| YouTube Channel

भीमैकादशी (bhImaikAdazI)

 
Monier Williams Cologne
English
भीमैकादशी
f.
N.
of the 11th day in the light half of the month Māgha,
L.
(cf. भीम-द्वादशी).
शब्दकल्पद्रुमः
Sanskrit
भीमैकादशी,
स्त्री,
(भीमेनोपासिता एकादशी ।शाकपार्थिवादिवत् समासः ।) भैमी सा चमाघशुक्लैकादशी भीमद्बादशीत्वेन ख्याता ।यथा, --मत्स्य उवाच ।“पुरा रथन्तरे कल्पे परिपृष्टो महात्मना ।मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्
ब्रह्मोवाच ।कथमारोग्यमैश्वर्य्यमनन्तममरेश्वर ! ।स्वल्पेन तपसा देव ! भवेन्मोक्षोऽथ वा नृणाम्
किमज्ञातं मया देव ! त्वत्प्रसादादधोक्षज ! ।स्वल्पकेनापि तपसा महत् फलमिहोच्यते
मत्स्य उवाच ।इति पृष्टः विश्वात्मा ब्रह्मणा सोकभावनः ।उमापतिरुवाचेदं मनसः प्रीतिकारकम्
ईश्वर उवाच ।अस्माद्रथन्तरात् कल्पात् त्रयोविंशतिमो यदा ।वाराहो भविता कल्पस्तस्य मन्वन्तरे शुभे
वैवस्वताख्ये संजाते सप्तमे सप्तलोकधृक् ।द्वापराख्यं युगं तस्मिन् सप्तविंशतिमे तदा
तस्यान्ते महानीलो वासुदेवो जनार्द्दनः ।भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति
द्वैपायनो मुनिस्तद्वद्रौहिणेयोऽथ केशवः ।कंसादिदर्पमथनः केशवः शोकनाशनः
पुरी द्वारवती नाम सांप्रतं वा कुशस्थली ।दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः
त्वष्टा ममाज्ञया ब्रह्मन् ! करिष्यति जगत्पतेः
तस्यां कदाचिदासीनः सभायाममितद्युतिः ।भार्य्याभिर्वृष्णिभिः सार्द्ध्वं भूभृद्भिर्भूरिदक्षिणैः
कुरुभिर्देवगन्धर्व्वैरभितः कैटभार्द्दनः ।प्रवृत्तासु पुराणीषु धर्म्मसम्बन्धिनीषु
कथासु भीमसेनेन परिपृष्टः प्रतापवान् ।त्वया पृष्टस्य धर्म्मस्य रहस्थस्यास्य भेदकृत्
भविता तदा ब्रह्मन् ! कर्त्ता चैव वृकोदरः ।प्रवर्त्तकोऽस्य धर्म्मस्य पाण्डुसूनुर्महाबलः
तस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः ।मया दत्तः धर्म्मात्मा तेन चासौ वृकोदरः
अतीवान्नादशीलश्च नागायुतबलो महान् ।भविष्यत्यजरः साक्षात् कन्दर्प इव बुद्धिमान्
धार्म्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे ।इमं व्रतमशेषाणां व्रतानामधिकं यतः
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः ।अशेषयज्ञफलदमशेषाघविनाशनम्
अशेषदुष्टशमनमशेषसुरपूजनम्
पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् ।भविष्यञ्च भविष्याणां पुराणानां पुरातनम्
वासुदेव उवाच ।यद्यष्टमीचतुर्द्दश्यां द्वादशीष्वथ भारत ! ।अन्येष्वपि दिनर्क्षेषु शक्तस्त्वमुपोषितुम्
ततः पुण्यामिमां भीम ! तिथिं पापप्रणा-शिनीम् ।उपोष्य विधिनानेन गच्छेद्बिष्णोः परं पदम्
माघमासस्य दशमी यदा शुक्ला भवेत्तदा ।घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत्
