| YouTube Channel

महादान (mahAdAna)

 
Monier Williams Cologne
English
महा—दान
n.
‘great gift’,
N.
of certain valuable gifts (16 are enumerated),
Pañcar.
Cat.
महा—दान
mfn.
accompanied by val° gifts (said of a sacrifice),
Hariv.
Shabdartha Kaustubha
Kannada
महादान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶ್ರೇಷ್ಠವಾದ ದಾನ
व्युत्पत्तिः - > महत् तत् दानं
विस्तारः - > ಮಹಾದಾನವು ಹಿರಣ್ಯಗರ್ಭದಾನ, ಬ್ರಹ್ಮಾಂಡ ದಾನ, ಕಲ್ಪವೃಕ್ಷದಾನ, ಗೋಸಹಸ್ರದಾನ, ಸುವರ್ಣದ ಕಾಮಧೇನುದಾನ, ಸುವರ್ಣದ ಅಶ್ವದಾನ, ಭೂದಾನ, ಸುವರ್ಣಗಜದಾನ ಮುಂತಾಗಿ ಹದಿನಾರು ವಿಧ.
Indian Epigraphical Glossary
English
mahādāna (EI 7, 16
CII 4)
a great gift, 16 of which are
enumerated in the Purāṇas (see Hist. Dharm., Vol. II, pp.
869-70
Suc. Sāt. L. Dec., pp. 50f.).
अभिधानरत्नमाला
Sanskrit
प्रवारण
प्रवारण, महादान
प्रवारणं महादानं सङ्कल्पः कर्म मानसम् ७७३
verse 4.1.1.773
page 0088
पुराणम्
English
महादान / MAHĀDĀNA. There are sixteen Mahādānas or “Great gifts”. They are: (1) tulāpuruṣadāna, (2) hiraṇyagarbha dāna, (3) brahmāṇḍa dāna, (4) Kalpakavṛkṣadāna, (5) Gosahasradāna, (6) Hiraṇyakāmadhenudāna, (7) Hiraṇyāśva dāna, (8) Hiraṇyāśvaratha dāna, (9) Hemahastiratha dāna, (10) Pañcalāṅgalakadāna (11) Dhārādāna, (12) Viśvacakradāna (13) Kalpalatā dāna, (14) Saptasāgaraka dāna, (15) Ratnadhenu dāna, (16) Mahāpūtaghaṭa dāna. (agni purāṇa, Chapter 210).
शब्दकल्पद्रुमः
Sanskrit
महादानं,
क्ली,
(महच्च तद्दानञ्चेति ।) श्रेष्ठ-दानम् तत्तु तुलापुरुषादिषोडशप्रकारम् ।यथा, मत्स्यपुराणे ।“अथातः संप्रवक्ष्यामि महादानस्य लक्षणम्
”इत्यभिधाय ।“आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् ।हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम्
कल्पपादपदानञ्च गोसहस्रन्तु पञ्चमम् ।हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव
पञ्चलाङ्गलकं तद्वद्धरादानन्तथैव ।हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस्तथा
द्बादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् ।सप्तसागरदानञ्च रत्नधेनुस्तथैव ।महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः
*
अत्र सामान्यलक्षणम् सूक्तजपाङ्गकदानंमहादानम् विनायकादिपञ्चाशद्देषताहोमा-ङ्गकं वा तथा मत्स्यपुराणम् ।“विनायकादिग्रहलोकपाल-वस्वष्टकादित्यमरुद्गणानाम् ।ब्रह्माच्युतेशानबृहस्पतीनांस्वमन्त्रतो होमचतुष्टयं स्यात्
जप्यानि सूक्तानि तथैव चैषा-मनुक्रमेणापि यथास्वरूपम्
”इत्यादिना सूक्तजपहोमरूपाङ्गयोर्व्विधानंप्रत्येकं षोडशतुलापुरुषप्रधानान्युद्दिश्योक्तं नतुमहादानत्वेनोद्दिश्येति अतो नेतरेतरा-श्रयः तु कुण्डमण्डपेतिकर्त्तव्यतायोगित्वंजिकनीयलक्षणम् अचलदानेऽपि गतत्वात् ।एवञ्च ।“कनकाश्वतिला गावो दासी रथमहीगृहाः ।कन्या कपिला धेनुर्म्महादानानि वै दश
”इति कूर्म्मपुराणोक्तदानपदं गौणम्
अन्यथा बहुशक्तिकल्पनापत्तेः कनकदानादि-साधारणानुगतैकरूपाभावाच्च अतो वैप-रीत्यमिति ।“सर्व्वेषामेव दानानामेकजन्मानुगं फलम्
”इति मलमासतत्त्वम्
वाचस्पत्यम्
Sanskrit
महादान
न०
कर्म० विनायकादिसूक्तजपाङ्गके तुला-पुरुषादिषोडशदाने “अथातः संप्रवक्ष्यामि महादानस्यलक्षणम्” इत्युपक्रम्य “आद्यन्तु सर्वदानानां तुला-पुरुषसंज्ञकम्” इत्यादिना षोडशदानान्यभिधाय “विना-यकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम् ब्रह्मा-च्युतेशार्कवनस्पतीनां स्वमन्त्रतोहोमचतुष्टयं स्यात् ।जप्यानि सूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूप-मित्युक्तं मात्स्ये विस्तरस्तु मत्कृततुलादानादि-पद्धतौ ज्ञेयः