| YouTube Channel

भगन्दर (bhagandara)

 
शब्दसागरः
English
भगन्दर
m.
(-रः) Fistula in ano.
E.
भग the vulva, दृ to divide,
aff.
खश्
Yates
English
भग-न्दर (रः) 1.
m.
Fistula in ano.
Wilson
English
भगन्दर
m.
(-रः) Fistula in ano.
E.
भग the vulva, दृ to divide,
aff.
खश्.
Apte 1890
English
भगंदरः A fistula in the anus or pudendum.
Monier Williams Cologne
English
भग—ं-दर
m.
‘lacerating the vulva’, a fistula in the pudendum muliebre or in the anus
&c.
(5 to 8 forms enumerated
cf.
भग-दारण),
Suśr.
ŚārṅgS.
(cf.
Kāś.
on
Pāṇ.
iii, 2, 41)
N.
of an ancient sage,
Var.
Apte Hindi
Hindi
भगन्दरः
पुं*
- "भग+दृ+णिच्+खच्, मुम्"
एक रोग जो गुदावर्त में व्रण के रूप में होता है
Shabdartha Kaustubha
Kannada
भगन्दर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಆಸನ ಕುರು/ಗುಹ್ಯಸ್ಥಾನದ ವ್ರಣ/"ಪಿಸ್ತುಲಾ" ಎಂಬ ಒಂದು ವ್ಯಾಧಿ
निष्पत्तिः - > दृ (विदारणे)+णिच् "खच्"(३-२-४६) मुमागमः(६३-६७)
व्युत्पत्तिः - > भगं दारयति
विस्तारः - > ಭಗಂದರವು ಗುದಪ್ರದೇಶದಲ್ಲಿ ಉಂಟಾಗುವ ಒಂದು ವ್ಯಾಧಿ. ಇದು ವಾತ ಪಿತ್ತ ಶ್ಲೇಷ್ಮ ಸನ್ನಿಪಾತ ಮತ್ತು ಆಗಂತು ನಿಮಿತ್ತವಾದ (ಕ್ರಮವಾಗಿ) ಶತಪೋನಕ ಉಷ್ಟ್ರಗ್ರೀವ ಪರಿಸ್ರಾವಿ ಶಂಬೂಕಾವರ್ತ ಮತ್ತು ಉನ್ಮಾರ್ಗಿಗಳೆಂದು ಐದು ವಿಧ. "वातपित्तश्लेश्मसन्निपातागन्तुनिमित्ताः शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्तोन्मार्गिणो यथासङ्ख्यं पञ्च भगन्दरा भवन्ति" सुश्रुत० निदा० ४-३
L R Vaidya
English
BagaMdara {% m. %} a fistula in the pudendum or anus.
अभिधानचिन्तामणिः
Sanskrit
--source--
व्याधिप्रभेदा विद्रधिभगंदरज्वरादयः ४७१
-wordlist-
विद्रधि (स्त्री), भगन्दर (पुं), ज्वर (पुं)
शब्दकल्पद्रुमः
Sanskrit
भगन्दरः,
पुं,
(भगं गुह्यमुष्कमध्यस्थानं दारय-तीति “दृ + णिच् + पूःसर्व्वयोर्दारिसहोः ।”२ ४१ इत्यत्र “भगे दारेरिति वक्तव्यम् ।” इति काशिकोक्तेः खच् “खचिह्रस्वः ।” ९४ इति ह्रस्वः मुम्च ।)अपानदेशे व्रणरोगविशेषः तस्य रूपमाह ।“गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिडकार्त्तिकृत् ।भिन्नो भगन्दरो ज्ञेयः पञ्चविधो भवेत्
”अर्त्तिकृत् पीडाकृत् पञ्चविधः वातकपैत्तिक-श्लैष्मिकसान्निपातिकशल्यजभेदैः
भगन्दर-शब्दस्य निरुक्तिमाह भोजः ।“भगं परिसमन्ताद्यो गुदवस्ती तथैव ।भगवद्दारयेद्यस्मात्तस्मादेष भगन्दरः
”भजन्त्यनेनेति भगं मेहनम् भजन्त्यस्मिन्नितिभगं योनिः अत्र भगशब्देन द्बयमपि कथ्यते ।भगवत् योनिवत्
पूर्व्वरूपादीनि यथा, --“कटीकपालनिस्तोददाहकण्डुरुजादयः ।भवन्ति पूर्व्वरूपाणि भविष्यति भगन्दरे
”कटीकपालमत्र कटीफलकम्
