| YouTube Channel

मदहेतुः (madahetuH)

 
शब्दकल्पद्रुमः
Sanskrit
मदहेतुः,
पुं,
(मदस्य हेतुः कारणम् ।) धातकी ।इति वैद्यकम् मत्तताकारणञ्च (मदरोगस्यहेतुः यथा, --“यदा तु रक्तवाहीनि रससंज्ञावहानि ।पृथक् पृथक् समस्ता वा स्रोतांसि कुपितामलाः
मलिनाहारशीलस्य रजोमोहावृतात्मनः ।प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा
मदमूर्च्छाय संन्यासास्तेषां विद्याद्विचक्षणः ।यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु
”इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये
)