भोजः (bhojaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishभोजः [bhōjḥ], [भुज्-अच्] of a celebrated king of Mālvā (or Dhārā)
(supposed to have flourished about the end of the tenth or the beginning of the eleventh century, and to have been a great patron of Sanskṛit learning
he is also supposed to have been the author of several learned works, such as सरस्वतीकण्ठाभरण ).
of a country.
of a king of the Vidarbhas
भोजेन दूतो रघवे विसृष्टः 5.39
7.18, 29, 35. -जाः (m. ) of a people. -अधिपः an epithet of
Kamsa.
Karṇa. -इन्द्रः a king of the Bhojas.-कटम् of a town founded by Rukmin. -कुलम् the dynasty of the Bhojas who ruled over the country of Vidarbha or Berar
अभोजयद् भोजकुलाङ्कुरः क्वचित् 16.48.-देवः, -राजः king Bhoja
धन्यः श्रीभोजराजस्त्रिभुवनविजयी Udb
see (1) above.
पतिः king Bhoja.
an epithet of Kamsa.
Apte 1890
Englishभोजः [भुज्-अच्] 1 N. of a celebrated king of Mālvā (or Dhārā)
(supposed to have flourished about the end of the tenth or the beginning of the eleventh century, and to have been a great patron of Sanskrit learning
he is also supposed to have been the author of several learned works, such as सरस्वतीकंठाभरण &c.).
2 N. of a country.
3 N. of a king of the Vidarbhas
भोजेन दूतो रघवे विसृष्टः R. 5. 39
7. 18, 29, 35.
जाः (m. pl.) N. of a people.
Comp.
अधिपः an epithet of {1} Kaṃsa. {2} Karṇa.
इंद्रः a king of the Bhojas.
कटं N. of a town founded by Rukmin.
देवः,
राजः king Bhoja
see (1) above.
पतिः {1} king Bhoja. {2} an epithet of Kaṃsa.
Apte Hindi
Hindiभोजः
वि* - भुज्+अच्
मालवाका प्रसिद्ध राजा
भोजः
वि* - -
एक देश का नाम
भोजः
वि* - -
विदर्भ के राजा का नाम
भोजः
- भुज्+अच्
एक प्रसिद्ध राजा का नाम
भोजः
- भुज्+अच्
विदर्भदेश का राजा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit भोजः
वसुदेवस्य पुत्रः।
"भोजस्य वर्णनं पुराणेषु प्राप्यते।"
भोजः
कृष्णस्य सखा।
"भोजस्य वर्णनं पुराणेषु प्राप्यते।"
भोजः, भोजराजा
मालवादेशस्य राजा यः ख्यातः संस्कृतकविः आसीत्।
"राजा भोजः कवीनां सत्कारम् अकरोत्।"
वैजयन्तीकोषः
SanskritWord: भोजः
Root: भोजः
Gender: undefined
Number: undefined
अर्थः ⇒
Meaning(s):
⇒ Adulterous offspring of Kṣatriya parents
the mother being a widow
Shloka(s):
3|5|62|1 ► क्षत्रकुण्डः पट्टबन्धो भोजः क्षत्रियगोलकः। (भूमिकाण्डः/मनुष्याध्यायः)
Synonym(s):
➠ 3|5|62|1 ⇢ भोजाः (भोज) (पुं) ⇒ Adulterous offspring of Kṣatriya parents
the mother being a widow ⇒