वातिकं शत-पोनकसंज्ञं भगन्दरमाह ।“कषायरूक्षैरतिकोपितोऽनिल-स्त्वपानदेशे पिडकां करोति याम् ।उपेक्षणात् पाकमुपैति दारुणंरुजाञ्च भिन्नारुणफेनवाहिनीम्
तत्रागमो मूत्रपुरीषरेतसांब्रणैरनेकैः शतपोनकं वदेत् ।दारुणं अतिदारुणात् व्रणैरनेकैः सूक्ष्ममुखैः ।शतपोनकश्चालनी तत्तुल्यम्
पैत्तिकमुष्ट्रग्रीव-संज्ञमाह ।“प्रकोपणैः पित्तमतिप्रकोपितंकरोति रक्तां पिडकां गुदे गताम् ।तदाशुपाकाहिमपूतिवाहिनींभगन्दरञ्चोष्ट्रशिरोधरं वदेत्
”आशुपाकाहिमपूतिवाहिनीम् शीघ्रपाकाम्उष्मदुर्गन्धवाहिनीञ्च तदा तं भगन्दरं उष्ट्र-शिरोधर उष्ट्वग्रीवसंज्ञं वदेत् उष्ट्रग्रीव-संज्ञञ्च पिडकाकालीनवक्रतयोष्ट्रग्रीवाकार-त्वेन
*
श्लैष्मिकपरिस्राविसंज्ञमाह ।“कण्डूयनो घनस्रावी कठिनो मन्दवेदनः ।श्वेतावभासः कफजः परिस्रावी भगन्दरः
”कठिनः पिडकावस्थायां परिस्रावी निरन्तरंस्रवणशीलः
*
सान्निपातिकशम्बूकावर्त्त-संज्ञमाह ।“बहुवर्णरुजास्रावाः पिडका गोस्तनोपमाः ।शम्बूकावर्त्तवन्नाडी शम्बूकावर्त्तको मतः
”बहुवर्णरुजास्रावाः बहुशब्दो वर्णादिभिःप्रत्येकं सम्बध्यते नाडी स्रावमार्गः
*
शल्यजमुन्मार्गसंज्ञमाह ।“क्षताद्गतिः पायुगताद्बिवर्द्धतेह्युपेक्षणात् स्युः कृमयो विदाय्यंते ।प्रकुर्व्वते मार्गमनेकधा मुखै-व्रणैस्तमुन्मार्गभगन्दरं वदेत्
क्षतात् कण्टकादिना नखेनकण्डूयनादिना वाभिघातात् ।गतिः स्रावः उन्मार्गभगन्दरम् एतस्य कृमि-कृतमार्गैः पुरीषादिनिर्गमादुन्मार्गसंज्ञा
”कष्टसाध्यमसाध्यञ्चाह ।“घोराः साधयियुं दुःखाः सर्व्व एव भग-न्दराः ।तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्च विशेषतः
वातमूत्रपुरीषाणि शुक्रञ्च कृमयस्तथा ।भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम्
”अथ भगन्दरस्य चिकित्सा यथा, --“अथास्य पिडकामेव तथा यत्नादुपाचरेत् ।शुद्ध्यस्रस्रुतिसेकार्त्तैर्यथा पाकं गच्छति
पुनर्नवामृताशुण्ठीपिष्टिकावदरैः कृतः ।लेपाय पिडकावस्थे कल्कः शस्तो भगन्दरे
पयःपिष्टैस्तिलारिष्टमधुकैः शीतलैः कृतः ।लेपो भगन्दरे शस्तः पैत्तिके वेदनावति
”अरिष्टो निम्बः
“सुमनायाश्च पत्राणि गुडूची विश्वभेषजम् ।सैन्धवं तक्रसंपिष्टं लेपाद्धन्ति भगन्दरम्
”सुमना जातिस्तस्याः पत्रम् ।“पिडकानामपक्वानामपतर्पणपूर्व्वकम् ।कर्म्म कुर्य्याद्विरेकान्तं भिन्नानां व्रणवत् क्रिया
निशार्कक्षीरसिन्धूत्थपुराश्वहननच्छदैः ।सिद्धमभ्यञ्जने तैलं भगन्दरहरं परम्
”पुरो गुग्गुलुः अश्वहननच्छदाः करवीर-पत्राणि निशादितैलम्
*
“त्रिफलापुरकृष्णानां त्रिपञ्चांशैकयोगिता ।गुटिका शोथगुल्मार्शोभगन्दरवतां हिता
”नववार्षिको गुग्गुलुः
*
“शस्त्रक्रियापि कथिता शस्त्रसाध्ये भगन्दरे ।सा तेनैव कर्त्तव्या शस्त्रशास्त्रमवैति यः
व्यायामं मैथुनं युद्धं पृष्ठयानं गुरूणि ।रूढव्रणेऽपि यत्नेन वर्जयेद्बत्सरं नरः