तथैव विष्णुमभ्यर्च्य नमो नारायणाय ।कृष्णाय पादौ संपूज्य शिरः सर्व्वात्मनेति
वैकुण्ठायेति वै कण्ठमुरः श्रीवत्सधारिणे ।शङ्खिने चक्रिणे तद्वद्गदिने वरदाय वै
सर्व्वे नारायणस्यैवं संपूज्या बाहवः क्रमात् ।दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै
ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे ।नमो नीलाय वै जङ्घे पादौ विश्वसृजे पुनः
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये ।नमः पुष्ट्यै नमस्तुष्ट्यै धृष्ट्यै हृष्ट्यै तथा श्रियै
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे ।विषप्रमाथिने नित्यं गरुडञ्चाभिपूजयेत्
एवं संपूज्य गोविन्दमुमापतिविनायकौ ।गन्धैमांल्यैस्तथा धूपैर्भक्षैर्नानाविधैस्तथा
गव्येन पयसा सिद्धां कृशरामथ वाग्यतः ।सर्पिषा सह भुक्त्वा गत्वा शतपदं बुधः
न्यग्रोधन्दन्तधावनमथवा खादिरं बुधः ।गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः
ब्रूयात् सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ ।नमो नारायणायेति त्वामहं शरणं गतः
एकादश्यां निराहारः समभ्यर्च्य केशवम् ।रात्रिञ्च सकलां स्थित्वा स्नानञ्च पयसापि
सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः ।सहैव पुण्डरीकाक्ष ! द्वादश्यां क्षीरभोजनम्
करिष्यामि यतात्माऽहं निर्विघ्नेनास्तु तच्च मे ।एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः
*
श्रुत्वा प्रभाते संजाते नदीं गत्वा विशाम्पते ! ।स्नानं कृत्वा मृदा तद्वत् पाषण्डानभिवर्जयेत्
उपास्य सन्ध्यां विधिवत् कृत्वा पितृतर्पणम् ।प्रणम्य हृषीकेशममलञ्चाप्यनीश्वरम्
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः ।दशहस्तमथाष्टौ वा करान् कुर्य्याद्बिशाम्पते !
चतुर्हस्तां शुभां कुर्य्याद्वेदीमरिनिसूदन ! ।चतुर्हस्तप्रमाणञ्च विन्यसेत्तत्र तोरणम्
आरोप्य कलसं तत्र दिक्पालान् पूजयेत्ततः ।मासमात्रेण संपूर्णमधःकृष्णाजिने स्थितः
तस्य धाराश्च शिरसा धारयेत् सकलां निशाम् ।धाराभिर्भूरिभिर्भूरिफलं वेदविदो विदुः
यस्मात्तस्मात् कुरुश्रेष्ठ ! धारा धार्य्याः स्वश-क्तितः ।तथैव विष्णोः शिरसि क्षीरधाराः प्रपातयेत्
अरत्निमात्रं कुण्डञ्च कृत्वा तत्र त्रिमेखलम् ।योनिवक्त्रञ्च तं कृत्वा ब्राह्मणैर्यवसर्पिषी
तिलांश्च विष्णुदैवत्यैर्मन्त्रैरेकाग्निवत्तदा ।कृत्वा वैष्णवं सम्यक् चरुं गोक्षीरसंयुतम्
निष्पावार्द्धप्रमाणां षै धारामाज्यस्य पातयेत्
जलकुम्भान् महावीर ! स्थापयित्वा त्रयोदश ।भक्षैर्नानाषिधैर्युक्तान् सितवस्त्रैरलङ्कृतान् ।युतानौडुम्बरैः पात्रैः पञ्चरँत्नसमन्वितान्
चतुर्भिर्बह्वृचैर्होमस्तत्र कार्य्य उदङसुखैः ।रुद्रजापश्चतुर्भिश्च यजुर्व्वेदपरायणैः
