| YouTube Channel

भगोलः (bhagolaH)

 
Apte Hindi
Hindi
भगोलः
पुं*
भः+गोलः -
तारामंडल
शब्दकल्पद्रुमः
Sanskrit
भगोलः,
पुं,
(भानां नक्षत्राणां गोलः नक्षत्र-समूहेन विरचितः गोलाकारः पदार्थ इत्यर्थः ।)भपञ्जरम् नक्षत्रचक्रम् यथा इदानींभगोलमाह ।“याम्योत्तरक्षितिजवत् सुदृढं विदध्या-दाधारवृत्तयुगलं ध्रुवयष्टिबद्धम् ।षष्ट्यङ्कमत्र सममण्डलवत्तृतीयंनाड्याह्वयञ्च विषुवद्बलयं तदेव
”यथा खगोले क्षितिजं याम्योत्तरञ्च तदाकार-मपरमाधारवृत्तद्वयं ध्रुवयष्टिस्थं कृत्वा तदुपरिअन्यत्तृतीयं सममण्डलाकारं घटीषष्ट्या चाङ्कितंकार्य्यं तन्नाडीवृत्तं विषुवत् वृत्तसंज्ञम्
*
इदानीं क्रान्तिवृत्तमाह ।“क्रान्तिवृत्तं गृहाङ्कं विधेयं भ्रम-त्यत्र भानुश्चं भार्द्धे कुभा भानुतः ।क्रान्तिपातः प्रतीपं तथा प्रस्फुटाक्षेपपातश्च तत्स्थानकान्यङ्कयेत्
अथान्यत्तत्प्रमाणमेव वृत्तं कृत्वा तत्रमेषादीन् प्रकल्प्य द्बादशराशयोऽङ्क्याः
”तत्क्रान्तिवृत्तसंज्ञम् तस्मिन् वृत्ते रविर्भ्रमतितथा रवेर्भार्द्धान्तरे भूभा तथा तत्रक्रान्तिपातो मेषादिर्विलोमं भ्रमति तथाग्रहाणां विक्षेपपाताः प्रस्फुटा विलोमं भ्रमन्ति ।अतः क्रान्तिपातादीनि स्थानानि तत्राङ्क्यानि
इदानीं क्रान्तिवृत्तनिवेशमाह ।“क्रान्तिपाते पाताद्भषट्कान्तरेनाडिकावृत्तलग्नं विदध्यादिदम् ।पाततः प्राक् त्रिभे सिद्धभागैरुदग्दक्षिणे तैश्च भागैर्विभागेऽपरे
”क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यच्चिह्नं कार्य्यम् ।ते चिह्रे नाडीवृत्तेन संसक्ते कृत्वा पातचिह्रा-दग्रतः त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुर्विंशत्याउत्तरतो यथा भवति अपरभागे त्रिभेऽन्तरेदक्षिणतश्च तैर्मार्गैर्यथा भवति तथा बध्नी-यात्
*
इदानीं विमण्डलमाह ।“नाडिकामण्डले क्रान्तिवृत्तं यथाक्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत् ।क्षेपवृत्तन्तु राश्यङ्कितं तत्र चक्षेपपातेषु चिह्नानि कृत्तोक्तषत्
क्रान्तिवृत्तस्य विक्षेपवृत्तस्य चक्षेपपाते सषड्भे कृत्वा युतिम् ।क्षेपपाताग्रतः पृष्ठतश्च त्रिभेक्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत्
शीघ्रकर्णेन भक्तास्त्रिभज्या गुणाःस्युः परक्षेपभागा ग्रहाणां स्फुटाः ।क्षेपवृत्तानि षण्णां विदध्यात् पृथक्स्वस्ववृत्ते भ्रमन्तीन्दुपूर्व्वा ग्रहाः
