| YouTube Channel

भूस्तृणं (bhUstRNaM)

 
शब्दकल्पद्रुमः
Sanskrit
भूस्तृणं,
क्ली,
(भूलग्नं तृणं भुवस्तृणमिति वा ।पारस्करादित्वात् सुट् ।) भूतृणम् इत्यमरः ।२ १६७
(यथा, मनौ १४
“वर्जयेन्मधुमांसञ्च भौमानि कवकानि ।भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि
”)अस्य पर्य्यायगुणा यथा, --“गुह्यवीजञ्च भूतीकं सुगन्धं गोमयप्रियम् ।भूस्तृणन्तु भवेच्छत्रा मालातृणकमित्यपि
भूस्तृणं कटुकं तिक्तं तीक्ष्णोष्णं रोचनंलघु ।विदाहि दीपनं रूक्षमनेत्र्यं मुखशोधनम् ।अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम्
”इति भावप्रकाशः