| YouTube Channel

भीष्मरत्न (bhISmaratna)

 
शब्दकल्पद्रुमः
Sanskrit
भीष्मरत्नं,
क्ली,
(भीष्मं भयानकं रत्नं दुर्लभत्वात् ।)हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषः ।तस्योत्पत्त्यादि यथा, --सूत उवाच ।“हिमवत्युत्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य ।सम्प्राप्तमुत्तमानामाकरतां भीष्मरत्नानाम्
शुक्लाः शङ्खाब्जनिभाः श्योनाकसन्निभाःप्रभावन्तः ।प्रभवन्ति ततस्तरुणा वज्रनिभा भीष्मपाषाणाः ।हिमाद्रिप्रतिबद्धं शुद्धमपि श्रद्धया विधत्ते यः ।भीष्ममणिं ग्रीवादिषु सम्पदं सर्व्वदा लभते
गुणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव ! ।विषाणि तानि नश्यन्ति सर्व्वाण्येव महीतले
”विषमानाबाधन्ते ये तमरण्यनिवासिनः समी-पेऽपि ।द्वीपिवृक्षशरभकुञ्जरसिंहव्याध्रादयो हिंस्राः
तस्योत्कवलितकृतिनो भवन्ति भयं चापिसमुपस्थितम् ।भीष्ममणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गुलित्रितयः ।पितृतर्पणे पितॄणां तृप्तिर्बहुवार्षिकी भवति
शाम्यन्त्युद्भूतान्यपि सर्पाण्डजाखुवृश्चिक-विषाणि ।सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति
सैबलबलाहकाभं परुषं पीतप्रभं प्रभाहीनम् ।मलिनद्युतिं विवर्णं दूरात् परिवर्जयेत् प्राज्ञः
मूल्यं प्रकल्प्यमेषां विबुधवरैर्देशकालविज्ञानात् ।दूरे भूतानां बहु किञ्चिन्निकटप्रसूतानाम्
”इति गारुडे भीष्मरत्नपरीक्षा नाम ७६ अः
वाचस्पत्यम्
Sanskrit
भीष्मरत्न हिमालयोत्तरदेशजातशुक्लबर्णप्रस्तरविशेषे ।तस्योत्पत्त्यादि यथा “सूत उवाच “हिमवत्यु-त्तरे देशे वीर्य्यं पतितं सुरद्विषस्तस्य सम्प्राप्तमुत्त-मानामाकरतां भीष्मरत्नानाम् शुक्लाः शङ्खाब्जनिभाःश्योनाकसन्निभाः प्रभावन्तः प्रभवन्ति ततस्तरुणावज्रनिभा भीष्मपाषाणाः हिमाद्रिप्रतिबद्धं शुद्धमपिश्रद्धया विधत्ते यः भीष्ममणिं ग्रीवादिषु सम्पदसर्वदा लभते प्रणयुक्तस्य तस्यैव धारणान्मुनिपुङ्गव! ।विधाणि तानि नश्यन्ति सर्वाण्येव महीतले विषमा नधाधन्ते ये तमरण्यनिवासिनः समीपेऽपि द्वीपिवृकशरभकुञ्जरसिंहधादयो हिंस्वाः तस्योत्कबलितकृतिनो पवन्ति भयं चापि समुपस्थितम् भीष्म-मणिर्गुणयुक्तः सम्यक् संप्राप्ताङ्गलित्रितयः पितृतर्पणेपितृणां तृप्तिर्बहुर्वार्षिकी भवति शाम्यन्त्युद्भूता-न्यपि सर्पाण्डजाखुवृश्चिकविषाणि सलिलाग्निवैरितस्करभयानि भीमानि नश्यन्ति सैबलयलाहकाभंपरुषं पीतप्रमं प्रभाहीनम् भलिनद्यतिं विवर्ण्णंदूरात् परिवर्जयेत् पाज्ञः मूल्यं प्रकल्प्यमेषां विबुध-वरैर्देशकालविज्ञानात् दूरे भूतानां बहु किञ्चिन्निकटप्र-सूतानाम्” गारुडे ७६ अ० भीष्ममण्यादयोऽप्यत्र