भ्रमु (bhramu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Edgerton Buddhist Hybrid
Englishधातुपाठः (Krishnacharya)
Sanskrit भ्रम्
भ्रमु
चलने
भ्वादिः
अकर्मकः
सेट्
परस्मैपदी
भ्रमति-भ्रम्यति
उदित्
भ्रम्
भ्रमु
अनवस्थाने
दिवादिः
अकर्मकः
सेट्
परस्मैपदी
भ्राम्यति-भ्रमति
उदित्
धातुप्रदीपः
Sanskritभ्रमुँ भ्रमु चलने
- भ्रमति । भ्रम्यति । भ्राम्यतीति शमादिपाठात् णप्रत्येऽचि च भ्रमः, वृद्धिनिषेधात् । ज्वलादिषु पाठः अच्कावशक्तौ (6/2/157) इति नञ् उत्तरस्यान्तोदात्तार्थः । भ्रमः । भ्रान्तः । भ्रान्तिः । पोरदुपधाद् (3/1/ 98) इति यत्-भ्रम्यम् ।। 853 ।।
भ्रमुँ भ्रमु अनवस्थाने
- भ्राम्यति भ्रमति अभ्रमत् भ्रमी भ्रमः भ्रान्तिः भ्रमरः भ्रम्यति अभ्रमीदिति भ्वादिपाठात् 99
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritभ्रमुँ भ्रमु चलने
- वा भ्राशभ्लाश (3170) इति वा श्यन् भ्रमति भ्राम्यति वा जॄभ्रमुत्रसाम् (64124) इत्येत्वाभ्यासलोपौ भ्रेमुः बभ्रमुः भ्रान्त्वा, भ्रमित्वा भ्रान्तः णे- भ्रामः भ्रम इति दुर्गः भ्रमेश्च उः- अभ्रमुः इन् (दश0 उ0 146) भ्रमिः भ्रमेः सम्प्रसारणं किच्च (तु0 उ0 4121) इति भृमिर्वायुः अर्तिकमिभ्रमि (उ0 3122) इत्यरन्-भ्रमरः दिवादौ (498) शमाद्यर्थः पाठः-भ्राम्यति 820
भ्रमुँ भ्रमु अनवस्थाने
- (अर्थविवरणम्) अनवस्थानं देशान्तरगमनम्
वा भ्राश (3170) इति भ्राम्यति भ्रमति अभ्रमत् भ्रान्त्वा भ्रमित्वा भ्रमेइचडूः (उ0 268)-भ्रूः भ्वादौ भ्रमु चलने ( 586)-भ्रमति भ्रम्यति 93
धातुवृत्तिः
Sanskritभ्रमुँ भ्रमु (अर्थः) चलने
भ्रमति बभ्राम बभ्रमतुः भ्रमतुः भ्रेमुः बभ्रमुः वभ्रमिथभ्रेमिथ ) "वा जॄभ्रमुत्रसाम्'' इति किति लिटि थलि च सेटि वा एत्वाभ्यासलोपौ ( भ्रमिता भ्रमिष्यति भ्रसतु अभ्रमत् भ्रमेत् भ्रम्यात् अभ्रमीत् ) शब्दिषये "वाभ्राश'' इति पक्षे श्यनि ( भ्रम्यति ) भ्रम्यतु अभ्रम्यत् भ्रम्येत् ) भ्राम्यतीति दिवादौ शमादिपठितस्यानवस्थानार्थस्य "शमामष्टानाम्'' इति दीघ ( बिभ्रमिषति बम्भ्रम्यते ) अनुनासिकान्तत्वान्नुक्, ( बम्भ्रन्ति बम्भान्तः ) लोटि हौ (बम्भ्रांहि अबम्भ्रत ( सूत्रम्) मो नो धातोः (इति सूत्रम्) इति मकारस्य नकारः (भ्रमयति) अमन्तत्वान्मित्त्वम् घञि (भ्रमः) "नोदात्त'' इति वृद्धिनिषेधः प्रयोजनं तु भ्रमितुं न न शक्ताः अभ्रम इत्यत्र ( सूत्रम्) अच्कावशक्तौ (इति सूत्रम्) इति अन्तस्य