भारतं (bhArataM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritभारतं, (भरतान् भरतवंशीयानधिकृत्य कृतोग्रन्थ इत्यण् । यद्बा, भारं चतुर्वेदादिशास्त्रे-भ्योऽपि सारांशं तनोतीति । तन् + डः ।)ग्रन्थभेदः । इति मेदिनी । ते, १३८ ॥
तत्तुव्यासप्रणीतलक्षश्लोकात्मकमहाभारतसंज्ञकेति-हासः । तस्य श्रवणादिफलं यथा, --“भारतं शृणुयान्नित्यं भारतं परिकीर्त्तयेत् ।भारतं भवने यस्य तस्य हस्तगतो जयः ॥
यो गोशतं कनकशृङ्गमयं ददातिविप्राय वेदविदुषे सुबहुश्रुताय ।पुण्याञ्च भारतकथां शृणुयाच्च नित्यंतुल्यं फलं भवति तस्य च तस्य चैव ॥
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ।ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठश्चतुष्पदाम् ।यथैतानीतिहासानां तथा भारतमुच्यते ॥
यश्चैनं श्रावयेत् श्राद्धे ब्राह्मणान् पादमन्ततः ।अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥
कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्वुते ।भ्रूणहत्याकृतञ्चापि पापं जह्यादसंशयः ॥
”इति महाभारतम् ॥
* ॥
तद्वृत्तान्तो यथा, --ब्रह्मोवाच ।“भारतं संप्रवक्ष्यामि भारावतरणं भुवः ।चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्त्रोऽत्रिरत्रितः ।सोमस्ततो बुधस्तस्मादुर्व्वश्यान्तु पुरोरवाः ॥
तस्माद्यस्तस्य पुत्त्रोऽभूद्ययातिर्भरतः कुरुः ।शान्तनुस्तस्य वंशेऽभूद्गङ्गायां शान्तनोः सुतः ॥
भीष्मः सर्व्वगुणैर्युक्तो ब्रह्मवैवर्त्तपारगः ।शान्तनोः सत्यवत्याञ्च द्वौ पुत्त्रौ संबभूवतुः ॥
चित्राङ्गदन्तु गन्धर्व्वः पुत्त्रं चित्ररथोऽवधीत् ।अन्यो विचित्रवीर्य्योऽभूत् काशिराजसुतापतिः ॥
विचित्रवीर्य्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ।धृतराष्ट्रोऽग्विकापुत्त्रः पाण्डुरम्बालिकासुतः ॥
भुजिव्यायान्तु विदुरो गान्धार्य्यां धृतराष्ट्रतः ।दुर्य्योधनप्रधानास्तु शतसंख्या महाबलाः ॥
पाण्डोः कुन्त्याञ्च माद्य्राञ्च पञ्च पुत्त्राः प्रजज्ञिरे ।युधिष्ठिरो भीमसेनः अर्ज्जुनो नकुलस्तथा ।सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥
कुरुपाण्डवयोर्वैरं दैवयोगाद्बभूव ह ।दुर्य्योधनेन वीरेण पाण्डवाः स्रमुपद्रुताः ।दग्धा जतुगृहे वीरास्ते मुक्ताः सुधियामलाः ॥
ततस्त एकचक्रायां ब्राह्मणस्य निवेशने ।विप्रवेशा महात्मानो निहत्य वकराक्षसम् ॥
ततः पाञ्चालविषये द्रौपद्यास्ते स्वयंवरम् ।विज्ञाय वीर्य्यशुल्कां तां पाण्डवा उपयेमिरे ॥
द्रोणभीष्मानुमत्या च धृतराष्ट्रः समानयत् ।अर्द्धं राज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥
राजसूयं ततश्चक्रुः सभां कृत्वा यतव्रताः ।अर्ज्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान् प्रियाम् ॥
वासुदेवस्य भगिनीं मित्रं देवकिनन्दनम् ॥
गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् ।अक्षयान् शायकांश्चैव तथाभेद्यञ्च दंशनम् ॥
स तेन धनुषा वीरः पाण्डवो जातवेदसम् ।कृष्णद्वितीयो वीभत्सुरतर्पयत वीर्य्यवान् ॥
नृपान् दिग्विजये जित्वा रत्नान्यादाय वै ददौ ।युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥
युधिष्ठिरोऽपि धर्म्मात्मा भ्रातृभिः परिवारितः ।जितो दुर्य्योधनेनैव मायाद्यूतेन पापिना ।कर्णदुःशासनमते स्थितेन शकुनेर्मते ।अथ द्वादशवर्षाणि वने तेपुर्म्महत्तपः ॥
सधौम्या द्रौपदीसत्या मुनिवृन्दाभिसंवृताः ।ययुर्विराटनगरं गुप्तरूपेण संस्थिताः ॥
