| YouTube Channel

मरणं (maraNaM)

 
Apte 1890
English
मरणं [मृ-भावे ल्युट्] 1 Dying, death
मरणं प्रकृतिः शरीरिणां R. 8. 87
or संभावितस्य चाकीर्तिर्मरणादतिरिच्यते Bg. 2. 34.
2 A kind of poison.
Comp.
अंत,
अंतक a. ending in death.
अभिमुख,
उन्मुख a. on the point of death, near death, moribund.
आत्मक a. causing death, fatal.
धर्मन् a. mortal.
निश्चय a. determined to die
Pt. 1.
शील a. mortal.
Hindi
Hindi
मौत
शब्दकल्पद्रुमः
Sanskrit
मरणं,
क्ली,
(म्रियतेऽनेनेति मृ + करणे ल्युट् ।)वत्सनाभः इति राजनिर्घण्टः
(भावे ल्युट् ।)विजातीयात्ममनःसंयोगध्वंसः इति न्याय-मतम्
तत्पर्य्यायः पञ्चता कालधर्म्मः ३दृष्टान्तः प्रलयः अत्ययः अन्तः ७नाशः मृत्युः निधनम् १० इत्यमरः ।२ ११६
भूमिलाभः ११ निपातः १२आत्ययिकम् १३ मृतिः १४ इति शब्दरत्ना-वली
कीर्त्तिशेषः १५ महानिद्रा १६ महा-पथगमः १७ संस्थानम् १८ इति जटाधरः
मरणदुःखान्याह ।“मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ।श्लथग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना नरः
मुहुर्ग्लानिः परवशो मुहुर्ज्ञानबलान्वितः ।हिरण्यधान्यतनयभार्य्याभृत्यगृहादिषु ।एते कथं भविष्यन्तीत्यतीवममताकुलः
मर्म्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः ।शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः
विवर्त्तमानताराक्षिहस्तपादं मुहुः क्षिपन् ।संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते
निरुद्धकण्ठो दोषौघौरुदानश्वासपीडितः ।तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा
क्लेशादुत्क्रान्तिमाप्नोति याम्यकिङ्करपीडितः ।ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ।एतान्यन्यानि चोग्राणि दुःखानि मरणेनृणाम्
”इति विष्णुपुराणे अंशे अध्यायः
*
सुहृन्मरणश्रावणनिषेधो यथा, --“अग्नौ निक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ।सुहृन्मरणमार्त्तिं वा स्वयं श्रावयेत् परान्
”इति कौर्म्मे उपविभागे १५ अध्यायः
*
अथ धार्म्मिकमरणलक्षणम् ।सोमशर्म्मोवाच ।“धर्म्यो हि कीदृशो मृत्युर्जन्म चैव वदस्व मे ।उभयोर्लक्षणं कान्ते ! त्वमेवं हि वदस्व मे
सुमनोवाच ।सत्यं शौचं क्षमा शान्तिस्तीर्थं पुण्यादिकं तथा ।धर्म्मञ्च पालितं येन तस्य मृत्युं वदाम्यहम्
रोगो जायते तस्य पीडा कलेवरे ।न श्रमो वै नच ग्लानिर्न स्वेदो भ्रमस्तथा
दिव्यरूपधरा भूत्वा गन्धर्व्वा ब्राह्मणास्तथा ।वेदपाठसमायुक्ता गतिज्ञानविशारदाः
तस्य पार्श्वं समायान्ति स्तुतिं कुर्व्वन्ति चातु-लाम् ।सुस्थो हि आसने युक्तो देवपूजारतः किल
तीर्थञ्च लभते प्राज्ञः स्नानार्थं धर्म्मतत्परः ।अग्न्यगारे गोष्ठे देवतायतनेषु
आरामे तडागे यत्राश्वत्थो वटस्तथा ।ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षन्तु तथा पुनः
अश्वस्थानं समाश्रित्य गजस्थानं ततो नरः ।अशोकं चूतवृक्षञ्च समाश्रित्य यदा स्थितः
सन्निधिं ब्राह्मणानाञ्च राजवेश्मगतोऽपि वा ।रणभूमिं समाश्रित्य पुरा यत्र मृता भटाः
मृत्युस्थानानि पुण्यानि केवलं धर्म्मकारणम् ।गोग्रहन्तु समं प्राप्य तथा समरशङ्कटम्
शद्धधर्म्मकरो नित्यं धर्म्मतो धर्म्मवत्सलः ।एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः
मातरं पश्यते पुण्यं पितरञ्च नरोत्तमम् ।भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम्
वन्दिजनं तथा पुण्यं स्तूयमानं पुनः पुनः ।पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः
गीतं गायन्ति गन्धर्व्वाः स्तुवन्ति स्तावकाः स्तवैः ।मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत्
पिता स्वजनवर्गश्च धर्म्मात्मानं महामतिम् ।एवंभूताः समाख्याताः पुण्यस्थानानि तेविभो ! ।प्रत्यक्षान् पश्यते भूतान् हास्यस्नेहसमाविलान्
स्वप्नेन मोहेन क्लेशरक्तेन वै वत
धर्म्मराजो महाप्राज्ञो दूरात्तन्तु समाह्वयेत् ।एह्येहि त्वं महाभाग ! यत्र धर्म्मः तिष्ठति
तस्य मोहो भ्रान्तिर्न ग्लानिर्न चविक्रिया ।जायते नात्र सन्देहः प्रसन्नात्मा प्रतिष्ठते
ज्ञानविज्ञानसम्पन्नः स्मरन्नेवं जनार्द्दनम् ।तैश्च रार्द्बं प्रयात्येवं सन्तुष्टो हृष्टमानसः
दशमद्वारमाश्रित्य आत्मा तस्य हि गच्छति ।शिविका तस्य चायाति सुयानं सुमनोहरम्
विमानैरेव यात्येष वायोर्वेगेन चोत्तमः
छत्रेण ध्रियमाणेन चामरव्यजनैस्तथा ।वीज्यमानः धर्म्मात्मा पुण्यैरेव समन्ततः
गीयमानस्तु धर्म्मात्मा स्तूयमानस्तु पण्डितैः ।वन्दिभिश्चामरैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः
साधुभिः स्तूयमानस्तु सर्व्वसौख्यसमन्वितः ।यथादानप्रभावेण फलमाप्नोति तत्र सः
आरामवाटिकामध्ये प्रयाति सुखेन वै ।अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलैर्युतः
देवैस्तु स्तूयमानस्तु धर्म्मराजं प्रपश्यति ।देवाश्च धर्म्मसंयुक्ता जग्मुः सांमुख्यमेव ते
एह्येहि त्वं महाभाग ! भुङ्क्ष्व भोगान्मनो-रमान् ।एवं संपश्यते धर्म्मं सौम्यरूपं महामतिः
अस्य पुण्यस्य भावेन भुङ्क्ते स्वर्गमनुत्तमम् ।भोगक्षयात् धर्म्मात्मा पुनर्जन्म प्रयाति
निजघर्म्मप्रसादात् कुलं पुण्यं प्रयाति ।ब्राह्मणस्य सुपुण्यस्य क्षत्त्रियस्य तथैव
धनाढ्यस्य सुपुण्यस्य वैश्यस्य महामते ! ।धर्म्मेण मोदते भद्रं पुनः पुण्यं करोति सः
”इति श्रीपद्मपुराणे भूमिखण्डे सुमनोपाख्याने१५ अध्यायः
*
अथ पापिनां मरणलक्षणम् ।सोमशर्म्मोवाच ।“पापिनां मरणं भद्रे ! कीदृशैर्लक्षणैर्युतम् ।तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भाविनि !
सुमनोवाच ।श्रूयतामभिधास्यामि तस्मात् सिद्धात् श्रुतं मया ।पापिनां मरणं कान्त ! यादृशं लिङ्गमेव
महापातकिनाञ्चैव स्थानमेषां वदाम्यहम् ।लिप्ताममेध्यसंक्लेदैर्भूमिं पापसमन्विताम्
तां प्राप्य सुदुष्टात्मा प्राणान् दुःखेन मुञ्चति ।चाण्डालभूमिं संप्राप्य मरणं याति दुःखितः
गर्द्दभाचरितां भूमिं वेश्यागारं समाश्रितः
मद्यपानगृहं गत्वा नैधन्यमुपगच्छति ।अस्थिचर्म्मनखैः पूर्णामाश्रितां पापकिल्विषैः
तामवाप्य दुष्टात्मा मृत्युं प्राप्नोति निश्चितम् ।अन्यां पापसमाचारां प्राप्य मृत्युं गच्छति
अथ चेष्टां प्रवक्ष्यामि दूतानां प्रिय ! निश्चि-ताम्
भैरवान् दारुणान् घोरानतिकृष्णान्महोदरान् ।पिङ्गाक्षान् पीतनीलांश्च अतिश्वेतान्महो-दरान्
अत्युच्चांश्च करालांश्च शुष्कमांसत्वचोपमान् ।रौद्रदंष्ट्राकरालांश्च सिंहास्यान् सर्पहस्तकान्
तान् दृष्ट्वा प्रकम्पेत स्विद्येत मुहुर्मुहुः ।शिवासंवादवद्घोरान्महारावान्महामते !