कान्तस्य च नञः परस्योत्तरपदस्य तत्पुरुषे अशक्तौ गम्यमानायां विधियमानस्यान्तोदात्तत्वस्याभावः तेन ( सूत्रम्) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीया कृत्याः (इति सूत्रम्) तत्पुरुषयो तुल्यादिपूर्वपदस्य विधीयमानः प्रकृतिस्वरो भवति स च निपातत्वादाद्युदात्त एव अचि तु "अच्कौ''इत्यन्तोदात्तमेव (भ्रमित्वा भ्रान्त्वा भ्रान्तः) भ्रान्तं देशमनेकदुर्गविषमंमित्यत्र देशश्चाकर्मणामिति देशस्य कर्मत्वेनाभिधानं तु भवतावेवोपपादितम् (भ्रमणः) चलनार्थत्वाद्युच् (भ्रमीति) शमादिपठितस्य घिनुण् (भ्रमरः) "अर्त्तिचमिकमिभ्रमिदेविवासिम्यश्च'' इत्यरप्रत्ययः (भ्रुमलः) शमादिपठितस्य धिनुण् (भ्रमरः) "अर्त्तिचमिकमिभ्रमिदेविवासिभ्यश्च'' इत्यरप्रत्ययः (भ्रुमलः) अक्षिरीगः "भ्रमेरुच्चोपधायाः'' इति कलप्रत्यय उपधायाश्चोकारः ( भ्रूः ) "भ्रमेर्हुः'' इति हूः डित्त्वाट्टिलोपः ( भ्रुवौ भ्रुवः ) अजादौ "अचि श्नुधातुभ्रुवाम्'' इत्यवुङ् (हे भ्रूः) इत्यत्र "नेयङुवङ्स्थानावस्त्री''इति नदीसंज्ञानिषेधः "अम्बार्थनद्योर्ह्रस्वः'' इति हस्वाभावः ङिद्वचनेषु ( सूत्रम्) ङिति ह्रस्वश्च (इति सूत्रम्) इति नदीविकल्पः ड्द्विचनेषु इयङ्युवङ्स्थानेष्वीदन्तमिकारोकारान्तं च स्त्र्याख्यां वा नदी स्रीशब्दं वर्जयित्वेति सूत्रार्थः तेन नदीसंज्ञायाम् "आण् नद्याः''इत्याटि वृद्धावुवङि (भ्रुवै) इत्यादि अन्यदा केवलमुवङि (भ्रवे) इत्यादि आमि स्त्रीशब्दव्यतिरिक्तयोरियङुवङ्स्यानयोः"वामि'' इति नदीनिषेधविकल्पनात् (भ्रूणां भ्रूवामिति) भ्रूर्नामा का चित्तस्या अपत्वं (भ्रौवेयः) ( सूत्रम्) भ्रवो वुक् च (इति सूत्रम्) इति ढक् तत्सव्रियोगेन वुगागमः (लेखाभ्रेयः) "शुभ्रादिभ्यश्च''इत्यापत्ये ढक्, ( सूत्रम्) डे लोपो ऽकद्रूवाः (इति सूत्रम्) इति ढे परे कद्रूर्जितस्योवन्तस्याङ्गस्योकारस्या लोप इत्यूकारलोपः अक्षिणी च भ्रुवौच (अक्षिभ्रुवम्) "अचतुर''इत्यादिनाऽचि समासान्ते निपातितम् भ्रूकुलं भ्रूभङ्ग इत्यादौ ( सूत्रम्) इको हस्वोङ्यो गालवस्य (इति सूत्रम्) इति हन्तस्याढ्यन्तस्य उत्तापदे विधीयमानो ह्रस्वस्तत्रानुवृत्तस्यान्यतरस्याङ्ग्रहणस्य व्यवस्थितविभाषाद्वा भवति ( भ्रूकसः भ्रूकुटिः भ्रुकुटिः) इत्यत्र पक्षे हस्वौ भवति अत्र भाष्ये अपर आह "अकारौ भ्रुकुंसादीनां वक्तव्यः' भ्रकुटिः भ्रकुंस इति835
भ्रमुँ भ्रमु (अर्थः) अनवस्थाने
