| YouTube Channel

भक्षणं (bhakSaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
भक्षणं,
क्ली,
(भक्ष + भावे ल्युट् ।) द्रवेतरद्रव्य-गलाधःकरणम् तत्पर्य्यायः न्यादः २स्वदनम् खादनम् अशनम् निघसः ६वल्भनम् अभ्यवहारः जग्धिः जक्षणं १०लेहः ११ प्रत्यवसानम् १२ घसिः १३ आहारः १४प्सानम् १५ अवष्वाणम् १६ विष्वाणम् १७भोजनम् १८ जेमनम् १९ अदनम् २० ।इति हेमचन्द्रः
द्रव्यविशेषस्य भक्षणनिषेधोयथा, कर्म्मलोचने ।“शणशाकं वृथामांसं करेण मथितं दधि ।तर्ज्जन्या दन्तधावश्च सद्यो गोमांसभक्षणम्