”अस्य श्लोकस्य समग्रस्य व्याख्यानम् यथाक्रान्तिवृत्तं पृथक् कृतं एवं विमण्डलमपिराश्यङ्कं पृथक् पृथक् कृत्वा तत्र मेषादेर्व्यस्तंस्फुटक्षेपपातं दत्त्वाग्रे चिह्नं कार्य्यम् अथक्रान्तिवृत्तस्य बिमण्डलस्य क्षेपपातचिह्नयोःसम्पातं कृत्वा तस्मात् षड्भेऽन्तरे अन्यञ्चसम्पातं कृत्वा क्षेपपाताग्रतस्त्रिभेऽन्तरे क्रान्ति-वृत्तादुत्तरतः स्फुटैः क्षेपभागैः पृष्ठतश्च त्रिभे-ऽन्तरे तैरेव भागैर्दक्षिणतः स्थिरं कृत्वा विम-ण्डलं निवेशनीयम् अथ पठिता ये विक्षेप-भागास्ते त्रिज्या गुणाः शीघ्रकर्णेन भक्ताःस्फु टा ज्ञेयाः
*
अथानुपातः यदि कर्णाग्रंएतावदन्तरं तर्हि त्रिज्याग्रे कियदिति यतोभगोले त्रिज्यैव व्यासार्द्धम् एवं चन्द्रादीनां षट्विमण्डलानि कार्य्याणि स्वस्वविमण्डले ग्रहाभ्रमयन्ति
इदानीं क्रान्तिं विक्षेपञ्चाह ।“नाडिका मण्डला तिर्य्यगत्रापमःक्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः ।क्षेपवृत्तावधितिर्य्यगेव स्फुटोनाडिकावृत्तखेटान्तरालेऽपमः ।क्रान्तिवृत्ते स्फु टग्रहस्थानं तस्यनाडीवृत्ताद्यत्तिर्य्यगन्तरं सा क्रान्तिः
”अथ विमण्डले यद्ग्रहस्थानं तस्य क्रान्ति-वृत्तात् यत्तिर्य्यगन्तरं विक्षेपः अथ विम-ण्डलस्थग्रहस्य नाडीवृत्ताद्यत्तिर्य्यगन्तरं सास्फु टा क्रान्तिः
*
इदानीं क्रान्तिपातमाह ।विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातःस्यात् तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयंकल्पे
अयनचलनं यदुक्तं मुञ्जालाद्यैः सएवायम् तत्पक्षे तद्भगणाः कल्पे गोऽङ्गर्त्तु-नन्दगोचन्द्राः १९९६६९
तत् सञ्जातं पातंक्षिप्त्वा खेटेऽपमः साध्यः क्रान्तिवशात्तच्चर-मुदयाश्चरदललग्नापमे ततः क्षेप्याः क्रान्त्यर्थ-पातः क्रान्तिपातः पातो नामसन्यातः कयोःविषुवत्क्रान्तिबलययोः नहि तयोर्मेषादावेवसम्पातः किन्तु तस्यापि चलनमस्ति येअयनचलबभागाः प्रसिद्धास्त एव विलोमगस्यक्रान्तिपातस्य भागाः मेषादेः पृष्ठतस्ता-बद्भागान्तरे क्रान्तिवृत्ते विषुवद्वृत्तं लग्न-मित्यर्थः नहि क्रान्तिपातोऽस्तीति वक्तुं नशक्यते प्रत्वक्षेण तस्योपलब्धत्वात् उप-लब्धिप्रकारमग्रे वक्ष्यति कथं ब्रह्मगुप्ता-दिभिर्निपुणैरपि नोक्त इति चेत् तदास्वल्पत्वात्तैर्नोपलब्धः इदानीं बहुत्वात्साम्प्रतैरुपलब्धः अतएव तस्य गतिरस्तीत्यव-गतम् यद्येवमप्यनुपलब्धोऽपि सौरसिद्धा-न्तोक्तत्वादागमप्रामाण्येन भगणपरिध्यादिवत्कथं तैर्नोक्तः सत्यम् अत्र