( भ्राम्यति ) इत्यादि "वा भ्राश'' इति श्यनो विकल्पनाद् यदाशप् तदा ( भ्रमतीत्यादि शेषं भौवादिकवत् "शमामष्टानाम्'' इति श्यनि दीर्घः, ल्युड्यङ् च विशेषः ( भ्रमी ) शमादित्त्वाद्घिनुण् अत्रात्रेयः अभिधानवशाद् अकर्मकादेव अयमिष्यते तेन ( भ्रमिता ) वनमिति तृजेवेति एवं चायं सकर्मकोऽकर्मकश्चेतिनासूचि 27
कृदन्तरूपमाला
Sanskrit1 {@“भ्रमु चलने”@} 2 ज्वलादिः।
‘चलने भ्रमति भ्रम्येत् शमादेर्भ्राम्यति भ्रमेत्।।’ 3 इति देवः।
4 भ्रमकः-मिका, 5 भ्रमकः-मिका, बिभ्रमिषकः-षिका, बम्भ्रमकः-बंभ्रमकः- मिका, इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्लाम्यतिवत् 6 बोध्यानि।
शतरि- 7 भ्रमन्- 8 भ्रम्यन्, 9 10 भ्रमः-भ्रमः, युचि- 11 भ्रमणः, क्विपि- 12 अग्रेभ्रूः-सुभ्रूः-सुभ्रुवौ-सुभ्रुवः, 13 भ्रमिः, 14 उरभ्रः, 15 भृमिः, 16 भ्रमरः, इत्यादीनि रूपाण्यस्य विशेषेण भवन्तीति विशेषः।
01 (११८४)
02 (१-भ्वादिः-८५०। अक। सेट्। पर।)
03 (श्लो। १४७)
04 [[५। ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।]]
05 [[६। ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च, (ग। सू। भ्वादौ) इत्यमन्तत्वेन मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति णौ परतः उपधायाः ह्रस्वः।]]
06 (२८३)
07 [[७। शतरि ‘वा भ्राशभ्लाशभ्रमु--’ (३-१-७०) इत्यनेन वा श्यन्। तेन रूपद्वयं बोध्यम्।]]
08 [[C। ‘तापं मथन्ती कणिका वमन्ती भ्रम्यत्तरङ्गा क्षरति स्फुटं या।।’ धा। का। २। २३। (अत्र धातुकाव्ये, क्षीरतरङ्गिण्यां च शतरि, भ्राम्यन् इत्येव दीर्घपाठः परिदृश्यते। परं तु दैवादिकस्यैव भ्रमुधातोः ‘शमामष्टानां दीर्घ्नः श्यनि’ (७-३-७४) इति दीर्घविधानाद् भौवादिकस्यास्य दीर्घाप्रसक्तेः मुद्रणाशुद्धिरेव ग्रन्थद्वयेऽपि प्रकृतस्थले इति मनीषयाऽस्माभिः भ्रम्यन् इति शास्त्रीयपाठ एवादृत इति ज्ञेयम्।)]]
09 [पृष्ठम्०९७९+ २८]
10 [[१। ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति कर्तरि वा णप्रत्ययः। पक्षेऽच्प्रत्य- यश्च। णप्रत्ययपक्षेऽपि, ‘नोदात्तोपदेश--’ (७-३-३४) इति वृद्धिनिषेधः। क्षीरस्वामी तु “णे भ्रामः। भ्रमः इति दुर्गः।” इति रूपे प्रदर्शितवान्। ‘निषेधाश्च बली- यांसः’ (परिभाषा १२२) इति न्यायेन वृद्धिनिषेध एवात्र णप्रत्ययपक्षेऽपि न्याय्य इति प्रतिभाति।]]
11 [[२। ‘चलनशब्दार्थाद्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच्। णत्वम्।]]