मुञ्चन्ति दूतकाः सर्व्वे कर्णमूले तु तस्य हि ।गले पाशप्रबद्धास्ते कण्ठे बद्धास्तथोदरे
समाकृष्य नयन्त्येते हाहेति रुदतो मुहुः ।म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम्
परद्रव्यापहरणं परभार्य्याविडम्बनम् ।ऋणं परस्य सर्व्वस्वं गृहीतं यैस्तु पापिभिः
पुनर्नैव प्रदत्तं हि लोभास्वादविमोहितैः ।अन्यदेव महापापं कुप्रतिग्रहमेव
कण्ठमायान्ति ते सर्व्वे म्रियमाणस्य तस्य ।यानि कानि पापानि पूर्व्वमेव कृतानि
आयान्ति कण्ठमूलं हि महापापस्य नान्यथा ।दुःखमुत्पादयन्त्येते कफबन्धेन दारुणम्
पीडाभिर्दारुणाभिश्च कण्ठो घुरघुरायते ।रोदते कम्पतेऽत्यर्थं मातरं पितरं पुनः ।स्मरति भ्रातरं तत्र भार्य्यां पुत्त्रं पुनः पुनः
पुनर्विस्मरणं याति महापापेन मोहितः ।तस्य प्राणा गच्छन्ति बहुपीडासमाकुलाः
पतते कम्पते चैव मूर्च्छते पुनः पुनः ।एवं पीडासमायुक्तो दुःखं भुङ्क्तेऽतिमोहितः
तस्य प्राणा सुदुःखेन महाकष्टैः प्रचालितः ।अपानं मार्गमाश्रित्य शृणु कान्त ! प्रयान्ति ते
एवंप्राया दुरात्मानो लोभमोहसमन्विताः ।नीयन्ते महाभूतैस्तेषां दुःखं वदाम्यहम्
”इति पाद्मे भूमिखण्डे सुमनोपाख्याने पापिमरणंनाम १६ अध्यायः
*
पापिनां यमालयगमननानायोनिप्राप्तिविवरणंयथा, --सुमनोवाच ।“अङ्गारसञ्चये मार्गे कृष्यमाणो हि नीयते ।दह्यमानः दुष्टात्मा चेष्टमानः पुनः पुनः
यत्रातपो महातीव्रो द्वादशादित्यतापितः ।नीयते तेन मार्गेण सन्तप्तः सूर्य्यरश्मिभिः
पर्व्वतेष्विव दुर्गेषु छायाहीनेषु दुर्म्मतिः ।नीयते तेन मार्गेण क्षुधातृष्णादिपीडितः
दूतैर्हन्यमानस्तु पदा दण्डैः परश्वधैः ।कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः
ततः शीतमये मार्गे वायुना सेव्यते पुनः ।तेन शीतेन दुःखी भूत्वा याति संशयः
आकृष्यमाणो दूतैस्तु नानादुःखेन नीयते ।एवं पापी दुष्टात्मा देवब्राह्मणनिन्दकः
सर्व्वपापसमायुक्तो नीयते यमकिङ्करैः ।यमं पश्यति दुष्टात्मा कृष्णाञ्जनचयोपमम् ।तमुग्रं दारुणं भीमं यमदूतैः समावृतम् ।सर्व्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम्
आरूढमहिषं देवं धर्म्मराजं द्बिजोत्तम ! ।दंष्ट्राकरालमत्युग्रं लम्बास्यं कालसन्निभम्
पीतवासं महाहस्तं रक्तगन्धानुलेपनम् ।रक्तमालाकृताभूषं गदाहस्तं भयङ्करम्
एवंव्रिधं महाकायं यमं पश्यति दुर्म्मतिः ।तं दृष्ट्वा समनुप्राप्तं सर्व्वधर्म्मबहिष्कृतम्
यमः पश्यति तं दुष्टं पापिष्ठं धर्म्मकण्टकम् ।शातयेत्तु महादुःखैः पीडाभिर्दारुमुद्गरैः
यावद्युगसहस्रान्तं तावत् कालं प्रपच्यते ।नानानरकदेशेषु पच्यते पुनः पुनः
नरकञ्च प्रयात्येवं कृमिकीटेषु पापकृत् ।अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः
मरणञ्चैव पापात्मा एवं याति सुनिश्चितम् ।एवं पापस्य सम्भोगं भुङ्क्ते चैव सुदुर्म्मतिः