वैष्णवानि सामानि चतुरः सामवेदिनः ।अरिष्टवर्द्धसहितान्यभितः परिपाठयेत्
एवं द्वादश तान् विप्रान् वस्त्रमाल्यानुलेपनैः ।पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः
वासोभिः शयनीयैश्च वित्तशाट्यविवर्जितः ।एवं क्षपातिवाह्या वै गीतमङ्गलनिस्वनैः ।उपाध्यायस्य पुनर्द्विगुणं सर्व्वमेव तु
*
ततः प्रभाते विमले समुत्थाय त्रयोदश ।गा वै दद्यात् कुरुश्रेष्ठ ! सौवर्णमुखसंयुताः
पयस्विनीः शीलवतीः कांस्यदोहनसंयुताः ।रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः
तांस्तु तेषां ततो भक्त्या भक्ष्यभोज्येन तर्पितान् ।कृत्वाथ ब्राह्मणान् सर्व्वानन्नैर्नानाविधैस्तथा
भुक्त्वा चाक्षारलवणमात्मना विसर्जयेत्
अनुगम्य पदान्यष्टौ पुत्त्रभार्य्यासमन्वितः ।प्रीयतामत्र देवेशः केशवः क्लेशनाशनः
शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः ।यथान्तरं पश्यामि तथा मे स्वस्ति चायुषः
एवमुच्चार्य्य तान् कुम्भान् गाश्चैव शयनानि ।वासांसि चैव सर्व्वेषां गृहाणि प्रापयेद्बुधः
अभावे बहुशय्यानामेकामपि मुसंस्कृताम् ।शय्यां दद्याद्गुरौ भीम ! सर्व्वोपस्करसंयुताम्
इतिहासपुराणानि वाचयित्वातिवाहयेत् ।तद्दिनं नरशार्दूल ! इच्छेद्बिपुलां श्रियम्
तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन ! विमत्सरः ।कुरु व्रतमिदं सम्यक् स्नेहाद्यद्वाक्यमीरितम् ।त्वया कृतमिदं वीर ! त्वन्नामाख्यं भविष्यति ।सा भीमद्वादशी ह्येषा सर्व्वपापहरा शुभा ।या तु कल्याणिनी नाम पुरा कल्पेषु पट्यते
”त्वमादिकर्त्ता भव शौकरेऽस्मिन्कल्पे महावीरवरप्रधान ! ।यस्याः स्मरणकीर्त्तनमप्यशेषंविनष्टपापस्त्रिदशाधिपः स्यात्
दृष्ट्वा यामप्सरसामपीशा-वेश्याकृतामप्यभवान्तरेषु ।आभीरकन्येति कुतूहलेनसैवोर्व्वशी संप्रति नाकपृष्ठे
जातापि सा वैश्यकुलोद्भवापिपुलोमकन्या पुरुहूतपत्नी ।तत्रापि तस्याः परिचारिकेयंमम प्रिया संप्रति सत्यभामा
स्नातः पुरा मण्डलमेष तद्ब-त्तेजोमयं देवशरीरमाप ।अस्याञ्च कल्याणतिथौ विवस्वान्सहस्रधारेण सहस्ररश्मिः
इदमेव कृतं महेन्द्रमुख्यै-र्वसुभिश्चैव पुरा सुरादिभिश्च ।फलमत्र शक्यतेऽभिवक्तुंयदि जिह्वाकोटयो मुखे स्युः
कलिकल्मषविदारिणीमनन्ता-मिति कथयिष्यति यादवेन्द्रसूनुः ।अपि नरकगतान् पितॄनशेषा-नलमुद्धर्त्तुमिहैव यः करोति
इदमनघं शृणोति चातिभक्त्यापरिपठतीह परोपकारहेतोः ।तिथिमिह सकलार्थभाङ्नरेन्द्र-स्तव चरणेन साम्यतामुपैति
कल्याणिनी नाम पुरा बभूवया द्वादशी माघदिनेऽभिपूज्या ।सा पाण्डुपुत्त्रेण कृता भविष्य-त्यनन्तपुण्यानघ ! भीमपूर्व्वा
”इति मत्स्यपुराणे भविष्यद्व्रतोद्देशे भीम-द्वादशी नाम ६५ अध्यायः
वाचस्पत्यम्
Sanskrit
भीमैकादशी स्त्री भीमेनोपास्या एकादशी शाक० त० ।माघशुक्लैकादश्याम् तत्कर्त्तव्यव्रतादिकं मत्स्यपु० ६५ अ०उक्तम्