| YouTube Channel

महापातकं (mahApAtakaM)

 
शब्दकल्पद्रुमः
Sanskrit
महापातकं,
क्ली,
(महदतिशयितं पातकम् ।)पापविशेषः तत्तु पञ्चविधम् यथा, --“ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।महान्ति पातकान्याहुः संसर्गश्चापि तैः सह
”इति मानवे ११ अध्यायः
“महापातकजं चिह्नं सप्तजन्मसु जायते ।वाधते व्याधिरूपेण तस्य कृच्छ्रादिभिः समः
”इति शातातपीयकर्म्मविपाकः
“तुलामकरमेषेषु प्रातःस्नानं विधीयते ।हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम्
”इति मलमासतत्त्वम्
“कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते ।भस्मीभवन्ति राजेन्द्र ! महापातककोटयः
”इति पुराणम्