भगवान् (bhagavAn)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiदेवत्व की हे व्यक्तित्व
Wordnet
Sanskrit भगवान्, देवः, देवता, दैवतम्
सदाचरणात् जनेषु देवप्रख्यः पुरुषः।
"मत्कृते महात्मा-गांधीः भगवान् एव अस्ति।"
नृपः, नृपतिः, राजा, भूपतिः, भूपः, भूपालः, महीपतिः, पार्थिवः, पार्थः, पृथिवीपतिः, पृथिवीपालः, भूमिपः, भूमिपतिः, महीक्षित्, महीपः, महीपालः, क्षितिपः, क्षितिपतिः, क्षितिपालः, पृथिवीक्षित्, नरेश्वरः, नराधिपः, नरेशः, नरेन्द्रः, प्रजेश्वरः, प्रजापः, प्रजापतिः, जगतीपतिः, अवनीश्वरः, जगतीपालः, जगत्पतिः, अवनीपतिः, अवनीपालः, अवनीशः, क्षितीक्षः, क्षितीश्वरः, पृथिवीशकः, भूमिभृत्, क्षितिभृत्, भूभृत्, क्ष्माभृत्, क्ष्मापः, वसुधाधिपः, अधिपः, अधिपतिः, नायकाधिपः, महीभुक्, जगतीभुक्, क्ष्माभुक्, भूभुक्, स्वामी, प्रभुः, भगवान्, छत्रपः, छत्रपतिः, राज्यभाक्, लोकपालः, लोकेशः, लोकेश्वरः, लोकनाथः, नरदेवः, राट्, इरावान्
राष्ट्रस्य जातेः वा प्रधानशासकः।
"त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।"
बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
"कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।"
ईश्वरः, परमेश्वरः, परेश्वरः, परमात्मा, देवः, अमरः, विबुधः, अनिमिषः, अजरः, चिरायुः, सुचिरायुः, भगवान्, सर्वस्रष्टा, धाता, विधाता, जगत्कर्ता, विश्वसृक्, भूतादिः, परब्रह्म, ब्रह्म, जगदात्मा, हम्, स्कम्भः, सूक्ष्मः, सर्वेशः, सर्वसाक्षी, सर्वविद्, श्वःश्रेयसम्, शब्दातीतः
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
"ईश्वरः सर्वव्यापी अस्ति।"
Tamil
Tamilப4க3வான் : கடவுள், தெய்வம், விஷ்ணு, சிவன்.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritभगवान्, [त्] (भगः “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्ययशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भगइतीङ्गना ॥
” इत्युक्तलक्षणं षडैश्वर्य्यमस्त्यस्येति ।भग + नित्ययोगे मतुप् मस्य वः ।) पुं बुद्धः ।इत्यमरः । १ । १ । १३ ॥
श्रीकृष्णः । यथा, --“भगवानपि ता रात्रीः शारदोत्फुल्लमल्लिकाः ।वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥
”इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥
पूज्ये त्रि । इति मेदिनी ॥
भगवत्स्वरूपं यथा, “मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! ।तदेतत् श्रूयतामत्र संबन्धे गदतो मम ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥
द्वे विद्ये वेदितव्ये वै इति चाथर्व्वणी श्रुतिः ।परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥
विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् ।व्याप्यव्याप्तं यतः सर्व्वं तं वै पश्यन्ति सूरयः ॥
तद्ब्रह्म तत् परं धाम तद्ध्येयं मोक्षकाङ्क्षिणा ।श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ।तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ॥
वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ।एवं निगदितार्थस्य स तत्त्वं तस्य तत्त्वतः ॥
ज्ञायते येन तज्ज्ञाने परमन्यत्त्रयीमयम् ॥
अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज ! ।पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ।शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ।मैत्रेय ! भगवच्छब्दः सर्व्वकारणकारणे ॥
