| YouTube Channel

महाद्रावक (mahAdrAvaka)

 
Monier Williams Cologne
English
महा—द्रावक
m.
a kind of drug,
L.
शब्दकल्पद्रुमः
Sanskrit
महाद्रावकः,
पुं,
(द्रावयति रोगानिति द्रु + णिच्+ ण्वुल् महांश्चासौ द्रावकश्चेति ।) औषध-विशेषः द्रावक इति भाषा यथा, --“यवक्षारस्य भागौ द्वौ स्फटिकारेस्त्रयो मताः ।एकीकृत्य प्रपिष्यापि मूत्रैर्व्वत्सतरीभवैः
शुष्कं कृत्वा क्षिपेत् पात्रे सैसके वस्त्रलेपिते ।अन्यसीसकपात्रन्तु द्विमुखं मेलयेद्बुधः
वृद्धवैद्योपदेशेन पचेत् पात्रस्थमौषधम् ।ततो ज्वालाधतः स्थाप्यं पात्रान्यं लभतेरसम्
ततो रसं विनिष्कृष्य स्थापयेत् स्निग्धभाजने ।लवङ्गेन वटीं कुर्य्यादथवा मृतताम्रकैः
प्लीहादिस्थूलरोगेषु दापयेत् रक्तिकां भिषक् ।द्रवीकरोति रोगञ्च महाद्रावकसंज्ञकः
श्वित्रे दद्रुरोगे प्रलेपं द्रावकस्य ।वह्निवज्ज्वलनं तस्य दधि दत्त्वा प्रलेपयेत्
*
अपि ।“वृषश्चित्रमपामार्गं चिञ्चा कुष्माण्डनाडिका ।स्नुही तालस्य पुष्पञ्च वर्षाभूर्व्वेतसं तथा
एतेषां क्षारमाहृत्य लिम्पाकस्वरसेन ।क्षालयित्वा क्षारतोयं वस्त्रपूतञ्च कारयेत्
चण्डातपेन संशोष्य ग्राह्यं तद्द्रवंणोचितम् ।एतस्य द्विपलं ग्राह्यं यवक्षारपलद्वयम्
स्फटिकारिपलञ्चैव नरसारपलं तथा ।पलार्द्धं सैन्धवं ग्राह्यं टङ्कणं तोलकद्वयम्
कासीसं तोलकञ्चैव मुद्राशङ्खञ्च तोलकम् ।दारुमोचं कर्षकञ्च तोलं समुद्रफेनकम्
सर्व्वमेकत्र संचूर्ण्य वकयन्त्रेण साधयेत् ।महाद्रावकमेतद्धि योज्यञ्च रसजारणे ।हन्ति गुल्मादिकान् रोगान् यकृत्प्लीहोद-राणि
*
इति भैषज्यरत्नावली
(तथापरञ्च ।“शुद्धं काञ्चनमाक्षिकं मृदुतरं कांस्याभिधेय-न्तथासिन्धूत्थं विमलं रसाञ्जनवरं फेनं स्रवन्तीपतेः ।क्षारौ सर्ज्जिकसम्भवौ सुविमलौ भागास्त्व-मीषां समाःसप्तानां सदृशन्तु टङ्गणमिह त्वर्द्धो नृसारःस्मृतः
तत्तुल्या स्फटिकारिका त्रिसदृशः शुद्धो यव-स्याग्रजःकाशीशद्वितयं यवाग्रजसमं सञ्चूर्ण्य सर्व्वंन्यसेत् ।पात्रे काचमये मृदम्बरवृते सोऽयं महाद्रावकोनो वक्तुं प्रभवेदमुष्य नितरां सम्यग्गुणं भूतले
एतद्वल्लचतुष्टयं पिबेदथो शुण्ठ्या लवङ्गेन वातत्पश्चात् परिवासितं बहुगुणं ताम्बूलकंभक्षयेत् ।प्रासङ्ग्य्यात् कथयामि ते शृणु गुणान् कांश्चि-त्तथान्यान् परान्निःशेषं विनिहन्ति तानि चिरजान्यष्टौदराणिध्रुवम्
गुल्मं पाण्डुहलीमकं सुकठिनामष्ठीलिकांकामलांमन्दाग्निं विषमाग्नितां बहुविधान् शोथांश्चशूलान्यपि
*
इति वैद्यककषायसंग्रहे प्लीहाधिकारे
)