| YouTube Channel

भद्रः (bhadraH)

 
Apte Hindi
Hindi
भद्रः
पुं*
- "भन्द्+रक्, नि० नलोपः"
बैल
भद्रः
पुं*
- "भन्द्+रक्, नि० नलोपः"
एक प्रकार का खंजन पक्षी
भद्रः
पुं*
- "भन्द्+रक्, नि० नलोपः"
विशेष प्रकार का हाथी
भद्रः
पुं*
- "भन्द्+रक्, नि० नलोपः"
"छद्मवेषी, पाखंडी"
भद्रः
पुं*
- "भन्द्+रक्, नि० नलोपः"
शिव का नामान्तर
भद्रः
पुं*
- "भन्द्+रक्, नि० नलोपः"
मेरुपर्वत का विशेषण
भद्रः
पुं*
- "भन्द्+रक्, नि० नलोपः"
एक प्रकार का कदम्बवृक्ष
Wordnet
Sanskrit
Synonyms:
भद्रः, तुषितः
noun
स्वायम्भुवमन्वन्तरे विष्णोः जातः देवगणभेदः।
"भद्रस्य वर्णनं पुराणेषु प्राप्यते।"
Synonyms:
भद्रः
noun
बलदेवस्य सहोदरः।
"भद्रस्य वर्णनं पुराणेषु प्राप्यते।"
Synonyms:
भद्रः
noun
दिग्गजविशेषः।
"उत्तरदिशः दिग्गजः भद्रः अस्ति।"
Synonyms:
भद्रः
noun
विष्णोः द्वारपालः।
"भद्रस्य वर्णनं पुराणेषु प्राप्यते।"
Synonyms:
वृषभः, ऋषभः, वृषः, पुङ्गवः, बलीवर्दः, उक्षा, सौरभेयः, गोनाथः, ककुद्मान्, भद्रः, उस्रः
noun
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
"वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Synonyms:
भद्रः
noun
बाणस्य मित्रम्
"भद्रस्य उल्लेखः वासवदत्तायां वर्तते"
Synonyms:
भद्रः
noun
उपचारुमतः पुत्रः
"भद्रस्य उल्लेखः बौद्धसाहित्ये वर्तते"
Synonyms:
भद्रः
noun
नवबलेषु एकः
"भद्रः इति तृतीयः बलः अस्ति"
Synonyms:
भद्रः
noun
कृष्णस्य पुत्रः
"भद्रस्य उल्लेखः भागवतपुराणे वर्तते"
Synonyms:
भद्रः
noun
एका जातिः
"भद्रस्य उल्लेखः अथर्ववेदपरिशिष्टे वर्तते"
Synonyms:
भद्रः
noun
क्षुपनामविशेषः
"नैकेषां क्षुपाणां नाम भद्रः इति वर्तते"
Tamil
Tamil
ப4த்3ர: : எருது, ஒரு வகை யானை, சிவனின் பெயர்.
शब्दकल्पद्रुमः
Sanskrit
भद्रः,
पुं,
(भन्द ते इति भदि + रन् निपातितश्च ।)शिवः स्वञ्जरीटः वृषभः कदम्बकः करि-जातिविशेषः इति मेदिनी रे, ७०
नव-शुक्लावलान्तर्गतजिनभेदः रामचरः सुमेरुः ।इति हेमचन्द्रः
स्नुही इति राजनिर्घण्टः
(चन्दनम् तत्पर्य्यायो यथा, --“श्रीखण्डं चन्दनं नस्त्री भद्रः श्रीस्तैलपर्णिकः ।गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)साध्यमौलिकानां पद्धतिविशेषः यथा, --विष्णुर्नागः खिलपिलगूतैन्द्रो गुप्तः पालो भद्रः ।इति कुलाचार्य्यकारिका
(वसुदेवस्य पुत्त्र-भेदः यथा, भागवते २४ ४७ ।“सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव ।पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन्
”सरोवरविशेषः यथा, मत्स्यपुराणे ११२ ४६ ।“अरुणोदं मानसञ्च सितोदं भद्रसंज्ञितम् ।तेषामुपरि चत्वारि सरांसि वनानि
”तृतीयमनोरुत्तमस्यान्तरे देवगणभेदे बहुवच-नान्तोऽयम् यथा, भागवते २४ ।“वशिष्ठतनयाः सप्त ऋषयः प्रमदादयः ।सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित्
”स्वायम्भुवमन्वन्तरे विष्णोर्दक्षिणागर्भजात तुषित-नामकदेवगणभेदः यथा, भागवते ६-७ ।“तां कामयानां भगवानुवाह यजुषां पतिः ।तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान्
तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः
इध्मः कविर्विभुः स्वाह्रः सुदेवो रोचनो द्विषट्
”पर्व्वतविशेषः यथा, ब्रह्माण्डपुराणे भुवन-कोषे ४० अध्याये ।“अरक्षः शिखिरौतश्च सको वैदूर्य्यपर्व्वतः ।कपिलः पिङ्गलो भद्रः सुरसश्च महाचलः
”एकादशद्वापरजातो महेश्वरस्य ऋषिमूर्त्त्यव-तार विशेषः यथा, ब्रह्माण्डे २७ अध्याये ।“एकादशद्वापरे तु व्यासस्तु त्रिवृषो यदा ।तदाप्यहं भविष्यामि गङ्गाद्वारे युगान्तिके
भद्रो नाम महातेजास्तत्रापि मम पुत्त्रकाः ।भविष्यन्ति महात्मानो सुवृत्ता वेदपारगाः
”)
भद्रः, त्रि, (भन्दते इति भदि कल्याणे रन् ।निपात्यते ।) श्रेष्ठः साधुः इति मेदिनी ।रे, ७२
(यथा, पञ्चतन्त्रे २६ ।“भद्र ! कण्टक ! अयं तावदस्मत्स्वामी पिङ्गलकउदकग्रहणार्थं यमुनाकच्छमवतीर्य्य स्थितः
”)