| YouTube Channel

मरीचं (marIcaM)

 
शब्दकल्पद्रुमः
Sanskrit
मरीचं,
क्ली,
(मृ + बाहुलकात् ईचः ।) स्वनाम-ख्यातकटुद्रव्यविशेषः तत्पर्य्यायः वेल्लजम् २कोलकम् कृष्णम् ऊषणम् धर्म्मपत्तनम् ।इत्यमरः ३६
मरिचम् श्यामम् ८वरिष्ठम् इति जटाधरः
आर्द्रस्य तस्यगुणाः पाके स्वादुत्वम् गुरुत्वम् श्लेष्म-प्रसेकित्वञ्च शुष्कस्य तस्य गुणाः रुच्यत्वम् ।अग्निदत्वम् रूक्षत्वम् कटुत्वम् उष्णत्वम् ।लघुत्वम् शुक्रनाशित्वञ्च इति राजवल्लभः
अन्यत् मरिचशब्दे द्रष्टत्वम्