महाभारतं (mahAbhArataM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritमहाभारतं, (महत् भारतम् । यद्वा, महान्तंभारं तनोतीति । महाभार + तन् + डः ।)व्यासप्रणीतेतिहासशास्त्रम् । तन्नामकारणंयथा, --“एकतश्चतुरो वेदा भारतञ्चैतदेकतः ।पुरा किल सुरैः सर्व्वैः समस्य तुलया धृतम् ॥
चतुर्भ्यः सरहस्येभ्यो वेदेभ्योऽभ्यधिकं यदा ।तदाप्रभृति लोर्कऽस्मिन् महाभारतमुच्यते ॥
महत्त्वाद्भारतत्वाच्च महाभारतमुच्यते ॥
”इति महाभारते आदिपर्व्व ॥
* ॥
लोकविशेषेषु तस्य श्लोकसंख्या वाचकाश्च यथा, “षष्टिं शतसहस्राणि चकारान्यां स संहिताम् ।त्रिंशच्छतसहस्रञ्च देवलोके प्रतिष्ठितम् ॥
पित्रे पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्द्दश ।एकं शतसहस्रन्तु मानुषेषु प्रतिष्ठितम् ॥
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।गन्धर्व्वयक्षरक्षांसि श्रावयामास वै शुकः ॥
अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान् ॥
”इति महाभारते १ पर्व्वणि अनुक्रमणिका-ध्यायः ॥
* ॥
तत्र शतपर्व्वाणि तेष्वष्टादश मुख्यानियथा, --“आदिसभाविपिनानि विराट-प्रोद्यमभीष्मगुरूणि च कर्णः ।शल्यकसौप्तिकपर्व्व तथा स्त्री-शान्त्यनुशास्तितुरङ्गममेधाः ॥
आश्रममौषलयानिकनाकाःपर्व्वणि पर्व्वणि नाम विशेषाः ॥
इति भारतटीका ॥
* ॥
हरिवंशसहितोनविंशतिपर्व्वणामन्तर्गतशत-पर्व्वविभागस्तेषामध्यायश्लोकसंख्या च यथा, --१ आदिपर्व्वणि १९ पर्व्वाणि २२७ अध्यायाः८९८४ श्लोकाः ॥
२ सभापर्व्वणि ९ पर्व्वाणि७८ अध्यायाः २५११ श्लोकाः ॥
३ आरण्यक-पर्व्वणि १६ पर्व्वाणि २६९ अध्यायाः ११६६४श्लोकाः ॥
४ विराटपर्व्वणि ४ पर्व्वाणि ६७अध्यायाः २०५० श्लोकाः ॥
५ उद्योगपर्व्वणि११ पर्व्वाणि १८६ अध्यायाः ६६२८ श्लोकाः ॥
६ भीष्मपर्व्वणि ५ पर्व्वाणि ११७ अध्यायाः५८८४ श्लोकाः ॥
७ द्रोणपर्व्वणि ८ पर्व्वाणि१७० अध्यायाः ९९०९ श्लोकाः ॥
८ कर्णपर्व्वणि१ पर्व्व ६९ अध्यायाः ४९६४ श्लोकाः ॥
९ शल्य-पर्व्वणि ४ पर्व्वाणि ५९ अध्यायाः ३२२०श्लोकाः ॥
१० सौप्तिकपर्व्वणि ३ पर्व्वाणि १८अध्यायाः ८७० श्लोकाः ॥
११ स्त्रीपर्व्वणि ५पर्व्वाणि २७ अध्यायाः ७७५ श्लोकाः ॥
१२शान्तिपर्व्वणि ४ पर्व्वाणि ३३९ अध्यायाः१४७३२ श्लोकाः ॥
१३ अनुशासनपर्व्वणि १ पर्व्व१४६ अध्यायाः ८००० श्लोकाः ॥
१४ अश्वमेध-पर्व्वणि २ पर्व्वणी १०३ अध्यायाः ३३२०श्लोकाः ॥
१५ आश्रमवासपर्व्वणि ३ पर्व्वाणि४२ अध्यायाः १५०६ श्लोकाः ॥
१६ मौषल-पर्व्वणि १ पर्व्व ८ अध्यायाः ३०० श्लोकाः ॥
१७महाप्रास्थानिकपर्व्वणि १ पर्व्व ३ अध्यायाः३२० श्लोकाः ॥
१८ स्वर्गपर्व्वणि १ पर्व्व ५अध्यायाः २०० श्लोकाः । १९ हरिवंशे आश्चर्य्य-पर्व्वणि १ पर्व्व २४४ अध्यायाः १२००० श्लोकाः ॥
हरिवंशे भविष्यपौष्करप्रादुर्भावे १ पर्व्व ११२अध्यायाः ३४४८ श्लोकाः ॥