➠ 3|5|62|1 ⇢ क्षत्त्रियगोलकः (क्षत्त्रियगोलक) (पुं) ⇒ Adulterous offspring of Kṣatriya parents
the mother being a widow ⇒
Related word(s):
परा_अपरासंबन्धः ➡ गोलकः
शब्दकल्पद्रुमः
Sanskritभोजः, (भोजस्येदमिति । भोज + “तस्ये-दम् ।” ४ । ३ । १२० । इत्यण् । अणो लोपः ।)स्वनामख्यातदेशः । भोजपुर इति भाषा ।तत्पर्य्यायः । भोजकटः २ । इति शब्द-रत्नावली ॥
धारानगरस्य राजविशेषः ।तस्य वृत्तान्तो यथा । धारानामनगर्य्यां सिन्धुल-संज्ञो राजा आसीत् । तस्य राज्ञीसावित्री, तयोर्वृद्धावस्थायां भोजनामपुत्त्रोजातः । स यदा पञ्चवर्षवयस्कस्तदा तत्पिताआत्ममरणकालं विदित्वा भ्रात्रे मुञ्जाय राज्यंददौ, तदुत्सङ्गे भोजञ्च मुमोच । ततो राज्ञिपरलोकं प्राप्ते कियत्कालानन्तरं सभायांकश्चिदुदरम्भरिर्ज्योतिर्विदागत्य मुञ्जं प्राहराजन् ! भोजस्य भाग्योदयं वक्तुं विरिञ्चिरपिन समर्थः कोऽहं वराक उदरम्भरिर्ब्राह्मणःतथापि वदामि भोजमितः प्रेषय । ततोराजाज्ञया भोजेऽध्ययनशालां प्राप्ते आहयथा, --“पञ्चाशत्पञ्चवर्षाणि सप्तमासा दिन त्रयम् ।भोगराजेन भोक्तव्यं सगौडं दक्षिणापथम् ॥
”इति श्रुत्वा मुञ्जराजोऽचिन्तयत्, यदि राज-लक्ष्मीर्भोजं गमिष्यति ततोऽहं जीवन्नपि मृतः ।ततो राजा मन्त्रयित्वा वङ्गालाधीश्वरं महा-बलं वत्सराजमाहूय निर्जने तं प्राह, वत्स-राज ! त्वया भोजस्त्रिभुवनेश्वरीविपिने हन्तव्यः ।वत्सराजः भोजकुमारोपाध्यायमाहूय प्राह, विप्र ! भोजमानय । ततो विदितवृत्तान्तो भोजःकुपितः प्राह, आः पाप ! राज्ञः कुमारं वहि-रानेतुं तव का शक्तिः, ततो वामचरणपादु-कामादाय भोजेन भालदेशे हतो वत्सराजःप्राह, भोजकुमार ! वयं राजादेशकारिणः ।इत्युक्त्वा वधार्थं बलात् वत्सराजेन निशायांविपिनं भोजे नीते वत्सराजस्य भ्रात्रा भोजस्यवधोद्यमसमये ।“एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः ।शरीरेण समं नाशं सर्व्वमन्यच्च गच्छति ॥
”इत्युक्तं निशम्य वत्सराजो वैराग्यमापन्नो भोजंक्षमस्वेत्युक्त्वा प्रणम्य तं रथे निवेश्य गृहमागत्यभूमिगृहान्तरे भोजं रक्षित्वा कृत्रिमं भोज-मस्तकं कारयित्वा राजानमागत्य नत्वा प्राहश्रीमता यदादिष्टं तन्मया कृतम् । राजपुत्त्रबधंज्ञात्वा राजा तं प्राह वत्सराज ! पुत्त्रेणखड्गप्रहारावसरे किमपि उक्तम् । वत्सराजःप्राह देव ! किमपि पत्रं प्रेषितमस्ति तदिदंगृहाण शिरश्च दर्शयति । ततो भोजमस्तकंदृष्ट्वा राजा रुरोद ।“मान्धातेति महीपतिः कृतयुगेऽलङ्कारभूतोगतःसेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान्भूपते !नैकेनापि समं गता वसुमती मन्ये त्वयायास्यति ॥
