| YouTube Channel

भचक्रं (bhacakraM)

 
शब्दकल्पद्रुमः
Sanskrit
भचक्रं,
क्ली,
(भानां राशीनां चक्रम् भानांस्वस्वसंस्थानविशेषैर्विरचितो गोलाकारःपदार्थः ।) राशिचक्रम् यथा, --“भ्रमावर्त्तो भचक्रेऽस्मिन् ध्रुवो नाभौ व्यवस्थितः ।आराचक्रे त्विन्दुभौमौ शुक्रजीवशनैश्चराः
राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः ।यदा दिक्षु अष्टासु मेरोर्भूगोलकोद्भवा
छाया भवेत्तदा रात्रिः स्याच्च तद्विरहा-द्दिनम् ।सूर्य्येन्दोरुपरागस्तु गोलकच्छायया भवेत्
अन्योन्ययोस्तयोरेव व्यापयोरेव कारणात्
ग्रासमोक्षौ तु जायेते तत्रातः पूर्व्वपश्चिमौ
तत्र पुण्यफलाद्भागः कृतो राहोस्तु विष्णुना
”इत्याद्ये वह्निपुराणे गणभेदनामाध्यायः
*
अथ भचक्रभ्रमणव्यवस्थामाह ।“निरक्षदेशे क्षितिमण्डलोपगौध्रुवौ नरः पश्यति दक्षिणोत्तरौ ।तदाश्रितं खे जलयन्त्रवत् सदाभ्रमद्भचक्रं निजमस्तकोपरि
उदग्दिशं याति यथा यथा नर-स्तथा तथा खान्नतमृक्षमण्डलम् ।उदग्ध्रुवं पश्यति चोन्नतं क्षिते-स्तदन्तरे योजनजाः पलांशकाः
योजनसंख्या भांशै ३६० र्गुणिताकुपरिधिहृता ४९६७ भवन्त्यंशाः ।भूमौ कक्षायां वा भागेभ्योयोजनानि व्यस्तम्
”इति सिद्धान्तशिरोमणौ गोलाध्यायः
(भानां नक्षत्राणां चक्रमितिविग्रहे नक्षत्र-चक्रम् नक्षत्रसमूहश्च
)