इति महाभारतेआदिपर्व्वणि पर्व्वसंग्रहनामकः २ अध्यायः ॥
* ॥
तच्छ्रवणविध्यादि यथा, --जनमेजय उवाच ।“भगवन् ! केन विधिना श्रोतव्यं भारतं बुधैः ।फलं किं के च देवाश्च पूज्या वै पारणेष्विह ॥
देयं समाप्ते भगवन् ! किञ्च पर्व्वणि पर्व्वणि ।वाचकः कीदृशश्चात्र एष्टव्यस्तद् ब्रवीहिमे ॥
* ॥
वैशम्पायन उवाच ।शृणु राजन् ! विधिमिमं फलं यच्चापि भार-तात् ।श्रुताद्भवति राजेन्द्र ! यत्त्वं मामनुपृच्छसि ॥
दिवि देवा महीपाल ! क्रीडार्थमवनिं गताः ।कृत्वा कार्य्यमिदञ्चैव ततश्च दिवमागताः ॥
हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।ऋषीणां देवतानाञ्च सम्भवं वसुधातले ॥
अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।आदित्या अश्विनौ देवौ लोकपाला महर्षयः ॥
गुह्यकाश्च सगन्धर्व्वा नागा विद्याधरास्तथा ।सिद्धा धर्म्मः स्वयम्भुश्च मुनिः कात्यायनो वरः ॥
गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।ग्रहाः संवत्सरश्चैव अयनान्यृतवस्तथा ॥
स्थावरं जङ्गमञ्चैव जगत् सर्व्वं सुरासुरम् ।भारते भरतश्रेष्ठ ! एकस्थमिह दृश्यते ॥
तेषां श्रुत्वा प्रतिष्ठानं नामकर्म्मानुकीर्त्तनात् ।कृत्वापि पातकं घोरं सद्यो मुच्येत मानवः ॥
* ॥
इति हासमिमं श्रुत्वा यथावदनुपूर्व्वशः ।संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारत ! ॥
तेषां श्राद्धानि देयानि श्रुत्वा भारत ! भारतम् ।ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ ! ॥
महादानानि देयानि रत्नानि विविधानि च ।गावः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः ॥
सर्व्वकामगुणोपेता यानानि विविधानि च ।भवनानि विचित्राणि भूमिर्व्वासांसि काञ्चनम् ॥
वाहनानि च देयानि हया मत्ताश्च वारणाः ।शयनं शिविकाश्चैव स्यन्दनाश्च स्वलङ्कृताः ॥
यद्यद्गृहे वरं किञ्चित् यद्यदस्ति महद्बसु ।तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः ॥
श्रद्धया परया दत्तं क्रमशस्तस्य पारगः ।शक्तितः सुमना हृष्टः शुश्रूवुरविकल्पनः ॥
* ॥
सत्यार्ज्जवरतो दान्तः शुचिः शौचसमन्वितः ।श्रद्दधानो जितक्रोधो यथा सिध्यति तच्छृणु ॥
शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।संस्कृतः सर्व्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः ॥
रूपवान् शुभगो दान्तः सत्यवादी जितेन्द्रियः ।दानमानगृहीतश्च कार्य्यो भवति वाचकः ॥
अविलम्बमनायस्तमद्रुतं धीरमूर्ज्जितम् ।असंसक्ताक्षरपदं रसभावसमन्वितम् ॥
त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमन्वितम् ।वाचयेद्बाचकः स्वस्थः स्वासीनः सुसमाहितः ॥
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।देवीं स्वरस्वतीञ्चैव ततो जयमुदीरयेत् ॥
ईदृशाद्वाचकाद्राजन् ! शुत्वा भारत ! भारतम् ।नियमस्थः शुचिः श्रोता शृण्वन् स फलमश्नुते ॥
