| YouTube Channel

भृङ्गरजः (bhRGgarajaH)

 
Wordnet
Sanskrit
Synonyms:
केशराजः, भृङ्गराजः, भृङ्गः, पतङ्गः, मार्करः, मार्कवः, नागमारः, पवरुः, भृङ्गसोदरः, केशरञ्जनः, केश्यः, कुन्तलवर्धनः, अङ्गारकः एकरजः, करञ्जकः, भृङ्गरजः, भृङ्गारः, अजागरः, भृङ्गरजाः, मकरः
noun
वनस्पतिविशेषः।
"केशराजस्य उपयोगः औषधरूपेण क्रियते।"
Synonyms:
भ्रमरः, द्विरेफः, मधुव्रतः, मधुकरः, मधुलिट्, मधुपः, अलिः, अली, पुष्पलिट्, भृङ्गः, षट्पदः, कलालापकः, शिलीमुखः, पुष्पन्धयः, मधुकृत्, द्विपः, भसरः, चञ्चरिकः, सुकाण्डी, मधुलोलुपः, मधुमारकः, इन्दिन्दिरः, मधुपरः, लम्बः, पुष्पकीटः, मधुसूदनः, भृङ्गराजः, मधुलेही, रेणुवासः, कामुकः, कलिङ्गपक्षी, मार्कवः, भृङ्गरजः, अङ्गार्कः, भृङ्गारः
noun
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
"भ्रमराणां कदम्बः प्रियः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
भृङ्गरजः,
पुं,
(भृङ्गान् रञ्जयतीति अन्तर्भूत-ण्यर्थाद् रञ्जोऽच् पृषोदरादित्वात् नलोपः ।) भृङ्गराजः इति भावप्रकाशः
(यथा, --“भृङ्गरजत्रिफलोत्पलशारि-लौहपुरीषसमन्वितकारि
”इति वैद्यकचक्रपाणिसंग्रहे क्षुद्राधिकारे
)