| YouTube Channel

भसन्धि (bhasandhi)

 
वाचस्पत्यम्
Sanskrit
भसन्धि
पु०
त० नक्षत्रभेदानां सन्ध्यात्मके कालभेदे यथोक्तम्“सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादाः भसन्धयः तद-ग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्त्यते” सू० सि० ।अश्लेषाज्येष्ठारेवतीनक्षत्राणामन्त्याश्चतुर्थाश्चरणाः नक्षत्रसन्धयो भवन्ति तदग्रभेषु तेषामश्लेषाज्येष्ठारेवतीनक्ष-त्राणामुत्तरेषु मथामूलाश्विनीनक्षत्रेष्वित्यर्थः प्रथमचरणोगण्डान्तं नाम प्रसिद्धमुच्यते यद्यप्यश्लेषाज्येष्ठारेवती-नक्षत्राणामन्तिमं घटिकाद्वयं मघामूलाश्विनीनक्षत्राणा-मादिमं घटिकाद्वयमिति चतस्रोऽन्तरघटिका गण्डान्तम् ।एतदतिरिक्तो नक्षत्रसन्धिः पूर्वनक्षत्रान्तघटिकोत्तरनक्षत्रा-दिमघटिकेत्यन्तरालघटिकाद्वयं चन्द्रमण्डलसम्बन्धेन घ-टिकाः सार्द्धद्वयमिति संहिताविरुद्धं तथापि सूर्य्योक्तस्यस्वतः प्रामाण्यान्न क्षतिः अथविअकवाक्यतार्थं पादशब्दःकरमेत्रादिवद् द्विसङ्ख्यावाचकः घटिका इत्यध्या-हारश्च तथा द्विसङ्क्यामिता अन्त्यघटिकानक्षत्र-सन्धिः” रङ्ग० नक्षत्रयोः सन्धिकाले तदानयनं सि०शि० दर्शितं तच्च तिथिसन्धिशब्दे ३३०० पृ० दर्शितम्