| YouTube Channel

भोगदेहः (bhogadehaH)

 
Apte Hindi
Hindi
भोगदेहः
पुं*
भोग+देहः -
‘भोग शरीर’ सूक्ष्मशरीर या कारणशरीर जिसके द्वारा व्यक्ति परलोक में अपने पूर्वकृत शुभाशुभ कर्मो का सुखदुःख भोगता हैं
शब्दकल्पद्रुमः
Sanskrit
भोगदेहः,
पुं,
(भोगहेतुको भोगसाधको वा देहः ।)स्वर्गनरकभोगार्थं सूक्ष्मशरीरम् यथा, --“कृते सपिण्डीकरणे नरः संवत्सरात् परम् ।प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते
”इति श्राद्धतत्त्वम्
अपि ।“शृणु देहविवरणं कथयामि यथागमम् ।पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ।देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम्
पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् ।स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह
वृद्धाङ्गुष्टप्रमाणश्च यो जीवपुरुषः कृतः ।बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे
देहो भवेद्भस्म ज्वलदग्नौ यमालये ।जले नष्टो देही वा प्रहारे सुचिरे कृते
शस्त्रे चास्त्रे तीक्ष्णकण्टके तथा ।तप्तद्रवे तप्तलोहे तप्तपाषाण एव
प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि ।न दग्धो भग्नश्च भुङ्क्ते सन्तापमेव ।कथितं देहवृत्तान्तकारणञ्च यथागमम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २९ अध्यायः