वर्षमेकं महाप्राज्ञा गोग्रहादिमपालयन् ।ततो ज्ञाताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः ॥
पञ्च ग्रामानर्द्धराज्यं वीरा दुर्य्योधनं नृपम् ।नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः ॥
अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः ।एकादशभिरुद्युक्तास्तेऽपि दुर्य्योधनादयः ॥
आसीद्युद्धं स्वर्गमार्गं देवासुरबलोपमम् ।भीष्मः सेनापतिरभूदादौ दौर्य्योधने बले ॥
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।शस्त्राशस्त्रैर्महाघोरं दशरात्रं शराशनिः ॥
शिखण्ड्यर्ज्जुनबाणैश्च भीष्मः शरशितैश्चितः ।उत्तरायणमीक्ष्याथ ध्यात्वा देवं गदाधरम् ॥
उक्त्वा धर्म्मान् बहून् वर्षांस्तर्पयित्वा पितॄन्बहून् ।आनन्दे तु पदे लीनो विमले मुक्तकिल्विषे ॥
ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन वीर्य्यवान् ।दिनानि पञ्च तद्युद्धमासीत् परमदारुणम् ॥
य एते पृथिवीपाला हताः पार्थास्त्रसागरे ।शोकमासाद्य पुत्त्रेण द्रोणोऽपि स्वर्गमाप्नुयात् ॥
ततः कर्णो ययौ योद्धुमर्ज्जुनेन महात्मना ।दिनद्वयं महद्युद्धं कृत्वा पार्थास्त्रसागरे ॥
निमग्नः सूर्य्यलोकन्तु ततः प्राप स वीर्य्यवान् ।ततः शल्यो ययौ योद्धुं धर्म्मराजेन धीमता ॥
दिनार्द्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः ।दुर्य्योधनोऽथ वेगेन गदामादाय वीर्य्यवान् ॥
अभ्यधावत वै भीभं कालान्तकयमोपमम् ।अथ भीमेन वीरेण गदया विनिपातितः ॥
अश्वत्थामा ततो द्रौणिः सुप्तं सैन्यं ततो निशि ।जघान बाहुवीर्य्येण पितुर्व्वधमनुस्मरन् ॥
धृष्टद्युम्न जघानाथ द्रौपदेयांश्च वीर्य्यवान् ।द्रौपद्यां रोदमानायामश्वत्थाम्नः शिरोमणिम् ।ऐषीकास्त्रेण तं जित्वा जग्राहार्ज्जुन उत्तमम् ॥
युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसङ्कुलम् ।स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान् ।आश्वासितोऽथ भीष्मेण राज्यञ्चैवाकरोन्महत् ॥
विष्णुमीजेऽश्वमेधेन विधिवद्दक्षिणावता ।राज्ये परिक्षितं स्थाप्य यादवानां विनाशनम् ॥
श्रुत्वा तु मौषले राजा जप्त्वा नामसहस्रकम् ।विष्णोः स्वग जगामाथ भीमाद्यैर्भ्रातृभिर्युतः ॥
”इति गारुडे १५० अध्यायः ॥
* ॥
वर्षभेदः । इति मेदिनी ॥
स तु जम्बुद्वीपस्यनववंर्षान्तर्गतनवमवर्षः । तद्विवरणं यथा, --“उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! ।कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम् ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ।बिन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्व्वताः ॥
अतः संप्राप्यते स्वर्गो मुक्तिमस्मात् प्रयान्ति च ।तिर्य्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ! ॥
इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तश्च गम्यते ।न खल्वन्यत्र मर्त्यानां कर्म्मभूमौ विधीयते ॥
भारतस्यास्य वर्षस्य नव भेदान्निशामय ।इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गान्धर्व्वस्त्वथ वारुणः ।अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः ॥
योजनानां सहस्रन्तु द्बीपोऽयं दक्षिणोत्तरात् ।पूर्व्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥
ब्राह्मणाः क्षत्त्रिया वैश्या मध्ये शूद्राश्च भागशः ।इज्यायुद्धबणिज्याद्यैर्व्वर्त्तयन्तो व्यवस्थिताः ॥
शतद्रुश्चन्द्रभागाद्या हिमवत्पादनिःसृताः ।वेदस्मृतिमुखाश्चान्याः पारिपात्रोद्भवा मुने ! ॥
