| YouTube Channel

महामाषः (mahAmASaH)

 
शब्दकल्पद्रुमः
Sanskrit
महामाषः,
पुं,
(महांश्चासौ माषश्चेति ।) राज-माषः इति शब्दचन्द्रिका
(यथा, सुश्रुते सूत्र-स्थाने २१ अध्याये “माषमहामाषगोधूमतिल-पिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानू-पौदकमांसवसाविसमृणालकशेरुकशृङ्गाटक-मधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्माप्रकोपमापद्यते
तथास्य पर्य्यायो गुणाश्च ।“राजमाषो महामाषश्चपलश्चवनः स्मृतः ।श्वेतो रक्तस्तथाकृष्णस्त्रिविधः प्रकीर्त्तितः
यो महांस्तेषु भवति एवोक्तो गुणाधिकः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)