गणितस्कन्धेउपपत्तिमानेवागमः प्रमाणम् तर्हि मन्दोच्च-पातभगणा आगमप्रामाण्येनैव कथं तैरुक्ताइति वक्तव्यम् यतो ग्रहाणां मन्दफला-भावस्थानानि प्रत्यक्षेणैवोपलभ्यन्ते तान्येवमन्दोच्चस्थानानि यान्येव विक्षेपाभावस्थानितान्येव पातस्थानानि किन्तु तेषां गतिरस्तिनास्ति वेति सन्दिग्धम् तत्र मन्दोच्चपातानांगतिरस्ति चन्द्रमन्दोच्चपातवदित्यनुमानेनसिद्धा सा कियती तदुच्यते यैर्भगणैरुप-लब्धिस्थानानि तानि गणितेनागच्छन्ति तद्भ-गणसम्भवा वार्षिकी दैनन्दिनी वा गतिर्ज्ञेया ।नैवम् यदन्यैरपि भगणैस्तान्येवस्थानानि आग-च्छन्ति तदा कतरस्यागतेः प्रामाण्यम् सत्यम्तर्हि साम्प्रतीपलब्ध्यनुसारिणी कापि गतिरङ्गी-कर्त्तव्या यदा पुनर्महता कालेन महदन्तरंभविष्यति तदा महामतिमन्तो ब्रह्मगुप्तादीनांसमानधर्म्मिण एव उत्पत्स्यन्ते तदुपलब्ध्यनु-सारिणीं गतिमुररीकृत्य शास्त्राणि व्याकरि-ष्यन्ति अतएवायं गणितस्कन्धो महामति-मद्भिर्दृष्टः सन् अनाद्यनन्ते कालेऽपि खिलत्वंन याति अतोऽस्य क्रान्तिपातस्य भगणाःकल्पेऽयुतत्रयं तावत् सूर्य्यसिद्धान्तोक्ताः तथामुञ्जालाद्यैर्यदयनचलनमुक्तं एव क्रान्ति-पातः ते गोऽङ्गर्त्तुनन्दगोचन्द्रा उत्पद्यन्ते ।अथ ते वा ये वा भगणा भवन्तु यदायेऽंशा निपुणैरुपलभ्यन्ते तदा एव क्रान्ति-पात इत्यर्थः तं विलोमं क्रान्तिपातं ग्रहेप्रक्षिप्य क्रान्तिः सान्या इदानीं विक्षेप-पातानाह एवं क्रान्तिविमण्डलसम्पाताःक्षेपपाताः स्युः चन्द्रादीनां व्यस्ताः क्षेपानयनेतु ते योज्याः ।“मन्दस्फुटो द्राक् प्रतिमण्डले स्वेग्रहो भ्रमत्यत्र तस्य पातः ।पातेन युक्ता गणितागतेनमन्दस्फुटात् खेचरतः शरोऽस्मात्
पातेऽथवा शीघ्रफलं विलोमंकृत्वा स्फुटान्तेन युताच्छरोऽतः ।चन्द्रस्य कक्षाबलये हि पातःस्फुटाद्बिधोर्मध्यमपातयुक्तात्
”तथा क्रान्तिवृत्तविमण्डलयोः सम्पातः क्षेप-पातः तं ग्रहे प्रक्षिप्य क्षेपः साध्यः एत-दुक्तं भवति क्रातिपातः प्रसिद्धः यथा तंग्रहे प्रक्षिप्य क्रान्तिः साध्यत एव क्षेपपातंग्रहे प्रक्षिप्य क्षेपः साध्य इत्यर्थः अथविक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारण-माह मन्दस्फुटो द्राक् प्रतिमण्डल इत्यादि ।यतः शीघ्रप्रतिमण्डले मण्डलस्फुटगत्या ग्रहोभ्रमति तत्र वृत्ते पातः अतो गणितागत-पातं मन्दस्फुटे प्रक्षिप्य क्षेपः साध्यते शेषंस्पष्टार्थम्
*
