरुविन्दः., धान्यवीरः, वृषाकरः, मांसलः, पितृभोजनः
noun
सस्यविशेषः। यस्य कपोतवर्णीयाक्षयुक्तकृष्णफलानि कुट्टयित्वा आस्फुटीकृत्य चणकाः भक्ष्यन्ते।
"सः कृषकः माषस्य क्षुद्रवृक्षान् लाति।"
Synonyms:
माषः, कुरुविन्दः., धान्यवीरः, वृषाकरः, मांसलः, पितृभोजनः
noun
धान्य-विशेषः, माषस्य कपोतवर्णीयाक्षयुक्तकृष्णफलानि कुट्टयित्वा आस्फुटीकृत्य चणकाः भक्ष्यन्ते आयुर्वेदे अस्य गुणविशेषाः स्निग्धत्व-बहुमलकरत्व-शोषणत्व-श्लेष्मकारित्वादयः निर्दिष्टाः झटिति रक्त-पित्त-प्रकोपणत्वम्।
"श्रम-सुखवद्भिः नरैः माषाः नित्यं सेवनीयाः इति बहुभिः मन्यते"
शब्दकल्पद्रुमः
Sanskrit
मांसलः, त्रि, (अतिशयमांसमस्त्यस्येति मांस +“सिध्मादिभ्यश्च ।” ५७ इति लच् ।)बलवान् इत्यमरः ४४ स्थूलः ।यथा, गारुडे ६६ अध्याये ।“निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ।मांसलैश्च धनोपेतैरवक्रैरधरैर्नृपाः
”(मांसयुक्तः यथा, बृहत्संहितायाम् ।६८ २८ ।“हृदयं समुन्नतं पृथु वेपनं मांसलञ्चनृपतीनाम्
”अतिबहुलः यथा, नैषधे २७ ।“ह्रदस्य हंसावलिमांसलश्रियोबलाकयेव प्रबला विडम्बना
”)