| YouTube Channel

भूर्लोकः (bhUrlokaH)

 
शब्दकल्पद्रुमः
Sanskrit
भूर्लोकः,
पुं,
(भूःसंज्ञको लोकः शाकपार्थिवादि-वत् समासः ।) अन्तरीक्षादधो लोकः मर्त्य-लोकः तस्य लक्षणं यथा, --“पादगम्यञ्च यत्किञ्चित् वस्त्वस्ति पृथिवीमयम् ।स भूर्लोकः समाख्यातो विस्तारोऽस्य मयो-दितः
”इति विष्णुपुराणे अंशे अध्यायः
चरणसञ्चारयोग्यं गिरिशिखरादि यावत् ताव-दुत्सेधो भूर्लोक इत्यर्थः विस्तारो मयोदितःसर्व्वतो लोकालोकावधिः पञ्चविंशतिकोटि-प्रमाणः इति तट्टीकायां स्वामी
अस्य विव-रणं तत्रैव द्वितीयादिचतुर्थाध्यायेषु भूगोल-शब्दे द्रष्टव्यम्
(यथा, भागवते ।५ ३८ ।भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्यनाभितः
”)