पारणं प्रथमं प्राप्य द्विजान् कामैश्च तर्पयन् ।अग्निष्टोमस्य यागस्य फलं वै लभते नरः ॥
अप्सरोगणसङ्कीर्णं विमानं लभते महत् ।प्रहृष्टः स तु देवैश्च दिवं याति समाहितः ॥
द्बितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।सर्व्वरत्नमयं दिव्यं विमानमधिरोहति ॥
दिव्यमाल्याम्बरधरो दिव्यगन्धविभूषितः ।दिव्याङ्गदधरो नित्यं देवलोके महीयते ॥
तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।वसत्यमरङ्काशो वर्षाण्ययुतशो दिवि ॥
चतुर्थे वाजपेयस्य पञ्चमे द्विगुणं फलम् ।उदितादित्यसङ्काशं ज्वलन्तमनलोपमम् ॥
विमानं विबुधैः सार्द्धमारुह्य दिवि गच्छति ।वर्षायुतानि भवने शक्रस्य दिवि मोदते ॥
षष्ठे द्बिगुणमस्तीह सप्तमे त्रिगुणं फलम् ।कैलासशिखराकारं वैदूर्य्यमयवेदिकम् ॥
परिक्षिप्तञ्च बहुधा मणिविद्रुमभूषितम् ।विमानं समधिष्ठाय कामगं साप्सरोगणम् ॥
सर्व्वान् लोकान् विचरते द्वितीय इव भास्करः ।अष्टमे राजसूयस्य पारणे लभते फलम् ॥
चन्द्रादयनिभं रम्यं विमानमधिरोहति ।चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः ॥
सेव्यमानो वरस्त्रीणां चन्द्रात् कान्ततरैर्म्मुखै ।मेखलानां निनादेन नूपुराणाञ्च निस्वनैः ॥
अङ्के परमनारीणां सुखसुप्तो विबुध्यते ।नवमे क्रतुराजस्य वाजिमेधस्य भारत ! ॥
काञ्चनस्तम्भनिर्यहं वैदूर्य्यकृतवेदिकम् ।जाम्बूनदमयैर्द्दिव्यैर्गवाक्षैः सर्व्वतो वृतम् ॥
सेवितं चाप्सरःसङ्घैर्गन्धर्व्वैर्द्दिवि चारिभिः ।विमानं समधिष्ठाय श्रिया परमया ज्वलन् ॥
दिव्यमाल्याम्बरधरो दिव्यचन्दनरूषितः ।मोदते दैवतैः सार्द्धं दिवि देव इवापरः ॥
दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च ।किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम् ॥
वसुदेविकसंकाशं वैदूर्य्यमणितोरणम् ।हेमजालपरिक्षिप्तं प्रबालबडभीमुखम् ॥
गन्धर्व्वैर्गीतकुशलैरप्सरोभिश्च शोभितम् ।विमानं सुकृतावासं सुखेनैवोपपद्यते ॥
मुकुटेनार्कवर्णेन जाम्बू नदविभूषिणा ।दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः ।दिव्यान् लोकान् विचरति दिव्यैर्भोगैः सम-न्वितः ।विबुधानां प्रसादेन श्रिया परमया युतः ॥
अथ वर्षगणानेवं स्वर्गलोके महीयते ॥
अथ गन्धर्व्वसहितः सहस्राण्येकविंशतिम् ।पुरन्दरपुरे रम्ये शक्रेण सह मोदते ॥
दिव्ययानविमानेषु लोकेषु विविधेषु च ।दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ॥
ततः सूर्य्यस्य भवने चन्द्रस्य भवने तथा ।शिवस्य भवने राजन् ! विष्णोर्याति सलोक-ताम् ॥
एवमेतन्महाराज ! नात्र कार्य्या विचारणा ।श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ॥
* ॥
लेखकस्थ तु दातव्यं मनसा यद्यदिच्छति ।हस्त्यश्वरथयानानि वाहनञ्च विशेषतः ॥
