भगणः (bhagaNaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiभगणः
भः+गणः -
"तारापुंज, नक्षत्रपुंज"
भगणः
भः+गणः -
राशि चक्र
भगणः
भः+गणः -
ग्रहों का राशिचक्र में भ्रमण
Wordnet
Sanskrit भगणः
छन्दःशास्त्रानुसारेण एकः गणः।
"भगणे प्रथमः वर्णः गुरुः तथा अग्रीमौ द्वौ अपि लघुवर्णौ भवतः।"
शब्दकल्पद्रुमः
Sanskritभगणः, (भानां नक्षत्राणां गणः समूहः ।)नक्षत्रसमूहः । शीघ्रगामिनां ग्रहाणामल्पेनकालेन मन्दगामिनां ग्रहाणां महता कालेनपूर्व्वगत्या पातानां पश्चिमगत्या परिवर्त्तनेनाश्वि-न्यादिरेवत्यन्तनक्षत्रभोगकालः । षष्टिविकलाभिःकला षष्टिकलाभिर्भागस्त्रिंशभागैराशिर्द्वादश-राशिभिर्भगणः । यथा, --“शीव्रगस्तान्यथाल्पेन कालेन महताल्पगः ।तेषान्तु परिवर्त्तेन पौष्णान्ते भगणः स्मृतः ॥
विकलानां कलाषष्ट्या तत्षष्ट्या भाग उच्यते ।तत्त्रिंशता भवेद्राशिर्भगणो द्बादशैव ते ॥
युगे सूर्य्यज्ञशुक्राणां खचतुष्करदार्णवाः४३२०००० ।कुजार्किगुरुशीघ्राणां भगणाः पूर्व्वयायिनाम् ॥
इन्दो रसाग्नित्रित्रीषुसप्तभूधरमागणाः५७७५३३३६ ।दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु२२९६८३२ ॥
बुधशीघ्रस्य शून्यर्त्तुखाद्रित्र्यङ्कनगेन्दवः१७९३७०६० ।बृहस्पतेः खदस्राक्षिवेदषड्वह्रयस्तथा३६४२२० ॥
सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः७०२२३७६ ।शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः १४६५६८ ॥
चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा४८८२०३ युगे ।वामं पातस्य सर्पाग्नियमाश्विशिखिदस्रकाः२३२२३८ ॥
इति सूर्य्यसिद्धान्तः ॥
* ॥
अपि च । ग्रहाणां मन्दोच्चानां चलोच्चानांग्रहपातानाञ्च भगणान् श्लोकषट्केनाह ।अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदा-ब्धयः । ४३२००००००० एत एव शनिजीव-भूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः ॥
१ ॥
खाब्भ्रखाब्भ्रगगनामरेन्द्रियक्ष्माधराद्रिविषया५७७५३३००००० हिमद्युतेः ।युग्मयुग्मशरनागलोचनव्यालषण्णवयमाश्विनोऽसृजः २२९६८२८५२२ ॥
२ ॥
सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो१७९३६९९८९८४ ज्ञशीघ्रजाः ।पञ्चपञ्चयुगषट्कलोचनद्ब्यब्धिषड्गुणमिता३६४२२६४५५ गुरोर्मताः ॥
३ ॥
द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः७०२२३८९४९२ सितशीघ्रपर्य्ययाः ।भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवःसूर्य्यसुतस्य पर्य्ययाः १४६५६७२९८ ॥
४ ॥
खाष्टाब्धयो ४८० ऽष्टाक्षगजेषुदिग्वियद्द्विपाब्धयो४८०१०५८५८ द्व्यङ्कयमा २९२ रदाग्नयः ३३२ ।शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुषागराः ४१स्युः पूर्व्वगत्या तरणेर्मृदुच्चजाः ॥
५ ॥
गजार्ष्टिभर्गत्रिरदाश्विनः २३२३१११६८ कुभृद्र-साश्विनः २६७ कुद्बिशराः ५२१ क्रमर्त्तवः ६३ ।त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५८४निशाकराद्व्यस्तगपातपर्य्ययाः ॥
६ ॥
”इति सिद्धान्तशिरोमणिः ॥
* ॥
ग्रहाणां पूर्व्वगमनेन कल्पे एते पर्य्ययाः । तथामन्दोच्चानाञ्च प्राग्गत्या एतावन्तः । पातानांपश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्तिःसा तु तद्भाषाकुशलेन तत्क्षेत्रसंस्थानज्ञेन शुत-गोलेनैव श्रोतुं शक्यते नान्येन । ग्रहमन्दशीघ्र-पाताः स्वस्वमार्गेषु गच्छन्त एतावतः पर्य्ययान्कल्पे कुर्व्वन्तीत्यत्रागम एव प्रमाणम् । इतितट्टीका ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
