| YouTube Channel

भ्रक्ष (bhrakSa)

 
Apte Hindi
Hindi
भ्रक्ष
"भ्वा* उभ* , " - -
"खाना, निगलना"
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भ्रक्ष्
मूलधातुः:
भ्रक्ष
धात्वर्थः:
अदने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
भ्रक्षति-ते
वाचस्पत्यम्
Sanskrit
भ्र(भ्ल)क्ष अदने
भ्वा०
उ०
सक०
सेट् वा रस्य लः धातुपाठः ।भ्र(भु)क्षति ते अभ्र(भ्ल)क्षोत् बभ्र(भ्ल)क्ष
धातुवृत्तिः
Sanskrit
भ्रक्षँ भ्रक्ष (अर्थः) अदने
भ्लक्षेति क्षीरस्वामी भक्षेति मैत्रेयः तत्र "गतिबुद्धि'' [ भक्षेरहिंसार्थस्य प्रतिषेधः ] इति वार्तिकस्य भक्ष्यति पिण्डीं देवदत्तः भक्षयति पिण्डीं देवदत्तेनेति ण्यन्ताद्धेतुमण्णौ प्रयोज्यस्य कर्मत्वाभावं दर्शयता भाष्यकृता भक्षतिरनभिहितः सति हि अणिकर्त्ता णावितयसामञ्जस्यादस्मादेव हेतुमण्णवुदाहृतं स्यात्, तथा वृत्तितद्व्याख्यानेष्वपि [ भक्षेर्हिंसार्थस्य ] इत्यत्र चुरादिण्न्तादेव भक्षेर्हेतुमण्णावुदाहियते ( भ्लक्षति भ्लक्षिता बिभ्लक्षिषति बाभ्लक्षयते बाभ्लष्टि ) "स्कोः'' इति कलोपः लीटि हौ ( बाभ्लड्ठि ) धित्वष्टुत्वजश्त्वानि लङि तिप्सिपोर्हल्ङ्यादिलोपो ( अबाभ्लट् भ्लक्षयति अबभ्लक्षत म्लक्षयति अबभ्लक्षत् भ्लक्षते ब्भलेक्षे ) इत्यादि योत्र प्लक्ष इति केषां चित् पाठः सोपि प्रक्षरतीति प्लक्षइति प्रपूर्वात् क्षरतेः प्लक्षशब्दस्य भाष्यकारेण व्युत्पादितत्वादनार्ष एव तथा श्रुतिरपि "तस्य शिरश्छिता मेध्यं प्राक्षा रयात् प्लक्षोऽभवत्तत्प्लखस्य प्लक्षत्वं, यत् प्लक्षशाखेति' इत्र लत्वं कपिलादित्वाद् द्रष्टव्यम् 877
कृदन्तरूपमाला
Sanskrit
1 {@“भ्रक्ष अदने”@} 2 3 भ्वादिषु क्षीरस्वामिप्रभृतिभिः भ्रक्ष इत्ययं धातुरदनार्थकः पठित इति मा।
धा।
वृत्ति-पुरुषकार 4 ग्रन्थाभ्यामवगम्यते।
परंतु मुद्रित- क्षीरतरङ्गिण्यां भ्वादिषु भ्लक्ष इत्येव पाठो दृश्यते।
सोऽपि पाठो मुद्रणाशुद्ध्या स्यादिति भाति
यतः चुरादिषु क्षीरस्वामिनैव भक्षधातुं प्रकृत्य, ‘भक्षतेर्घञ् भक्षः।’ इत्युक्तम्, भ्वादिषु भक्षधातुस्तेन पठितश्च।
अतोऽत्र क्षीरतर- ङ्गिण्यां भ्वादौ अदनार्थको धातुः, पुरुषकारधातुवृत्तिकारपक्षानुसारेण भ्रक्ष इति वा स्यात्, अथवा क्षीरस्वामिनैव चुरादिष्वनूद्यमानेन पाठेन भक्ष इति वा स्यात्।
नतु भ्लक्ष इति--इति युक्तमुत्पश्यामः।
सिद्धान्तकौमुद्या- द्यनुसारेण धातुरयमस्माभिरत्र विलिखितः।]] भ्रक्षकः-क्षिका, भ्रक्षकः-क्षिका, बिभ्रक्षिषकः-षिका, बाभ्रक्षकः-क्षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतक्षतिवत् 5 ज्ञेयानि।
6
प्रासङ्गिक्यः
01
=>
(११७९)
02
=>
(१-भ्वादिः-८९२। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(श्लो। १७७)
05
=>
(६९१)
06
=>
[पृष्ठम्०९७७+ ३०]