संभर्त्तेति तथा भर्त्ता भकारोऽर्थद्वयान्वितः ।तेनागमयिता स्रष्टा गकारार्थस्तथा मुने ! ॥
ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य थशसः श्रियः ।ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥
वसन्ति यत्र भूतानि भूतात्मन्यखिलात्मनि ।स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥
एवमेव महाबाहो ! भगवानिति सत्तम ! ।परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।शब्दोऽयं नोपचारेण अन्यत्र ह्युपचारतः ॥
उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् ।वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ॥
ज्ञानशक्तिबलैश्वर्य्यवीर्य्यतेजांस्यशेषतः ।भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥
”इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥
अपि च ।“परमात्मा च भगवान् विष्वक्सेनो जनार्द्दनः ।तद्भक्तिमान् भागवतो नाल्पपुण्यैर्हि जायते ॥
भगवच्छासनालम्बी भगवच्छासनप्रियः ।भगवद्भक्तिमास्थाय वत्स ! भागवतो भव ॥
भगवान् भूतभव्येशो भूतादिप्रभवोऽव्ययः ।भावेन तं भजस्वेशं भवभङ्गकरं हरिम् ॥
भजस्व भावेन विभुं भगवन्तं भवेश्वरम् ।ततो भागवतो भूत्वा भवबन्धात् प्रमोक्ष्यसि ॥
”इत्याद्ये वह्रिपुराणे वैष्णवक्रियायोगे यमानु-शासनो नामाध्यायः ॥
अन्यच्च ।“महतां क्षुद्रजन्तूनां सर्व्वेषां जीविनां सदा ।स्रष्टा पाता च शास्ता च भगवान् करुणानिधिः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २५ अध्यायः ॥
षडैश्वर्य्यान्वितः । स च परमेश्वरः । तन्नाम-विशेषस्य सेवनं यथा, --“अथ श्रीभगवन्नाम सदा सेवेत सर्व्वतः ।तन्माहात्म्यञ्च विख्यातं सङ्क्षेपेणात्र लिख्यते ॥
अथ श्रीभगवन्नामविशेषस्य च सेवनम् ।ऋषिभिः कृपयादिष्टं तत्तत्कामहतात्मनाम् ॥
”अथकामविशेषेण श्रीभगवन्नामविशेषसेवामाहा-त्म्यम् । तत्र पापक्षयार्थं कौर्म्मे । यथा, --“श्रीशब्दपूर्व्वं जयशब्दपूर्व्वंजयद्वयादुत्तरतस्तथा हि ।त्रिः सप्तकृत्वो नरसिंहनामजप्त निहन्यादपि विप्रहत्याम् ॥
”महाभयनिवारणार्थं तत्रैव ।“श्रीपूर्व्वो नरसिंहो द्विर्ज्जयादुत्तरतस्तु सः ।त्रिःसप्तकृत्वो जप्तस्तु महाभयनिवारणः ॥
”कालविशेषे तु मङ्गलार्थं बिष्णुधर्म्मोत्तरेश्रीमार्कण्डेयवज्रसंवादे ।“पुरुषं वामदेवञ्च तथा सङ्कर्षणं विभुम् ।प्रद्युम्नमनिरुद्धञ्च क्रमादब्देषु कीर्त्तयेत् ॥
”अब्दषु संवत्सरादिषु पञ्चसु ॥
“वलभद्रं तथा कृष्णं कीर्त्तयेदयनद्बये ।माधवं पुण्डरीकाक्षं तथा वै भोगशायिनम् ॥
पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् ।क्रमेण राजशार्द्दूल ! वसन्तादिषु कीर्त्तयेत् ॥
विष्णुञ्च मधुहन्तारं तथा देवं त्रिविक्रमम् ।वामनं श्रीधरञ्चैव हृषीकेशं तथैव च ॥
दामोदरं पद्मनाभं केशवञ्च यदूत्तमम् ।नारायणं माधवञ्च गोविन्दञ्च तथा क्रमात् ॥
चेत्रादिषु च मासेषु देवदेवमनुस्मरेत् ।प्रद्युम्नमनिरुद्धञ्च पक्षयोः कृष्णशुक्लयोः ॥
सर्व्वः शर्व्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।आदित्यादिषु वारेषु क्रमादेवमनुस्मरेत् ॥
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतभृद् भूतकृद् भावो भूतात्मा भूतभावनः ॥
