| YouTube Channel

महानन्दि (mahAnandi)

 
Monier Williams Cologne
English
महा—नन्दि or महा—नन्°दिन्,
m.
N.
of a king,
Pur.
शब्दकल्पद्रुमः
Sanskrit
महानन्दिः,
पुं,
(आ सम्यक् नन्दतीति +नन्द + “सर्व्वधातुभ्य इन् ।” उणा० ११७ ।इति इन् ततः महानानन्दिरिति ।)नन्दिवर्द्धनराजपुत्त्रः यथा, --“चत्वारिंशत्तथा भाव्यो राजा वै नन्दिवर्द्धनः ।चत्वारिंशत्त्रयश्चैव महानन्दिर्भविष्यति
महानन्दिसुतश्चापि शूद्रायां कलिकांशजः ।उत्पत्स्यते महापद्मः सर्व्वक्षत्त्रान्तको नृपः
ततः प्रभृति राजानो भविष्याः शूद्रयोनयः ।एकराट् महापद्म एकच्छत्रो भविष्यति
”इति मत्स्यपुराणे २४६ अध्यायः
अपि ।“महानन्दिसुतः शूद्रागर्भोद्भवोऽतिलुब्धो महा-पद्मानन्दः परशुराम इवापरोऽखिलक्षत्त्रि-यान्तकारी भविता ततः प्रभृति शूद्रा भूपालाभविष्यन्ति तेन महानन्दिपर्य्यन्तं क्षत्त्रियआसीत् ।” इति शुद्धितत्त्वधृतविष्णुपुराणम्
वाचस्पत्यम्
Sanskrit
महानन्दि
पु०
कलौ क्षत्रान्तकरस्य महापद्मनृपभेदस्यपितरि