| YouTube Channel

भालकः-लिका (bhAlakaH-likA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भल परिभाषणहिंसादानेषु”@} 2 भालकः-लिका, भालकः-लिका, बिभलिषकः-षिका, बाभलकः-लिका
इत्यादीनि सर्वाण्यपि रूपाणि विशेषरूपाणि विना भौवादिककलतिवत् 3 ज्ञेयानि।
4 भालः, ण्यति- 5 आभाल्यः इति विशेषः।
प्रासङ्गिक्यः
01
=>
(११४८)
02
=>
(१-भ्वादिः-४९५। सक। सेट्। आत्म।)
03
=>
(१७४)
04
=>
[[२। ‘अकर्तरि कारके संज्ञायाम्’ (३-३-१९) इति संज्ञायां घञ्। भालः = ललाटः।]]
05
=>
[[C। ‘मामल्यमानं स्मितमल्लिकावलीमाभाल्यदैत्याधिपभल्लनोद्घुरम्।’ धा। का। १। ६४।]]
1 {@“भल आभण्डने”@} 2 आकुस्मीयः।
आभण्डनम् = निरूपणम्।
‘मार्जनम्’ इति धा।
का।
3।
भालकः-लिका, बिभालयिषकः-षिका, भालयिता-त्री, बिभालयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगालयतिवत् 4 ज्ञेयानि।
ल्युटि- 5 भालनम्।
प्रासङ्गिक्यः
01
=>
(११४९)
02
=>
(१०-चुरादिः-१७०१। अक। सेट्। आत्म।)
03
=>
(३-३६)
04
=>
(३८८)
05
=>
[[ड्। ‘… दुष्कीर्तिभालनपराः खलु कूटवृत्त्या।’ धा। का। ३। ३६।]]