| YouTube Channel

मघवा (maghavA)

 
Wordnet
Sanskrit
Synonyms:
इन्द्रः, देवराजः, जयन्तः, ऋषभः, मीढ्वान्, मरुत्वान्, मघवा, विडोजा, पाकशासनः, वृद्धश्रवाः, सुनासीरः, पुरुहूतः, पुरन्दरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा, गोत्रभित्, वज्री, वासवः, वृत्रहा, वृषा, वास्तोस्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जम्भभेदी, हरिहयः, स्वाराट्, नमुचिसूदनः, संक्रन्दनः, दुश्च्यवनः, तुराषाट्, मेघवाहनः, आखण्डलः, सहस्त्राक्षः, ऋभुक्षा, महेन्द्रः, कोशिकः, पूतक्रतुः, विश्वम्भरः, हरिः, पुरुदंशा, शतधृतिः, पृतनाषाड्, अहिद्विषः, वज्रपाणिः, देवराजः, पर्वतारिः, पर्यण्यः, देवताधिपः, नाकनाथः, पूर्वदिक्कपतिः, पुलोमारिः, अर्हः, प्रचीनवर्हिः, तपस्तक्षः, बिडौजाः, अर्कः, उलूकः, कविः, कौशिकः, जिष्णुः
noun
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
"वेदेषु इन्द्रस्य सूक्तानि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
मघवा, [न्]
पुं,
(मह्यते पूज्यते इति मह-पूजायाम् “श्वन्नुक्षन् पूषन् प्लीहन्निति ।”उणा० १५८ इति कनिन् निपातनात्हस्य घः अवुगागमश्च ।) इन्द्रः इत्यमरः ।१ ४४
(यथा, रघौ २६ ।दुदोह गां यज्ञाय शस्याय मघवा दिवम् ।सम्पद्विनिमयेनोभौ दधतुर्भुवनद्बयम्
”)जिनानां द्वादशचक्रवर्त्त्यन्तर्गतचक्रवर्त्तिविशेषः ।इति हेमचन्द्रः
(सप्तमद्वापरस्य व्यासः ।यथा, देवीभागवते २८ ।“मघवा सप्तमे प्राप्रे वशिष्ठस्त्वष्टमे स्मृतः ।”)