”इति भोजकृतश्लोकं पठित्वा पपात च ।ततो राजा पण्डितमानीय मया पुत्त्रो हतःप्रायश्चित्तमुच्यतामित्युवाच । ततस्ते ऊचुःराजन् ! सवासा वह्निमाविश । ततो राज्ञोवह्निप्रवेशे निश्चिते सति तद्वार्त्तां श्रुत्वा नृपद्वार-मागत्य वत्सराजो बुद्धिसागरं प्राह तात !मया भोजो न मारितः वुद्धिसागरश्च तस्य कर्णेकिमपि कथयति । ततो वत्सराजो निष्क्रान्तः ।ततस्तन्मुहूर्त्तेन साक्षान्महेश्वर इव एकःकापालिक आगतः । तं वीक्ष्य बुद्धिसागरःप्राह योगिन् ! कुत आगम्यते कापालिके त्वयिजगच्चमत्कारी कलाविशेषश्चौषधिविशेषो वाअस्ति । ततो राजाप्याह मया सहसा हतंपुत्त्रं रक्ष । कापालिकः प्राह राजन् ! मा भैषीःपुत्त्रस्ते नाथप्रसादेन न मरिष्यति प्रातस्तव गृहंस्वयमेव समेष्यति परं श्मशानभूमौ बुद्धिसागर-मन्त्रिणा सह होमद्रव्यं प्रेषय । कापालिकेनयदुक्तं तत् सर्व्वं राज्ञा सम्पाद्य बुद्धिसागरःप्रेषितः ततश्च रात्रौ गूढतया वत्सराजगृहात्भोजस्तत्र नदीपुलिनं नीतः योगिना भोजकु-मारो जीवित इति किम्बदन्ती सर्ब्बतोऽप्य-जायत । ततः पौरामात्यैः परिवृतो भोजोराजभवनमागतः । ततस्तमालिङ्ग्य रुदन्तंमुञ्जं निवार्य्य भोजः स्तौति । ततो राजालज्जावनतग्रीवः सन् निजसिंहासने भोजमुप-वेश्य राज्यं दत्त्वा वनं गतः । ततो मुञ्जे वनंप्राप्ते बुद्धिसागरं मुख्यामात्यं विधाय भोजःस्वयं राज्यसुखं बुभुजे । ततो राजसभायांसहस्रशो बुधवरा दिग्भ्य समागग्मुः ततोराजा अमात्यमाह ।“लक्षं महाकवेर्द्देयं तदर्द्ध्वं विबुधस्य च ।देयं ग्राम्यकवेर्वत्स ! तस्याप्यर्द्धं त्वयान्वहम् ॥
”इति ॥
ततः क्रमेण वररुचिसुबन्धुबाणामररामदेवहरि-वंशशङ्करकलिङ्गकर्पूरविनायकमदनविद्याविनोदकोकिलतारेन्द्रप्रमुखाः सर्व्वशास्त्रविचक्षणाःसर्व्वज्ञा इव राजसभामहर्निशमलंकुर्व्वन्ति ।कियत्कालानन्तरं कालिदासकवौ समागतेतेन सार्द्ध्वं राज्ञः परमा प्रीतिरजायत । अन्येविद्धांसः कालिदासं वेश्यालम्पटं विदित्वा सर्व्व-भावेन वैरञ्चक्रुः न कश्चित् सभायां स्पृशति नकोऽपि वदति । किन्तु भोजनृपतिस्तेन सार्द्धंपरमप्रीतो बभूव । अन्येषां पण्डितानामाग-मनं तेषां पद्यानि समस्यापूरणानि तेभ्योबहुलक्षमुद्रादानादिवर्णनञ्च ग्रन्थशेषपर्य्यन्त-मस्ति । तद्ग्रन्थविस्तरभयात् न लिखितम् ।इति भोजप्रबन्धपुस्तकात् सङ्कलितम् ॥
* ॥
ऐन्द्र-जालिकविद्यां भोजविद्यां वदन्ति ॥
कृदन्तरूपमाला
Sanskrit1 {@“भुज पालनाभ्यवहारयोः”@} 2 अभ्यवहारः = भोजनम्।
‘भुजेद् भुनक्ति भुंक्ते स्युः, कौटिल्ये पालनेऽदने।’ 3 इति देवः।
4 भोजकः-जिका, भोजकः-जिका, 5 बुभुक्षकः-क्षिका, बोभुजकः-जिका
भोक्ता-भोक्त्री, भोजयिता-त्री, बुभुक्षिता-त्री, बोभुजिता-त्री
6 भुञ्जन्-ती, देवदत्तं यज्ञदत्तः- 7 भोजयन्-न्ती, बुभुक्षन्-न्ती
-- भोक्ष्यन्-न्ती-ती, भोजयिष्यन्-न्ती-ती, बुभुक्षिष्यन्-न्ती-ती
-- 8 भुञ्जानः, भोजयमानः, बुभुक्षमाणः, बोभुज्यमानः
भोक्ष्यमाणः, भोजयिष्यमाणः, बुभुक्षिष्यमाणः, बोभुजिष्यमाणः
हुतभुक्, हव्यभुक्, 9 बलिभुक्-बलिभुजौ- 10 बलिभुजः
-- -- भुक्तम्-भुक्तवान्, 11 प्रभुक्तः, भोजितः, बुभुक्षितः, बोभुजितः-तवान्