अव्यक्तः पुण्डरीकाक्षो विश्वकर्म्मा शुचिश्रवाः ।सम्भवो भावनो भर्त्ता प्रभवः प्रभुरीश्वरः ॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।अग्राह्यः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत् ॥
देवदेवस्य नामानि कृत्तिकादिषु यादव ! ।ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् ॥
दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ।भूधरं गदिनं देवं शङ्खिनं पट्मिनं तथा ॥
चक्रिणञ्च महाराज ! प्रथमादिषु संस्मरेत् ॥
”प्रथमादिषु प्रतिपदादिषु ।“सर्व्वं वा सर्व्वदा नाम देवदेवस्य यादव ! ॥
नामानि सर्व्वाणि जनार्द्दनस्यकालश्च सर्व्वः पुरुषप्रवीरः ।तस्मात् सदा सर्व्वगतस्य नामग्राह्यं यथेष्टं वरदस्य राजन् ! ॥
”विविधकामसिद्धये च पुलस्त्योक्तौ ।“कामः कामप्रदः कान्तः कामपालस्तथा हरिः ।आनन्दो माधवश्चैव कामसंसिद्धये जपेत् ॥
रामः परशुरामश्च नृसिंहो विष्णुरेव च ।विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः ॥
विद्यामभ्यस्यता नित्यं जप्तव्यः पुरुषोत्तमः ।दामोदरं बन्धगतो नित्यमेव जपेन्नरः ॥
केशवं पुण्डरीकाक्षमनिशं हि तथा जपेत् ।तेत्रबाधासु सर्ष्वासु हृषीकेशं भयेषु च ॥
अप्युतञ्चामृतञ्चैव जपेदौषधकर्म्मणि ।संग्रामाभिमुखो गच्छन् संस्मरेद पराजितम् ॥
चक्रिणं गदिनञ्चैव शार्ङ्गिणं खड्गिनं तथा ।क्षेमार्थी प्रवसन्नित्यं दिक्षु प्राच्यादिषु स्मरेत् ॥
अजितञ्चाधिपञ्चैव सर्व्वं सर्व्वेश्वरं तथा ।संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्व्वदा ।नारायणं सर्व्वकालं क्षुतप्रस्खलनादिषु ।ग्रहनक्षत्रपीडासु देववाधासु सर्व्वतः ॥
दस्युवैरिनिषेधेषु व्याघ्रसिंहादिसङ्कटे ।अन्धकारे तमस्तीव्रे नरसिंहमनुस्मरेत् ॥
अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् ।गरुडध्वजानुस्मरणाद्विषवीर्य्यं व्यपोहति ॥
स्नाने देवार्च्चने होमे प्रणिपाते प्रदक्षिणे ।कीर्त्तयेद्भगवन्नाम वासुदेवेति तत्परः ॥
स्थापने वित्तधान्यादेरपध्याने च दुष्टजे ।कुर्व्वीत तन्मना भूत्वा अनन्ताच्युतकीर्त्तनम् ॥
नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम् ।वामनं खड्गिनञ्चैव दुष्टस्वप्ने सदा स्मरेत् ॥
महार्णवादौ पर्य्यङ्कशायिनञ्च नरः स्मरेत् ।बलभद्रं समृद्ध्यर्थं सर्व्वकर्म्मणि संस्मरेत् ॥
जगत्पतिमपत्यार्थं स्तुवन् भक्त्या न सीदति ।श्रीशं सर्व्वाभ्युदयिके कर्म्मण्याशु प्रकीर्त्तयेत् ॥
अरिष्टेषु ह्यशेषेषु विशोकञ्च सदा जपेत् ।मरुत्प्रपाताग्निजलबन्धनादिषु मृत्युषु ॥
स्वतन्त्रपरतन्त्रेषु वासुदेवं जपेद्बुधः ।सर्व्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ॥
यथाभिरोचते नाम तत् सर्व्वार्थेषु कीर्त्तयेत् ।सर्व्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः ॥
सर्व्वाण्येतानि नामानि परस्य ब्रह्मणो हरेः ॥
”एवं विष्णुधर्म्मोत्तरे च मार्कण्डेयवज्रसंवादे ॥
किञ्च ।“कूर्म्मं वराहं मत्स्यं वा जलप्रतरणे स्मरेत् ।भ्राजिष्णुमग्निजनने जपेन्नाम त्वखण्डितम् ॥
गरुडध्वजानुस्मरणादापदो मुच्यते नरः ।ज्वरजुष्टशिरोरोगविषवीर्य्यञ्च शाम्यति ॥
बलभद्रन्तु युद्धार्थी कृष्यारम्भे हलायुधम् ।उत्तारणं बाणिज्यार्थी राममभ्युदये नृप ! ॥
माङ्गल्यं मङ्गलं विष्णुं माङ्गल्येषु च कीर्त्तयेत् ।उत्तिष्ठन् कीर्त्तयेद्विष्णुं प्रस्वपन् माधवं नरः ॥
