| YouTube Channel

भक्षणीयं (bhakSaNIyaM)

 
शब्दकल्पद्रुमः
Sanskrit
भक्षणीयं, त्रि, (भक्ष + अनीयर्) भक्ष्यद्रव्यम् ।भक्षणयोग्यम् इति भक्षधातोः कर्म्मण्यनीय-प्रत्ययेन निष्पन्नम् इति व्याकरणम्
(यथा, पञ्चतन्त्रे २५ “तन्न भेतव्यम् त्वद्वचनेनभक्षणीयास्ते दायादाः ।”) तत्स्थापनविधि-र्यथा, पाकराजेश्वरे ।“पुरस्ताद्विमलं पात्रं सुविस्तीर्णं मनोरमम् ।तत्र भक्तं परिण्यस्तं मध्यभागे सुसंयुतम्
सूपं सर्पिः पलं शाकं पिष्टमन्नन्तु मत्स्यकम् ।स्थापयेद्दक्षिणे पार्श्वे भुञ्जानस्य यथाक्रमम्
प्रलेहाद्याः द्रवाः सर्व्वे पानीयं पानकं पयः ।चोष्यं सन्धानकं लेह्यं सव्यपार्श्वे निधापयेत्
सर्व्वान् इक्षुविकारांश्च पक्वान्नं पायसं दधि ।पुरतः स्थापयेद्भोक्तुर्द्वयोः पंक्त्योश्च मध्यतः