12 13 भोजः, 14 विश्वभोजः, 15 उष्णभोजी-शीतभोजी, 16 कलहभोजी, 17 अश्राद्धभोजी, कांस्यभोजी, 18 19 भुञ्जानः, भोजः, 20 बुभुक्षुः, बोभुजः
भोक्तव्यम्, भोजयितव्यम्, बुभुक्षितव्यम्, बोभुजितव्यम्
प्रनिभोजनीयम्-प्रणिभोजनीयम्, भोजनीयम्, बुभुक्षणीयम्, बोभुजनीयम्
21 भोज्यम्-भोग्यम्, भोज्यम्, बुभुक्ष्यम्, बोभुज्यम्
ईषद्भोजः-दुर्भोजः-सुभोजः
-- -- भुज्यमानः, भोज्यमानः, बुभुक्ष्यमाणः, बोभुज्यमानः
22 भुजः-भोगः, 23 भोगः, भोजः, बुभुक्षः, बोभुजः
भोक्तुम्, 24 भोक्तुं शक्नोति, भोजयितुम्, बुभुक्षितुम्, बोभुजितुम्
25 भुक्तिः, 26 भुजिः, अन्नभोजिका, भोजना, 27 बुभुक्षा, बोभुजा
भोजनम्, भोजनम्, बुभुक्षणम्, बोभुजनम्
भुक्त्वा, भोजयित्वा, बुभुक्षित्वा, बोभुजित्वा
उपभुज्य, उपभोज्य, प्रबुभुक्ष्य, प्रबोभुज्य
28 अग्रेभोजम्-भुक्त्वा, प्रथमं भोजं-भुक्त्वा, पूर्वं भोजं-भुक्त्वा वा व्रजति।
भोजम् २, भुक्त्वा २, भोजम् २, भोजयित्वा २, बुभुक्षम् २, बुभुक्षित्वा २, बोभुजम् २
बोभुजित्वा २
29 भुज्युः, 30 भुजिष्यम्-भुजिष्या।
01 (११६२)
02 (७-रुधादिः-१४५४। सक। अनि। पर।)
03 (श्लो। ६५)
04 [पृष्ठम्०९५७+ २५]
05 [[१। सन्नन्ते सर्वत्र ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, धातुजकारस्य षकारे, तस्य ‘षढोः कः सि’ (८-२-४१) इति ककारे च रूपनिष्पत्तिर्ज्ञेया।]]
06 [[२। शतरि, शपो रुधादित्वेन श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपे नकारस्य श्चत्वेन ञकारे च रूपमेवम्।]]
07 [[३। अभ्यवहारार्थे धातोरस्य ण्यन्तात्, ‘निगरणचलनार्थेभ्यः’ (१-३-८७) इति शतैव। ‘गतिबुद्धिप्रत्यवसानार्थ--’ (१-४-५२) इत्यादिना अणौ कर्तुः णौ कर्मसंज्ञाऽत्रेति विशेषः।]]
08 [[४। ‘भुजोऽनवने’ (१-३-६६) इत्यनेन अवनभिन्नार्थे आत्मनेपदं शानच्। ण्यन्तेऽपि पालनार्थे शानज्ज्ञेयः। सन्नन्तेऽपि पालनार्थे ‘पूर्ववत् सनः’ (१-३-६२) इति शानज्भवतीति बोध्यम्। धातूनामनेकार्थत्वात्, ‘भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी।’ (रामा-अर। ४७-४), ‘बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्।।’ (रघुवंशे। १५-१) इत्यादिषु, अनुभवार्थेऽपि आत्मनेपदं भवतीति बोध्यम्। स्पष्टमिदं माधवधातुवृत्तौ।]]
09 [[५। कर्मण्युपपदे ‘क्विप् च’ (३-२-७६) इति कर्तरि क्विप्। बलिभुक् = वायसः।]]
10 [[आ। ‘तूष्णीं प्रत्यभिजानते बलिभुजो भीताः स्वयूथ्यस्वरान्।।’ अनर्घराघवे ४। १।]]
11 [[६। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति कर्तरि क्तः।’ ‘प्रभुक्तो गोरसं कृष्णः प्रभुक्तोऽनेन गोरसः।’ इति प्र। सर्वस्वे। अस्य धातोर्भक्षणार्थकत्वात् ‘क्तोऽधि- करणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणेऽपि क्तप्रत्ययो बोध्यः। प्रत्यवसानार्थकाः = भक्षणार्थका धातवः।]]
12 [पृष्ठम्०९५८+ २९]