भोजने चैव गोविन्दं सर्व्वत्र मधुसूदनम् ॥
”तत्रैवान्यत्र ।“औषधे चिन्तयेद्विष्णुं भोजने च जनार्द्दनम् ।शयने पद्मनाभञ्च मैथुने च प्रजापतिम् ॥
संग्रामे चक्रिणं क्रुद्धं स्थानभ्रंशे त्रिविक्रमम् ।नारायणं विषोत्सर्गे श्रीधरं प्रियसङ्गमे ॥
जलमध्ये वराहञ्च पावके जलशायिनम् ।कानने नरसिंहञ्च पर्व्वते रघुनन्दनम् ॥
दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् ।मायासु वामनं देवं सर्व्वकार्य्येषु माधवम् ॥
”किञ्च ।“कीर्त्तयेद्वासुदेवञ्च अनुक्तेष्वपि यादव ! ।कार्य्यारम्भे तथा राजन् ! यथेष्टं नाम कीर्त्त-येत् ॥
सर्व्वाणि नामानि हि तस्य राजन् !सर्व्वार्थसिद्धौ तु भवन्ति पुंसः ।तस्माद्यथेष्टं खलु कृष्णनामसर्व्वेषु कार्य्येषु जपेत भक्त्या ॥
”इति श्रीहरिभक्तिविलासे ११ विलासः ॥
भगवद्वशीकारित्वम् । यथा, महाभारते भग-वद्वाक्यम् ।“ऋणमेतत् प्रवृद्धं मे हृदयान्नापसर्पति ।यद्गोविन्देति चुक्रोश कृष्णे ! मां दूरवासिनम् ॥
”आदिपुराणे श्रीकृष्णार्ज्जुनसंवादे ।“गीत्वा तु मम नामानि नर्त्तयेन्मम सन्निधौ ।इदं ब्रवीमि ते सत्यं क्रीतोऽहं तेन चार्ज्जुन ! ॥
गीत्वा च मम नामानि रुदन्ति मम सन्निधौ ।तेषामहं परिक्रीतो नान्यक्रीतो जनार्द्दनः ॥
”एवं श्रुत्वा च मम नामानीत्यादि ॥
विष्णुधर्म्मेप्रह्लादेन ।“जितं तेन जितं तेन जितं तेनेति निश्चितम् ।जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥
”इति तत्रैव ११ विलासः ॥
भगवत्सान्निध्यलक्षणानि यथा । हयशीर्षे ।“तस्मिन्नेव मुहूर्त्ते तु हर्षो वा भयमेव च ।चक्षुर्भ्रमो विभ्रमो वा त्रासो वा जायते यदि ॥
व्यामोहः परमोहो वा स्तनितं परमं तथा ।अशुतानां श्रुतिर्वा स्यात् गात्राणां वाथवेपथुः ॥
”व्यामोहो मौढ्यविशेषः । परमोहो मूर्च्छा ।“वैराग्यं नेत्रयोर्वा स्याद्दर्पः कन्दर्प एव वा ।परमो विस्मयो वाथ दिव्यो वा श्रूयते ध्वनिः ॥
दिव्यवादित्रघोषो वा गन्धर्व्वनगरस्य वा ।दर्शनं जायते काले तस्मिन् सुरगणार्च्चितम् ॥
नरा नार्य्योऽथ दृश्यन्ते गायन्तोऽप्यथ हर्षिताः ।नन्दितूर्य्यरवो वापि श्रूयते छन्दसां ध्वनिः ॥
दिव्यगन्धा रसा वापि एकस्यापि भवन्ति हि ।लिङ्गैरेतैर्विजानीयात् तत्र सन्निहितं हरिम् ॥
प्रभा चैव विशेषेण ज्वलतीव च दृश्यते ।स्फुरन्तीव च दृश्येत प्रतिमा च विशेषतः ॥
स्फुरन्निव जनः कश्चित् स्मयमान इव क्वचित् ।वीक्ष्यमाणो जनस्तत्र प्रहृष्ट इव लक्ष्यते ॥
एतैस्तु लक्षणैर्ज्ञेयस्तत्र सन्निहितो हरिः ।विशेषादथवा पश्येच्छक्रचापोपमं क्वचित् ॥
छविं वज्रप्रभां पश्येत् पद्मरागप्रभां यथा ।सौदामिनीप्रभां पश्येत् प्रतिमायां क्वचिद्यदि ॥
एतैर्लिङ्गैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ।बधिरा इव केचित्तु मूका इव तथापरे ।विभ्रान्ता इव केचिच्च जडा इव तथापरे ॥
धावन्त इव केचित्तु पतन्त इव चापरे ।नृत्यन्त इव चाप्यन्ये मत्ता इव तथा यदि ।चित्रस्था इव केचित्तु विवशा इव केचन ।भवन्ति तत्र चोन्मत्ताः प्रमत्ता इव चापरे ।लिङ्गैरेतैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥
”इति श्रीहरिभक्तिविलासे ३९ विलासः ॥
(शिवः । यथा, महाभारते । १३ । १७ । १२७ ।“निवेदनः सुखाजातः सुगन्धारो महाधनुः ।गन्धपाली च भगवान् उत्थानः सर्व्व-कर्म्मणाम् ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
