| YouTube Channel

भाटकः (bhATakaH)

 
Wordnet
Sanskrit
Synonyms:
भाटकः, भाटकम्
noun
किमपि वस्तुम् उपयोक्तुं स्वामिने दत्तं धनम्।
"सः अस्य गृहस्य सहस्ररूप्यकाणि भाटकं गृह्णाति।"
शब्दकल्पद्रुमः
Sanskrit
भाटकः,
पुं,
क्ली,
(भटतीति भट पोषणे + ण्वुल् ।)व्यवहारार्थं दत्तशकटादिलभ्यधनम् इतिहलायुधः
भाडा इति माषा
अथ गृहादि-भाटकम् ।“परभूमौ गृहं कृत्वा भाटयित्वा वसेत्तु यः ।स तद्गृहीत्वा निर्गच्छेत्तृणकाष्ठेष्टकादिकम्
स्तोमं विना वसित्वा तु परभूमावनिच्छतः ।निर्गच्छंस्तृणकाष्ठानि गृह्णीयात् कथञ्चन
”कात्यायनः ।“गृहवाप्यापणादीनि गृहीत्वा भाटकेन यः ।स्वामिनो नार्पयेद्यावत्तावद्दाप्यः भाटकम्
”वापी परकृता प्रतिष्ठितेति विवक्षितम् ।“हस्त्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन यः
स्वामिनो नार्पयेद्यावत् तावद्दाप्यः भाट-कम्
”वृद्धमनुः ।“यो भाटयित्वा शकटं नीत्वा नान्यत्र गच्छति ।भाटं दद्याद्दाप्योऽसावनूढस्यापि भाटकम्
”शकटं वृषनौकादेरप्युपलक्षणम् अनूढस्या-वाहितस्यापि शकटादेः इति विवादचिन्ता-मणिः