मञ्जुघोष (maJjughoSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishSpoken Sanskrit
Englishमञ्जुघोष - maJjughoSa - - uttering a sweet sound
मञ्जुघोष - maJjughoSa - - dove
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishShabdartha Kaustubha
Kannadaमञ्जुघोष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಇಂಪಾದ ಧ್ವನಿ /ಮನೋಹರವಾದ ಶಬ್ದ
व्युत्पत्तिः - > मञ्जुर्मञ्जुलो घोषः शब्दः
मञ्जुघोष
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಇಂಪಾದ ಧ್ವನಿಯುಳ್ಳ
Edgerton Buddhist Hybrid
EnglishSanskrit Tibetan
Tibetanjam pa'i dbyangs
मञ्जुघोष
jam dpal
१) मञ्जुघोष २) मञ्जुशिरी ३) मञ्जुश्री
jam dpal dbyangs
१ )मञ्जुघोष २) मञ्जुश्री
jam dbyangs
१) मञ्जुघोष २) मञ्जुनाथ ३) मञ्जुश्री
jam dbyangs dkar po kha che paN chen lugs
मञ्जुघोष
jam dbyangs smra ba'i seng ge'i sgrub thabs
मञ्जुघोष
jam dbyangs sa skya paN+Di ta
मञ्जुघोष
शब्दकल्पद्रुमः
Sanskritमञ्जुघोषः, (मञ्जुर्मनोहरो घोषः शब्दोऽस्य ।)पूर्व्वजिनभेदः । इति त्रिकाण्डशेषः ॥
उपास्य-देवताविशेषः । अस्य मन्त्रादि यथा, --“जाड्यौघतिमिरध्वंसी संसारार्णवतारकः ।श्रीमञ्जुघोषो जयतां साधकानां सुखावहः ॥
”तत्रागमोत्तरे ।“मातृकादि समुद्धत्य वह्निबीजं समुद्धरेत् ।वामांसं कूर्म्मसंज्ञञ्च ततो मेषेशमुद्धरेत् ॥
मीनेशञ्च ततः कुर्य्यात् वामनेत्रेन्दुसंयुतम् ।षडक्षरो मनुः प्रोक्तो मञ्जुघोषस्य शम्भुना ॥
इयस्तु दीपनी प्रोक्ता मूलमन्त्रस्तु कथ्यते ।अङ्कुशं शक्तिबीजञ्च रमाबीजं ततः प्रिये ! ॥
बीजत्रयात्मको मन्त्रो जाड्यौघध्वान्तनाशनः ।शक्तिबीजं रमाबीज कामबीजं तथा प्रिये ! ॥
विद्या श्रुतिधरी प्रोक्ता एषा वर्णत्रयात्मिका ।हकारो वह्निमारूढो बालनेत्रेन्दुभूषितः ।प्रोक्ता सार्व्वज्ञविद्येयं एकवर्णात्मिका प्रिये ! ॥
सिद्धः साध्यः सुसिद्धो वा साधकस्य रिपुश्च वा ।तदा मन्त्रो भवेद्भक्त्या शुभदो बुद्ध्विदो भवेत् ॥
मध्याह्ने सलिले चैव भोजने भाजने तथा ।गोमये तु बहिर्द्देशे मैथुने रमणीकुचे ॥
गोष्ठे च निशि गोमुण्डे यन्त्रं डमरुसन्निभम् ।विलिख्य मन्त्रवर्णांश्च त्रिश ऊर्द्ध्वे अधस्तथा ।लिखेच्चन्दनलेखन्या प्रयत्नात् साधकोत्तमः ।उच्चाटने लिखेद्यन्त्रं गोचर्म्मणि विशेषतः ।सलिले विजयी नित्यं भजने च महेश्वरः ॥
गोमये वावदूकः स्याद्गोष्ठे सर्व्वज्ञतां व्रजेत् ।कुचे श्रुतिधरो नित्यं गोमुण्डे च महाकविः ॥
गोमूत्रं वदरीमूलं चन्दनं पांशुमेव च ।एकीकृत्याष्टधा जप्त्वा तिलकं धारयेत् सदा ॥
नमस्कृत्य वरं श्रेष्ठं प्रार्थयेद्भक्तितत्परः ।वरं प्राप्य च तस्माद्वै विहरेत्तु यथासुखम् ॥
नान्यदेवार्च्चनं स्नानं प्रणवोच्चारणं न तु ।वस्त्राञ्चलेन दन्तानां शोधनं लवणेन वा ॥
रात्रिवासो न मुञ्चेत न शुचिः स्यात् कदा-चन ।एवं कृत्वां प्रयत्नेन ज्ञात्वा गुरुमुखात् सुधीः ॥
मासैकेन कवीन्द्रः स्यात् द्विमासेनैव ईश्वरः ।त्रिभिर्मासैर्भवेन्मर्त्यः सर्व्वशास्त्रविशारदः ॥
पुत्त्रार्थी लभते पुत्त्रं धनार्थी विपुलं धनम् ।आयुरारोग्यकामस्तु सर्व्वान् कामानवाप्नुयात् ॥
ततः कराङ्गन्यासौ ।क्षां शां अङ्गुष्ठाभ्यां नमः । इत्यादि एवं हृद-यादिषु । तथा च तन्त्रे ।“सम्बर्त्तको वकेशश्च द्वौ वर्णौ कथितौ प्रिये ! ।षड्दीर्घभाग्म्यामेताभ्यां षडङ्गानि समाचरेत् ॥
सम्बर्त्तः क्षकारः वकेशः शकारः ॥
* ॥
ध्यानम् ।“शशधरमिव शुभ्रं खड्गपुस्ताङ्गपाणिंसुरुचिरमतिशान्तं पञ्चचूडं कुमारम् ।पृथुतरवरमुख्यं पद्मपत्रायताक्षंकुमतिदहनदक्षं मञ्जुधोषं नमामि ॥
पीठपूजां ततः कुर्य्यादाधाराद्यादिशक्तितः ।भूतप्रेतादिभिः कुर्य्यात् पीठासनमनन्तरम् ॥
ज्ञानदात्रे नमः पाद्यं बुद्धिकर्त्रे तथाचमम् ।जाड्यनाशाय गन्धः स्यादर्घ्यं स्याद् यक्षपाय वै ॥
सर्व्वसिद्धिप्रदायेति पुष्पं दद्याद्विचक्षणः ।कुन्दपुष्पं समादाय भैरवान् पूजयेत्ततः ॥
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः ।कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥
ततो धूपादिकं दत्त्वा प्रसूनानि बिसर्जयेत् ।तैः पुष्पैः पूजयेदष्टौ यक्षिणीश्च विशेषतः ॥
सुरारिसुन्दरी चैव मनोहारिण्यनन्तरम् ।कनकावती तथा कामेश्वरी च रतिकर्य्यथ ॥
पद्मिनी च नटी चैव अनुरागिण्यनन्तरम् ।पूज्या एतास्तु योगिन्यो हृल्लेखाबीजपूर्व्विकाः ॥
एवं संपूज्य देवेशं लक्षषट्कं जपेन्मनुम् ।घृताक्तकुन्दपुष्पैश्च एकादशशतानि च ॥
जुहुयादेधिते वह्नौ कान्तारे पितृवेश्मनि ।एवं सिद्धमनुर्मन्त्री महायोगीश्वरो भवेत् ॥
”इति तन्त्रसारः ॥
प्रकारान्तरं कुक्कुटादितन्त्रे द्रष्टव्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