नर्म्मदासुरसाद्याञ्च नद्यो बिन्ध्यविनिःसृताः ।तापी पयोष्णी निर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥
गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा ।सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥
कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः ।त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥
ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसम्भवाः ।आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः ॥
तास्विमे कुरुपाञ्चालमध्यदेशादयो जनाः ।पूर्व्वदेशादिकाश्चैव कामरूपनिवासिनः ॥
ओड्राः कलिङ्गा मगधा दाक्षिणात्याश्च कृत्-स्नशः ।तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्व्वुदाः ॥
मारुका मालवाश्चैव पारिपात्रनिवासिनः ।सौवीराः सैन्धवा हूणाः शाल्वाः शाकल-वासिनः ॥
मद्रा रामास्तथाम्बष्ठाः पारसीकादयस्तथा ।आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥
समीपतो महाभाग ! हृष्टपुष्टजनाकुलाः ।चत्वारि भारते वर्षे युगान्यत्र महामुने ! ॥
कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ।तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ॥
दानानि चात्र दीयन्ते परलोकार्थमादरात् ।पुरुषैर्यज्ञपुरुषो जम्बुद्बीपे सदेज्यते ॥
यज्ञैर्यज्ञपतिर्विष्णुरन्यद्वीपेषु चान्यथा ।तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ! ॥
यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ।अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ! ।कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥
गायन्ति देवाः किल गीतकानिधन्यास्तु ये भारतभूमिभागे ।स्वर्गापवर्गास्पदमार्गभूतेभवन्ति भूयः पुरुषाः सुरत्वात् ॥
कर्म्माण्यसङ्कल्पिततत्फलानिसंन्यस्य विष्णौ परमात्मरूपे ।अवाप्य तां कर्म्ममहीमनन्तेतस्मिल्लयं ये त्वमलाः प्रयान्ति ॥
जानीम नैतत् क्व वयं विलीनेस्वर्गप्रदे कर्म्मणि देहबन्धम् ।प्राप्स्याम धन्याः खलु ते मनुष्याये भारते नेन्द्रियविप्रहीनाः ॥
नववर्षन्तु मैत्रेय ! जम्बुद्वीपमिदं मया ।लक्षयोजनविस्तारं संक्षेपात् कथितं तव ॥
जम्बूद्बीपं समावृत्य लक्षयोजनविस्तरः ।मैत्रेय ! वलयाकारः स्थितः क्षारोदधिर्बहिः ॥
”इति श्रीविष्णुपुराणे २ अंशे ३ अध्यायः ॥
* ॥
आस्मिन् वर्षे जन्मकारणं तत्साफल्यञ्च यथा, --“शतजन्मतपः कृत्वा जन्मेदं भारते लभेत् ।करोति सफलं जन्म श्रुत्वा हरिकथामृतम् ॥
अर्च्चनं वन्दनं मन्त्रजपः सेवनमेव च ।स्मरणं कीर्त्तनं शश्वद्गुणश्रवणमीप्सितम् ॥
निवेदनं स्वस्य दास्यं नवधा भक्तिलक्षणम् ।करोति सफलं जन्म कृत्वैतानि च भारते ॥
” * ॥
अस्य पुण्यस्थलत्वं कर्म्मभूमित्वं परिमाणञ्चयथा, --“कर्म्मणां फलभोगश्च सर्व्वेषां सुरसुन्दरि ! ।नैव स्वर्गे न पाताले नान्यद्वीपे श्रुतौ श्रुतम् ॥
कृत्वा शुभाशुभं कर्म्म पुण्यक्षेत्रे च भारते ।अन्यत्र तत्फलं भुङ्क्ते कर्म्मी कर्म्मनिबन्धनात् ॥
हिमालयादासमुद्रं पुण्यक्षेत्रञ्च भारतम् ।श्रेष्ठं सर्व्वस्थलानाञ्च मुनीनाञ्च तपःस्थलम् ॥
लब्ध्वा तत्र जन्म जीवो वञ्चोतो विष्णुमायया ।शश्वत् करोति विषयं विहाय सेवनं हरेः ॥
कृत्वा तत्र महत् पुण्यं स्वर्गं गच्छति पुण्यवान् ।गृहीत्वा स्वर्गकन्याश्च चिरं स्वर्गे प्रमोदते ॥
स्वर्गमागच्छति नरो विहाय मानवीं तनूम् ॥
”इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे । १ । ५९ ।अध्यायौ ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