इदानीं ज्ञशुक्रयोर्विशेषमाह ।“ये चात्र पातभगणाः कथिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः ।स्वल्पाः सुखार्थमुदिताश्चलकेन्द्रयुक्तौपातौ तथोः पठितचक्रभवौ विधेथौ
चलाद्विशोध्यः किल केन्द्रसिद्ध्यैकेन्द्रे सपाते द्युचरस्तु योज्यः ।अतश्चलात् पातयुताद् ज्ञभृग्वोःसुधीभिराद्यैः शरसिद्धिरुक्ता
”“स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोःपातौ भगोले स्फुट एव पातः
”ननु ज्ञशुक्रयोः शीघ्रोच्चपातयुतिं केन्द्रं कृत्वा योविक्षेप आनीतः शीघ्रोच्चस्थान एव भवितु-मर्हति ग्रहस्थाने यतो ग्रहोऽन्यत्र वर्त्तते ।अत इदमनुपपन्नमिव प्रतिभाति तथा ब्रह्म-सिद्धान्तभाष्ये ज्ञशुक्रयोः शीघ्रोच्चस्थानेयावान् विक्षेपस्तावानेव यत्रतत्रस्थस्यापिग्रहस्य भवत्यत्रोपलब्धिरेव वासना नान्यत्कारणं वक्तुं शक्यत इति चतुर्व्वेदे नाप्यनध्य-वसायोऽत्र कृतः अत्रोच्यते येऽत्र ज्ञशु-क्रयोः पातभगणाः पठितास्ते शीघ्रकेन्द्रभगणै-र्युताः सन्तस्तद्भगणा भवन्ति तथा माध-वीये सिद्धान्तचूडामणौ पठिताः अतोऽल्प-भगणभवः पातः स्वशीघ्रकेन्द्रेण युतः कार्य्यः ।शीघ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रं तस्मिन् सपाते क्षेपकेन्द्रकरणार्थं ग्रहः क्षेप्यः अतस्तुल्य-शोध्यक्षेपकयोः नाशे कृते शीघ्रोच्चपातयोगएवावशिष्यत इत्युपपन्नम् किञ्च मन्दस्फु-दोनं शीघोच्चं प्रतिमण्डले चलकेन्द्रं तत्पातेक्षेप्तुं युज्यते एवं कृते सति क्षेपकेन्द्रं मन्द-फलेनान्तरितं स्यात् तदङ्गीकृतम् इतर-केन्द्रस्यानुपपत्तेः अतो मन्दफलं पाते व्यस्तंदेयम् यतोऽनुपातसिद्धं चलकेन्द्रं मध्योनंशीघ्रोच्चं भवति यत्तु भगोले क्रान्तिवृत्तं तत्कक्षावृत्तं तत्र यद्विमण्डलं तत्र स्फुटग्रहः ।तत्स्फुटपातयोगो हि विक्षेपकेन्द्रं अतः स्फुट-पातस्थाने सम्पातं कृत्वा ततस्त्रिभेऽन्तरे स्फुटी-कृतैः परमक्षेपांशैः प्राग्वदुत्तरे दक्षिणे चविन्यस्यम् तथा न्यस्ते विमण्डले स्फुटग्रह-स्थाने विक्षेपः स्फुटविक्षेपेण गणितागतेन तुल्योदृश्यते नान्यथेत्यर्थः
*
इदानीं ग्रहगोलेविशेषमाह ।“ग्रहस्य गोले कथितापमण्डलंप्रकल्प्य कक्षाबलयं यथोदितम् ।निबध्य शीघ्रप्रतिवृत्तमस्मिन्विमण्डलं तत् पठितैः शरांशैः
मध्योऽत्र पातो द्युषदां ज्ञभृग्वोःस्वशीघ्रकेन्द्रेण युतौ तु योज्याः
