| YouTube Channel

मण्डं (maNDaM)

 
शब्दकल्पद्रुमः
Sanskrit
मण्डं,
क्ली,
पुं,
(मन्यते ज्ञायते अनेन अन्नादिक-मिति मन + “ञमन्तात् डः ।” उणा० ११३ ।इति डः ।) सर्व्वेषामन्नदध्यादीनामग्ररसः ।इत्यमरभरतौ माड् इति मात् इति चभाषा
(यथा, उत्तररामचरिते अङ्के ।“नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूताप्रिया-पीतादप्यधिकं तपोवनमृगः पर्य्याप्तमाचामति
”)सारः पिच्छम् इति मेदिनी डे, २१
मण्डं,
क्ली,
(मण्डतीति मडि भूषादौ + अच् ।)मस्तु इति मेदिनी डे, २१
(यथा, भाग-वते २० २४ ।“समानेन दधिमण्डोदेन परितः
”)