| YouTube Channel

भासृ (bhAsR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भास्
मूलधातुः:
भासृ
धात्वर्थः:
दीप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
भासते
धातुप्रदीपः
Sanskrit
भासृँ भासृ दीप्तौ
- भाषते बभासे अबीभसत्। अबभासत् ।भास्वरः भञ्जभासमिदो घुरच् (3/2/191) भासुरम् ग्रह्यादिणिनिः-उद्भासी क्विप्-भाः, भासौ, भासः आत्मनेपदार्थमकारानुबन्धे कर्तव्य ऋकारानुबन्धकरणमस्य ऋकारानुबन्धप्रकरणात् एवञ्चानुबन्धान्तरकणञ्च प्रकरणानुरोधेन ।। 625।।
क्षीरतरङ्गिणी
Sanskrit
भासृँ भासृ दीप्तौ
- भासते भ्राजभास (743 इति वा ह्रस्वः-अबभासत् अबीभसत् भञ्जभासमिदो घुरच् (32161) भासुरः स्थेशभास (32 175) इति वरच्-भास्वरः भ्राजभास (32177) इति क्विप्-भाः भातेस् (244) तु भः, चिन्तिपूजि (33105) इति चकारादङ् गुरोश्च हलः (33103) इत्यप्रत्ययः भासा 616
धातुवृत्तिः
Sanskrit
भासृँ भासृ (अर्थः) दीप्तौ
( भाषते इत्यादि कासिवत् भासयति अबीभसत् अबभासत्)"भ्राजभास'' इत्युपधाह्रस्वविकल्पः, एवं चास्य ऋदित्त्वं तङ्मात्रफलम् अनुबन्धान्तराकरणं तु प्रकरणानुरोधात् (भास्वरः) "स्थेशभास''इत्यादिना तच्छीलादौ वरच् ( भाः भासौ भासः) "भ्राजभास'' इति ताच्छीलिकः कर्त्तरि क्विप् 615
कृदन्तरूपमाला
Sanskrit
1 {@“भासृ दीप्तौ”@} 2 भासकः-सिका, भासकः-सिका, बिभासिषकः-षिका, बाभासकः-सिका
इत्यादीनि सर्वाणि रूपाणि भौवादिककासतिवत् 3 बोध्यानि।
4 5 भासुरः 6, 7 भास्वरः 8, 9 भाः-भासौ-भासः, 10 भासा, ण्यन्तात् शतरि 11 उद्भासयन्, 12 उद्भासी, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(११५८)
02
=>
(१-भ्वादिः-६२४। अक। सेट्। आत्म।)
03
=>
(१८८)
04
=>
[पृष्ठम्०९५१+ ३१]
05
=>
[[१। ‘भञ्जभास--’ (३-२-१६१) इति घुरच्प्रत्ययः तच्छीलादिषु कर्तृषु भवति।]]
06
=>
[[आ। ‘सृमरोभङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः।’ भ। का। ७। २२।]]
07
=>
[[२। ‘स्थेशभास--’ (३-२-१७५) इति तच्छीलादिषु कर्तृषु वरच्प्रत्ययः। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति प्राप्तस्य युचोऽपवादोऽयम्। ‘नेड् वशि- कृति’ (७-२-८) इतीण्निषेधः।]]
08
=>
[[B। ‘अभीरुरवसं स्त्रीभिर्भास्वराभिरिहेश्वरः।।’ भ। का। ७। २५।]]
09
=>
[[३। तच्छीलादिषु कर्तृषु ‘भ्राजभास--’ (३-२-१७७) इत्यादिना क्विप्प्रत्ययः। ‘ताच्छीलिकेषु ताच्छीलिकाः वाऽसरूपेण भवन्ति, (भाष्यम्। ३-२-१५०) इति न्यायेनात्र क्विप्प्रत्ययोऽप्यस्य धातोः ताच्छीलिकेष्वेवार्थेषु भवतीति बोध्यम्।]]
10
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्यये रूपमेवम्।]]
11
=>
[[C। ‘कला दधानः सकलाः स्वभाभिः उद्भासयन् सौधसिताभिराशाः।’ शि। व। ३। ६०।]]
12
=>
[[५। ग्रह्यादित्वात् (३-१-१३४) णिनिप्रत्यये रूपमेवम्।]]