”भगोल एव तावद्ग्रहगोलः कल्प्यः तत्र एफुटएव पातः अथ यदि तदन्तर्ग्रहगोलोऽन्योनिबध्यते तदा तत्र यथोक्तविषुवद्वृत्तं क्रान्ति-वृत्तञ्च बद्ध्वा कक्षामण्डलं प्रकल्प्य तत्र छेद्यकोक्त-विधिना शीघ्रप्रतिमण्डलं बद्ध्वा तत्र प्रतिमण्डलेगणितागतपातं मेषादेर्विलोमं गणयित्वा तत्रचिह्रं कार्य्यम् अथ त्रिज्या व्यासार्द्धमेवान्यद्वृत्तंराश्यङ्कं विमण्डलाख्यं कृत्वा तत्रापि मेषादेर्व्यस्तंपाताग्रे चिह्नं कृत्वा प्रतिमण्डलविमण्डलयोःसम्पातचिह्रे प्रथमं सम्पातम् ततो भार्द्धान्तरेद्बितीयं कृत्वा पातादग्रतः पृष्ठतश्च त्रिभेऽन्तरेपरमविक्षेपांशैः पठितैः प्रतिवृत्तादुत्तरे दक्षिणेच विमण्डलं न्यस्यम् तत्र मन्दस्फुटगत्यापारमार्थिको ग्रहो भ्रमति अतो मेषादेरनु-लोममन्दण्फुटो विमण्डले देयः तत्रस्थःप्रतिमण्डलात् यावतान्तरेण विक्षिप्तस्तावान्तत्प्रदेशे विक्षेपः यतो वृत्तसंपातस्थे ग्रहेविक्षेपाभावः त्रिभेऽन्तरे परमो विक्षेपो मध्ये-ऽनुपातेन अतो वृत्तसम्पातग्रहयोरन्तरंज्ञेयम् तदन्तरं पातग्रहयोगे कृते भवति ।पातस्य विलोमगत्वात् संयोगः शरार्थंकेन्द्रम् यदि त्रिज्यातुल्यया केन्द्रज्यया परम-शरस्तदाभीष्टयानया इति फलं प्रतिमण्डल-विमण्डलयोस्तिर्य्यगन्तरं स्यात् विमण्डलस्थ-ग्रहाद्भूमध्यगं सूत्रं तद्भूमध्यग्रहान्तरं चशीघ्रकर्णः यदि भूमध्यात् कर्णाग्रे एतावान्विक्षेपस्तदा त्रिज्याग्रे कियानिति द्वितीयत्रैरा-शिकम् आद्ये त्रिज्या हरो द्वितीये गुणः ।तयोर्नाशे कृते केन्द्रज्यायाः परमशरगुणायाःकर्णो हरः फलं कक्षावृत्तसूत्रयोस्तिर्य्यगन्तरंस्फुटशरः
*
इदानीमहोरात्रवृत्तमाह ।ईप्सितक्रान्तितुल्येऽन्तरे सर्व्वतो नाडिकाख्या-दहोरात्रवृत्ताह्वयं तत्र बद्ध्वा घटीनाञ्च षष्ट्या-ङ्कयेदस्य विष्कर्म्मखण्डं द्युजीवा मता नाडी-वृत्तादुत्तरतो दक्षिणतो वा सर्व्वत्रेष्टक्रान्ति-तुल्यान्तरे यद्वृत्तं निबध्यते तदहोरात्रवृत्तंतेन वृत्तेन तस्मिन् दिने रविर्भ्रमतीत्यर्थः ।तस्य वृत्तस्य व्यासार्द्धं द्युज्या
*
इदानी-मन्यदाह अथ कल्प्या मेषाद्या ह्यनुलोमंक्रान्तिपाताङ्कात् एषा मेषादीनां द्युरात्र-वृत्तानि बध्नीयात् नाडीवृत्तोभयतस्त्रीणित्रीणि क्रमोत्क्रमात्तानि क्रान्तिपातादारभ्यत्रिंशत्त्रिंशद्भिर्भागैरन्यान् मेषादीन् प्रकल्प्यतदग्रेषूक्तवदहोरात्रवृत्तानि बध्नीयात् तानिच नाडीवृत्तोभयतस्त्रीणि त्रीणि भवन्तितान्येव क्रमोत्क्रमतः सायनांशार्कस्य द्वादश-राशीनाञ्च
*
इदानीमस्योपसंहारः एषभगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः ।इति सिद्धान्तशिरोमणिः