12 [[३। क्विपि, ‘ऊङ् च गमादीनामिति वक्तव्यम्’ (वा। ६-४-४०) इति वचनेन अनुनासिकलोपे, धात्वकारस्य ऊकारादेशे च रूपमेवम्। काशिकादिषु अग्रेभ्रूः इत्युदाहृतम्। भाष्ये तु प्रकृतसूत्रे (६-४-४०) भ्रूः इत्येवोदाहृतम्।]]
13 [[४। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे स्त्रियामिक्प्रत्ययः।]]
14 [[५। उरसा भ्रमतीति उरभ्रः = मेषः। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डप्रत्यये, पृषोदरादित्वात् (६-३-१०९) उरश्शब्दसकारस्य लोपे च रूपमेवम्। केचित्तु उरु भ्रमतीति व्युत्पत्तिं कृत्वा, पृषोदरादित्वादेव उरुशब्दस्थरेफोत्तरो- कारस्याकारे च रूपं साधयन्ति।]]
15 [[६। ‘भ्रमेः सम्प्रसारणं च’ (द। उ। १-४९) इतीन्प्रत्यये, प्रत्ययस्य कित्त्वेन सम्प्रसारणे च रूपमेवम्। भृमिः = वायुः।]]
16 [[७। ‘अर्त्तिकमिभ्रमि--’ (द। उ। ८-६२) इत्यरन्प्रत्यये रूपमेवम्। भ्रमरः = अलिः।]]
1 {@“भ्रमु अनवस्थाने”@} 2 शमादिः।
अनवस्थानम् = देशान्तरगमनम्।
‘चलने भ्रमति भ्रम्येत्, शमादेर्भ्राम्यति भ्रमेत्।।’ 3 इति देवः।
भ्रमकः-मिका, भ्रमकः-मिका, बिभ्रमिषकः-षिका, बम्भ्रमकः-बंभ्रमकः-मिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्लाम्यतिवत् 4 ज्ञेयानि।
5 भ्रमी 6, 7 8 भ्रमन्-भ्राम्यन्-न्ती-ती, 9 बभ्रमिवान्-भ्रेमिवान्, इति रूपाण्यस्य भवन्तीति विशेषः।
01 (११८५)
02 (४-दिवादिः-१२०५। अक। सेट्। पर।)
03 (श्लो। १४७)
04 (२८३)
05 [[८। तच्छीलादिषु, कर्तृषु, ‘शमित्यष्टाभ्यो घिनुण्’ (३-२-१४१) इति घिनुण्प्रत्ययः। “अत्र आत्रेयः--’ ‘अभिधानवशात् अकर्मकादेव अयमिष्यते। तेन, ‘भ्रमिता वनम्’ इत्यत्र ‘तृन्’ (३-२-१३५) इति सूत्रेण तृन्नेव।’ इति। एवञ्च अयं सकर्मको- ऽकर्मकश्चेत्यनेनासूचि।।” इति मा। धा। वृत्तावुक्तमिहानुसन्धेयम्।]]
06 [[आ। ‘भ्रमी कदम्बसंभिन्नः पवनः शमिनामपि।’ भ। का। ७। ५।]]
07 [पृष्ठम्०९८०+ ३२]
08 [[१। ‘वा भ्राशभ्लाशभ्रमु--’ (३-१-७०) इति श्यन्विकल्पः। तेन पक्षे औत्सर्गिकः ‘कर्तरि शप्’ (३-१-६८) इति शप्। श्यन्पक्षे, ‘शमामष्टानां दीर्घः श्यनि’ (७-३-७४) इति दीर्घः। तेन रूपद्वयम्।]]
09 [[२। कर्तरि लिटः क्वसौ, ‘वा जॄभ्रमुत्रसाम्’ (६-४-१२४) इत्येत्वाभ्यासलोपौ विकल्पेन भवतः। पक्षे, द्विर्वचने ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे बभ्रमिवान् इति रूपम्। तेन रूपद्वयं ज्ञेयम्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
