| YouTube Channel

महामांसं (mahAmAMsaM)

 
शब्दकल्पद्रुमः
Sanskrit
महामांसं,
क्ली,
(महद् गर्हितं मांसम् अत्रमांसशब्दस्य पूर्व्वप्रयुक्ततया महच्छब्दस्य गर्हि-तार्थत्वम् ।“शङ्खे तैले तथा मांसे वैद्ये ज्योतिषके द्बिजे ।यात्रायां पथि निद्रायां महच्छब्दो दीयते
”इति स्मरणात् ।)नरादिपिशितम् यथा, --“अष्टम्यां रुधिरैर्म्मांसैर्म्महामांसैः सुगन्धिभिः ।पूजयेद्बहुजातीयैर्व्वलिभिर्भोजनैः शिवाम्
”इति तिथ्यादितत्त्वधृतकालिकापुराणम्
अन्यच्च ।“गोनरेभाश्वमहिषवराहोष्ट्रोरगोद्भवम् ।महामांसाष्टकं देवि ! देवताप्रीतिकारकम्
”इति कौलार्च्चनदीपिका