”इति भावप्रकाशे भगन्दराधिकारः
अपि ।“लङ्घनं स्वेदनं लेपविम्लापनविरेचनैः ।रक्तमोक्षादिभिः शीघ्रं गुदजां पिडकां जयेत्
तथा यत्नं भिषक् कुर्य्याद्यथा पाकं नियच्छति ।अपक्वं वाथ पक्वं वा जलौकापातनं हितम्
तदभावे तु शृङ्गाभ्यामिदं रक्तस्य मोक्षणम्
”वटपत्राष्टकाशुण्ठीगुडूच्यः सपुनर्नवाः ।पिष्ट्वा तु पिडकारम्भे लेपः शस्तो भगन्दरे
आमावस्थाक्रिया प्रोक्ता पक्वावस्थाक्रियोच्यते
त्र्युषणापाटलाक्षारवह्निदाहादिकं क्रमम् ।विधाय व्रणवत् कार्य्यं यथा दोषो यथा बलम्
स्नुह्यर्कदुग्धदार्व्वीभिर्वर्त्तिं कृत्वा भगन्दरे ।दद्यात् सर्व्वशरीरस्था नाडीर्हन्यात् प्रयोगराट्
तिलाभयालोध्रमरिष्टपत्रंनिशा वचा कुष्ठमगारधूमः ।भगन्दरे नाड्युपदंशयोश्चदुष्टव्रणे शोधनरोपणोऽयम्
शुनोऽस्थिघृष्टं त्रिफलारसेनविडालकास्थि त्वथवा विलेपनात् ।चिरप्रभूतं व्रणरोगदुष्टंभगन्दरं नाशमुपैति नूनम्
*
जम्बूकमांसं भुञ्जीत प्रकारैर्व्यञ्जनादिभिः
”शृगालमांसव्यञ्जनं खाद्यम् अथवा शम्बक-मांसव्यञ्जनं खाद्यम्
“त्रिकटु त्रिफला मुस्तं विडङ्गामृतचित्रकम् ।शट्येला पिप्पलीमूलं हवुषा सुरदारु
तुम्बुरुं पुष्करं चव्यं विशाला रजनीद्वयम् ।विडं सौवर्च्चलक्षारौ सैन्धवं गजपिप्पली
यावन्त्येतानि चूर्णानि तावद्द्विगुणगुग्गुलुः ।कोलप्रमाणां गुटिकां खादयेन्मधुना सह
भगन्दरं श्वासकासं क्षयं जीर्णज्वरोदरम् ।नाडीदुष्टव्रणानाहकुष्ठोन्मादाश्मरीक्रमीन्
मेहान्त्रवृद्धिहृद्रोगशूलं श्लीपदमेव ।सप्तविंशतिको हन्ति गुग्गुलुः सर्व्वरोगहा
”हृद्रोगशूलमित्यत्र हृतपार्श्वशूलमित्यपि पाठः
सप्तविंशतिगुग्गुलुः
*
“चित्रकार्कौ त्रिवृत्पाठौ मलपूहयमारकौ ।सुधां वचां लाङ्गलिकां हरितालं सुवर्च्चलाम्
ज्योतिष्मतीञ्च संहृत्य तैलं वैद्यो विपाचयेत् ।एतद्बिस्यन्दनं नाम तैलमुक्तं भगन्दरे
शोधनं रोपणञ्चैव सुवर्णकरणं स्मृतम् ।”विष्यन्दनतैलम्
*
“सूतस्य द्बिगुणेन शुद्धवलिना कन्यापयोभि-स्त्र्यहंपिष्ट्वा ताम्रमयं समस्ततुलितं पात्रं विधायोपरि ।स्वेद्यं यामयुगं सभस्मपिठरे जम्बूजलैः सप्तधासार्द्धं तत्पुटयेत् भगन्दरहरो गुञ्जोन्मितास्यादिति
”जम्बूजलैरित्यत्र निम्बूजलैरिति पाठः ।भगन्दरहरो रसः
*
“शुद्धसूतं समं गन्धं मृतनागं सतुत्थकम् ।जीरकं सैन्धवं तुल्यं तिक्तकोषातकीद्रवैः
पिष्ट्वा तल्लेपनाद्धन्ति भक्षणाच्च भगन्दरम् ।रसः कालाग्रिरुद्रोऽयं गुञ्जैकं मृत्युजिद्भवेत्
”कालाग्निरुद्रो रसः
*
इति सारदीपिकायां भगन्दरचिकित्साध्यायः
अपि गारुडे १८८ अध्याये ।“गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भग-न्दरः
”(अस्य सकारणलक्षणचिकित्सितं यथा, --क्रिम्यस्थि सूक्ष्मलक्षणनव्यवाय-प्रवाहनान्युत्कटकाश्वपृष्ठैः ।गुदस्य पाके पिडका भृशार्त्तिःपक्वप्रभिन्ना तु भगन्दरः स्यात्
