| YouTube Channel

भूतमण्डल (bhUtamaNDala)

 
वाचस्पत्यम्
Sanskrit
भूतमण्डल
न०
त० शा० ति० उक्ते पृथिव्यादीनां मण्डल-भेदे तत्स्वरूपं तत्रोक्तं यथा “वृत्तं दिवस्तत् षड्विन्दु-लाञ्छितं भातरिश्वनः त्रिलोणं स्वस्तिकोपेतं वह्ने-रर्द्धेन्दुसंयुतम् अम्भोभमम्भसो भूमेश्चतुरस्यं सवज्र-कम् तत्तद्भूतकमानानि मण्डमानि विदुर्बुधाः वर्णेःखैरञ्जितान्याहुः स्वस्यनामावृतान्यपि” “वर्णैः श्वेतादिभि-र्भूतवर्णैरजोभिरञ्जितानीति पदार्थादर्शः तत्रैतद्व्याख्याविस्तरेण दृश्या मन्त्रमहोदधौ तेषां स्पष्टं स्वरूपंकर्मविशेषे विनियोगश्चोक्तो यथा “अर्द्धचन्द्रनिभं पार्श्वद्वयेपद्मद्वयाङ्कितम् जलस्य मण्डलं प्रोक्तं प्रशस्तं शान्तिकर्मणि त्रिकोणं स्वस्तिकोपेतं वश्ये वह्नेस्तु मण्ड-लम् चतुरस्रं वज्रयुक्तं स्तम्भे भूमेस्तु मण्डलम् ।वृत्तं दिवस्तु विद्वेषे विन्दु षट्काङ्कितं तु तत् वायु-मण्डलमुच्चाटे मारणे वह्निमण्डलम्”