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु जातिषु ।श्वयोनिं समनुप्राप्य भुञ्जते पातकं पुनः
व्याघ्रो भवति दुष्टात्मा रासभं याति वै पुनः ।मार्ज्जारशौकरीं योनिं सर्पयोनिन्तथैव
नानाभेदासु सर्व्वासु तिर्य्यक्सु पुनः पुनः ।पापपक्षिषु संयाति अन्यासु गर्हितासु ।चाण्डालभिल्लजातिञ्च पुलिन्दीं याति पाप-कृत्
एतत्ते सर्व्वमाख्यातं पापिनां जन्म चव हि ।पापपुण्यसमाचारस्त्वदग्रे कथितो मया
”इति पाद्मे भूमिखण्डे सुमनोपाख्याने पाप-पुण्यविवेको नाम १७ अध्यायः
*
शालग्रामशिलास्पर्शे मरणफलम् यथा, --राजान ऊचुः ।“युवां नारायणस्यास्य कल्केः श्वशुरतां गतौ ।वयं नृपा इमे लोका ऋषयो ब्राह्मणाश्च ये
प्रेक्ष्य भक्तिवितानं वां हरौ विस्मितमानसाः ।पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः
कस्य वा शिक्षिता राजन् ! किं वा नैसर्गिकीतव ।श्रोतुमिच्छामहे राजन् ! त्रिजगज्जनपावनीम् ।कथां भागवतीं त्वत्त्वः संसाराश्रमनाशिनीम्
शशिध्वज उवाच ।स्त्रीपुंसोरावयोर्यूयं शृणुतामोघविक्रमाः ।वृत्तं यज्जन्मकर्म्मादिस्मृतिं तद्भक्तिलक्षणाम्
पुरा युगसहस्रान्ते गृध्रोऽहं पूतिमांसभुक् ।गृध्रीयं मे प्रियारण्ये कृतनीडौ वनस्पतौ
चकार कामं सर्व्वत्र वनोपवनसंकुले ।मृतानां पूतिपललैः प्राणिनां वृत्तिकल्पकौ
एकदा लुब्धकः क्रूरो लुलोभ पिशिताशिनौ ।आवां वीक्ष्य गृहे पुष्टं गृध्रं तत्राप्ययोजयत्
तं वीक्ष्य जातविश्रान्तौ क्षुधया परिपीडितौ ।स्त्रीपुंसौ पतितौ तत्र मांसशोणितचेतसौ
बद्धावावां वीक्ष्य शिचा हर्षादागत्य लुब्धकः ।जग्राह कण्ठे तरसा चञ्च्वग्राघातपीडितः
आवां गृहीत्वा गण्डक्याः शिलायां सलिला-न्तिके ।मस्तिष्कं चूणयामास लुब्धकः पिशिताशनः
चक्राङ्कितशिलासङ्गान्मरणादपि तत्क्षणात् ।ज्योतिर्म्मयविमानेन सद्यो भूत्वा चतुर्भुजौ
प्राप्तौ वैकुण्ठनिलयं सर्व्वलोकनमस्कृतम् ।ततः स्थित्वा युगशतं ब्रह्मणो लोकमागतौ
ब्रह्मलोके पञ्चशतं युगानामुपभुज्य वै ।देवलोके कालवशाद्गतं युगचतुःशतम्
ततो भुवि नृपास्तावत् बद्धसूनुरहं स्मरन् ।हरेरनुग्रहं लोके शालग्रामशिलाश्रयम्
जातिस्मरत्वं गण्डक्याः किं तस्याः कथया-म्यहम् ।यज्जलस्पर्शमात्रेण माहात्म्यं महदद्भुतम्
चक्राङ्कितशिलास्पर्शमरणस्येदृशं फलम् ।न जाने वासुदेवस्य सेवया किं भविष्यति
”इति कल्किपुराणे २५ अध्यायः
*
मरणजनकवस्तूनि यथा, --“अग्निरापः स्त्रियो मूर्खः सर्पा राजकुलानिच ।नित्यं परोपसेव्यानि सद्यःप्राणहराणि षट्
”इति गारुडे ११४ अध्यायः
(“मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ।शेफसः स्तध्वता मोक्षः शुक्रस्य तु विशेषतः
”इति माधवकरकृतरुग्विनिश्चये ज्वराधिकारे
“अपानः कर्षति प्राणं प्राणोऽपानन्तु कर्षति ।शङ्खिनी तु यदा भिन्ना तदैव मरणं ध्रुवम्
”इति वैद्यकम्
)