13 [[१। इगुपधलक्षणं कप्रत्ययं बाघित्वा ‘अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।’ (का। ३-१-१३४) इति वचनात् कर्तरि अच्प्रत्ययः।]]
14 [[२। विश्वं भुनक्ति इति विश्वभोजः। ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्ययः।]]
15 [[३। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिप्रत्ययः। एवं शीतभोजी, कलहभोजी इत्यत्रापि ज्ञेयम्। कलहं भुनक्ति = पालयति इति कलहभोजी = नारदः।]]
16 [[आ। ‘… पुरतोऽभवत् कलहभोजिनो मुनेः।।’ च। भा। ५। ५३।]]
17 [[४। ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः। सति भोजनेऽश्राद्धमेव भुङ्क्ते इत्यत्र व्रतं गम्यते। एव कांस्यभोजी इत्यत्रापि व्रते गम्ये णिनिप्रत्यय इति ज्ञेयम्।]]
18 (भोगं)
19 [[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति चानश्प्रत्ययः। ताच्छीलि- कोऽयं प्रत्ययः।]]
20 [[B। ‘बलात् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा।।’ भ। का। ४। २।]]
21 [[६। ‘भोज्यं भक्ष्ये’ (७-३-६९) इति ण्यति कुत्वाभावो निपात्यते। ‘भक्ष्ये’ इत्यत्रोपल क्षणं खादनसामान्यधर्मस्य। तेन ‘भोज्या यवागूः’ इत्यत्र पानार्थकस्यापि भोज्या इति सिद्ध्यति। भक्षणादिभिन्नार्थे तु ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे भोग्यः = कम्बलः इति सिद्ध्यति।]]
22 [[७। ‘भुजन्युब्जौ पाण्युपतापयोः’ (७-३-६१) इति पाणावभिधेये घञि कुत्वाभावः, गुणाभावश्च निपात्यते। भुज्यतेऽनेनेति भुजः = पाणिः। ‘बाहावभिधेये भुज इति प्रयोगो लाक्षणिकः।’ इति बृहच्छब्देन्दुशेखरे स्फुटम्। भुजादन्यत्र घञि कुत्वे भोगः = शरीरम्।]]
23 [[८। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। भोगः = स्त्रीभोगाज्जातोऽक्षिरोगविशेषः। कारणे कार्योपचारोऽत्र। भोगः = सर्पकायश्च।]]
24 [[९। पूर्वकालत्वाभावेऽपि शक्नोत्यर्थे ‘शकधृषज्ञा--’ (३-४-६५) इति तुमुन्प्रत्ययः।]]
25 [पृष्ठम्०९५९+ २६]
26 [[१। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक्प्रत्ययः। अन्नभोजिका इत्यत्र उत्पत्तिरूपार्थे ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति स्त्रियां ण्वुच्। ‘पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका।।’ इति प्र। सर्वस्वे।]]
27 [[आ। ‘अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया।।’ भ। का। ७। ८४।]]
28 [[२। ‘विभाषाऽग्रेप्रथमपूर्वेषु’ (३-४-२४) इति अग्रेप्रथमपूर्वशब्देषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ विकल्पेन भवतः।]]
29 [[३। ‘भुजिमृङ्भ्याम्--’ (द। उ। १-१३५) इति युक्प्रत्ययः। भुज्युः = गन्धर्वः।]]
30 [[४। ‘रुचिभुजिभ्यां किष्यन्’ (द। उ। ८-१५) इति किष्यन्प्रत्ययः। भुजिष्यम् = भोग्यम्। भुजिष्या = दासी।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