कटकं कुण्डलञ्चैव ब्रह्मसूत्रं तथापरम् ।वस्त्रञ्चैव विचित्रञ्च गन्धञ्चैव विशेषतः ।देववत् पूजयेत्तन्तु विष्णुलोकमवाप्नुयात् ॥
* ॥
अतः परं प्रवक्ष्यामि यानि देयानि भारते ।वाच्यमाने तु विप्रेभ्यो राजन् ! पर्व्वणि पर्व्वणि ॥
जातिं देशञ्च सत्त्वञ्च माहात्म्यं भरतर्षभ ! ।धर्म्मवृत्तिञ्च विज्ञाय क्षत्त्रियाणां नराधिप ! ॥
स्वस्तिवाच्य द्विजानादौ ततः कार्य्ये प्रवर्त्तते ।समाप्ते पर्व्वणि ततः स्वशक्त्या पूजयेत् द्बिजान् ॥
आदौ तु वाचकन्तत्र वस्त्रगन्धसमन्वितम् ।विधिवद्भोजयेद्राजन् ! मधु पायसमुत्तमम् ॥
ततो मूलफलप्रायं पायसं मधुसर्पिषा ।आस्तीके भोजयेद्राजन् ! दद्याच्चैव गुडौदनम् ॥
अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।सभापर्व्वणि राजेन्द्र ! हविष्यं भोजयेद् द्विजान् ॥
आरण्यके मूलफलैस्तर्पयेत्तु द्बिजोत्तमान् ।अरणीपर्व्व चासाद्य जलकुम्भान् प्रदापयेत् ॥
तर्पणानि च मुख्यानि रम्यमूलफलानि च ॥
सर्व्वकामगुणोपेतं विप्रेभ्योऽन्नं प्रदापयेत् ।विराटपर्व्वणि तथा वासांसि विविधानि च ॥
उद्योगे भरतश्रेष्ठ ! सर्व्वकामगुणान्वितम् ।भोजनं भोजयेद्विप्रान् गन्धमाल्यैरलङ्कृतान् ॥
भीष्मपर्व्वणि राजेन्द्र ! दत्त्वा यानमनुत्तमम् ।ततः सर्व्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ॥
द्रोणपर्व्वणि विप्रेभ्यो भोजनं परमार्च्चितम् ।शराश्च देया राजेन्द्र ! चापान्यसिवरास्तथा ॥
कर्णपर्व्वण्यपि तथा भोजनं सार्व्वकामिकम् ।विप्रेभ्यः संस्कृतं सम्यक् दद्यात् संयतमानसः ॥
शल्यपर्व्वणि राजेन्द्र ! मोदकैः सगुडौदनैः ।अपूपैस्तर्पणैश्चैव सर्व्वमन्नं प्रदापयेत् ॥
गदापर्व्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ॥
स्त्रीपर्व्वणि तथा रत्नैस्तर्पयेत्तु द्बिजोत्तमान् ।घृतौदनं पुरस्ताच्च ऐषीके दापयेत् पुनः ॥
ततः सर्व्वगुणोपेतमन्नं दद्यात् सुसंस्कृतम् ।शान्तिपर्व्वण्यपि तथा हविष्यं भोजयेद्द्बिजान् ॥
आश्वमेधिकमासाद्य भोजनं सार्व्वकामिकम् ।तथाश्रमनिवासे तु हविष्यम्भोजयेत् द्बिजान् ॥
मौषले सार्व्वगुणिकं गन्धमाल्यानुलेपनम् ।महाप्रास्थानिके तद्वत् सर्व्वकामगुणान्वितम् ॥
स्वर्गपर्व्वण्यपि तथा हविष्यं भोजयेद्द्विजान् ।हरिवंशे पर्व्वणि च पायसं तत्र भोजयेत् ॥
पारणे पारणे राजन् ! यथावद्भरतर्षभ ! ।समाप्य सर्व्वाः प्रयतः संहिताः शास्त्र-कोविदः ॥
* ॥
शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृताः ।शुक्लाम्बरधरः स्रग्वी शुचिर्भूत्वा स्वलङ्कृतः ॥
अर्च्चयेत यथान्यायं गन्धमाल्यैः पृथक् पृथक् ।संहितापुस्तकान् राजन् ! प्रयतः सुसमा-हितः ॥
भक्ष्यैर्म्माल्यैश्च पेयैश्च कामैश्च विविधैः शुभैः ।हिरण्यञ्च सुवर्णञ्च दक्षिणामथ दापयेत् ॥
देवताः कीर्त्तयेत् सर्व्वा नरनारायणौ तथा ।ततो गन्धैश्च माल्यैश्च स्वलंकृत्य द्बिजोत्तमान् ॥
