| YouTube Channel

मङ्गल्यं (maGgalyaM)

 
शब्दकल्पद्रुमः
Sanskrit
मङ्गल्यं,
क्ली,
(मङ्गलाय साधु इति मङ्गल +“तत्र साधुः ।” ९८ इति यत् ।)दधि इति मेदिनी ये, १०१
चन्दनम् ।मङ्गल्यागुरु स्वर्णम् सिन्दूरम् इति राज-निर्घण्टः
मङ्गल्यं, त्रि, (मङ्गलाय साधु मङ्गल + यत् ।)शिवकरम् इति मेदिनी ये, १०१
(यथा, उत्तरचरिते अङ्के ।“पाप्मभ्यश्च पुनाति वर्द्धयति श्रेयांसि येयंकथा ।मङ्गल्या मनोहरा जगतो मातेवगङ्गेव
”यथाच, महाभारते २४ ।मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्
”)रुचिरम् इति हेमचन्द्रः
साधुः इतिधरणिः