| YouTube Channel

मरिचं (maricaM)

 
शब्दकल्पद्रुमः
Sanskrit
मरिचं,
क्ली,
(म्रियते नश्यति श्लेष्मादिकमनेनेति मृ+ बाहुलकात् इचः ।) कक्कोलकम् स्वनामख्यात-वर्त्तुलाकारकटुद्रव्यविशेषः तत्पर्य्यायः पवि-तम् श्यामम् कोलम् वल्लीजम् ऊष-णम् यवनेष्टम् वृत्तफलम् शाकाङ्गम् ९धर्म्मपत्तनम् १० कटुकम् ११ शिरोवृत्तम् १२वीरम् १३ कफविरोधि १४ मृषम् १५ सर्व्व-हितम् १६ कृष्णम् १७ वेल्लजम् १८ (यथा, सुश्रुते सूत्रस्थाने ३८ अध्याये ।“पिप्पलीमरिचशृङ्गवेराणि त्रिकटुकम्
”)अस्य गुणाः कटुत्वम् तिक्तत्वम् उष्णत्वम् ।लघुत्वम् श्लेष्मविनाशनत्वम् समीरकृमि-हृद्रोगहरत्वम् रुचिकारकत्वञ्च इतिराजनिर्घण्टः
अपि ।“मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम् ।मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित्
उष्णं पित्तहरं रूक्षं श्वासशूलकृमीन् हरेत् ।तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु
किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम्
”इति भावप्रकाशः
(अपि ।“स्वादुपाक्यार्द्रमरिचं गुरुश्लेष्मप्रसेकि ।कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित्
नात्युष्णं नातिशीतञ्च वीर्य्यतो मरिचं सितम् ।गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः
”इति सुश्रुते सूत्रस्थाने ४६ अध्यायः
)