तर्पयेद्विविधैः कामैर्दानैश्चोच्चावचैस्तथा ।अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
प्राप्नुयाच्च क्रतुफलं तथा पर्व्वणि पर्व्वणि ।वाचको भरतश्रेष्ठ ! व्यक्ताक्षरपदस्वरः ॥
भविष्यं श्रावयेद्बिद्वान् भारतं भरतर्षभ ! ।भुक्तवत्सु द्विजेन्द्रषु यथावत् संप्रदापयेत् ॥
वाचकं भरतश्रेष्ठ ! भोजयित्वा स्वलङ्कृतम् ।वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ॥
ब्राह्मणेषु तु तुष्टेषु प्रसन्नाः सर्व्वदेवताः । * ।ततो हि वरणं कार्य्यं द्विजानां भरतर्षभ ! ॥
सर्व्वकामैर्यथान्यायं साधुभिश्च पृथग्विधैः ।इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर ! ॥
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि ।भारतश्रवणाद्राज्ञा पारणे च नृपोत्तम ! ॥
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता । * ।भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् ।भारतं भवने यस्य तस्य हस्तगतो जयः ॥
भारतं परमं पुण्यं भारते विविधाः कथाः ।भारतं सेव्यते देवैर्भारतं परमं पदम् ॥
भारतं सर्व्वशास्त्राणामुत्तमं भरतर्षभ ! ।भारतात् प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि ते ॥
महाभारत्तमाख्यान क्षितिं गाञ्च सरस्वतीम् ।ब्राह्मणान् केशवञ्चैव कीर्त्तयन्नावसीदति ॥
वेदे रामायणे पुण्ये भारते भरतर्षभ ! ।आदौ चान्ते च मध्ये च हरिः सर्व्वत्र गीयते ॥
यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता ॥
एतत् पवित्रं परममेतद्धर्म्मनिदर्शनम् ।एतत् सर्व्वगुणोपेतं श्रोतव्यं भूतिमिच्छता ॥
”इति महाभारते हरिवंशे सर्व्वपर्व्वानुकीर्त्त-नम् ॥
* ॥
त्रिषष्ठिवर्णसंयुक्तमित्यत्र त्रिषष्टि-वर्णाः । अ इ उ ऋ ऌ इति ह्रस्वपञ्चकम् ।आ ई ऊ ॠ ॡ इति दीर्घपञ्चकम् । आ ईऊ ऋ ॡ इति प्लुतपञ्चकम् । ए ओ ऐ औ चदीर्घाः । प्लुतत्वेनापरचतुष्टयम् । अं अः क +पँ इति चत्वारः । ॠ ॡ इति अच्संज्ञकौद्बौ । अनुनासिकश्चैकः । तथा कादिमावसानाःपञ्चविंशतिवर्णाः । अन्तःस्थाश्चत्वारः । उष्म-चतुष्टयमिति त्रिषष्टिः । इति ॥
* ॥
वर्णानांकिलाष्टौ स्थानानि भवन्ति तानि यथा, --“उरः कण्ठः शिरस्तालु जिह्वादन्तौष्ठ-नासिकाः ।अष्टौ स्थानानि वर्णानां ये विदुस्ते हिपाठकाः ॥
” * ॥
पारणं यथा, --“भारतं शतपर्व्वोक्तं मुनिना तत्त्वदर्शिना ।पर्व्वभिर्द्दशभिश्चैषां पर्व्वणां पारणं स्मृतम् ॥
”इति विक्रमादित्यः ॥
“द्यूतान्तं प्रथमं प्रोक्तं द्बितीयं वनवासिकम् ।उद्योगान्तं तृतीयन्तु भीष्मान्तञ्च तुरीयकम् ॥
पञ्चमं द्रोणपर्व्वान्तं कर्णान्तं पारणं ततः ।विशोकान्तं सप्तमन्तु शान्तिपर्व्वान्तमष्टमम् ॥
नवमं स्वर्गपर्व्वान्तमाश्चर्य्यान्तमतः परम् ॥
”इति च भारतटीकायां अर्ज्जुनमिश्रः ॥
(अन्यत्सर्व्वं भारतशब्दे द्रष्टव्यम् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