विरेचनञ्चैषणपाटनञ्चविशुद्धमार्गस्य तैलदाहः ।स्यात् क्षारमूत्रेण सुपाचितेनछिन्नस्य चास्य व्रणवच्चिकित्सा
”इति चरके चिकित्सास्थाने सप्तदशेऽध्याये
)
वाचस्पत्यम्
Sanskrit
भगन्दर
पु०
भगं गुह्ममुष्कमध्यस्थानं दारयति दृ--णिच्--खश् मुम्खचि ह्रस्वश्च स्वनामख्याते रोगभेदे भावप्र० तन्नि-दाननिरुक्त्यादिकमुक्तं यथा“अथ भगन्दरस्य पूर्वरूपसहितं स्वरूपमाह “कटीक-पालयोस्तोददाहकण्डूरुजादयः भवन्ति पूर्वरूपाणिभविष्यति भगन्दरे गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतःपीडकार्त्तिकृत् भिन्नो भगन्दरो ज्ञेयः पञ्च-विधो भवेत्” आर्त्तिकृत् पीडाकृत् पञ्चविधः वाति-कपैत्तिकश्लैष्मिकसान्निपातिकशल्यजभेदैः अथ गन्दर-शब्दस्य निरुक्तिमाह भोजः “भगन्दरः समन्ताच्च गुदंवस्तिं तथैव भगवद्दारयेद्यस्मात् तस्मादेष भग-न्दरः” भजन्त्यनेनेति भगो मेहनम् भजन्त्यस्मिन्नितिभगं योनिः अत्र भगशब्देन द्वयमपि कथ्यते ।भगवत् योनिवत् अथ वातिकं शतपोनकसंज्ञं भग-न्दरमाह “कषायरूक्षैरतिकोपितोऽनिलस्त्वपानदेशे पि-डकां करोति याम् उपेक्षणाद्वातमुपैति दारुणंरुजा भिन्नारुणफेनवाहिनीम् तत्रागमो मूत्रपुरीष-रेतसां व्रणैरनेकैः शतपोनकं वदेत्” दारुणम् अति-दारुणरुक् व्रणैरनेकैः सूक्ष्ममुखैः शतपोनकं शत-पोनकश्चालनी तत्तुल्यम् अथ पैत्तिकमुष्ट्रग्रीवसंज्ञमाह“प्रकोपणैः पित्तमतिप्रकोपितं करोति रक्तां पिडकांगुदे गताम् तदाशुपाकां हिमपूतिवाहिनीं भगन्दरंचोष्ट्रशिरोधरं वदेत्” आशुपाकां हि मपूतिवाहिनींशीघ्रपाकामुष्ट्रदुर्गन्धवाहिनीं तदा भगन्दरमुष्ट्र-शिरीधरं वदेत् उष्ट्रग्रीवसंज्ञा पिडकागलेनवक्रतयोष्ट्रग्रीवाकत्वेन अथ श्लैष्मिकं परिस्राविसंज्ञ-माह “कण्डूयनो घनस्रावी कठिनो मन्दवेदनः ।श्वेतावभासः कफजः परिस्रावी भागन्दरः” कठिनःपिडकावस्थायाम् परिस्रावी निरन्तरस्रावशीलः ।अथ सान्निपातिकं शम्बूकावर्त्तसंज्ञमाह “बहुवर्णरुजास्रावा पिडका गोस्तनोपमा शम्बूकावर्त्तगतिकः शम्बू-कावर्त्तकीमतः” बहुवर्णरुजास्रावा बहुशब्दो वर्णा-दिभिः प्रत्येकं संवध्यते गतिः स्रावमार्गः अथ शल्यज-मुन्मार्गसंज्ञमाह “क्षताद्गतिः पायुगता विवर्द्धतेह्युपेक्षणात् स्यः कृमयो विदार्य्य ते प्रकर्वते मार्गमने-कधामुखैर्व्रणैस्तमुन्मार्गभगन्दरं वदेत्” क्षतात् कण्ट-कादिना नखेन कण्डूयनादिना वाऽभिघातात् गतिःस्रावः उन्मार्गभन्दरम् एतस्य तिर्य्यककृतभार्गैः पुरी-षादिनिर्गमादुन्मर्गसंज्ञ” कष्टसाध्यमसाध्यञ्चाह “घोराःसाधयितुं दुःखा सर्व एव भगन्दराः तेष्वसाध्यस्त्रिदो-षोत्थः क्षतजश्च विशेषतः वातमूत्रपुरीषाणि वक्रञ्चकृमयस्तथा भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम्”