भक्तिः (bhaktiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishभक्तिः [bhaktiḥ], [भज्-क्तिन्]
Separation, partition, division.
A division, portion, share.
(a) Devotion, attachment, loyalty, faithfulness
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे 7.37
2.63
1.15. (b) Faith, belief, pious faith.
Reverence, service, worship, homage.
Texture, arrangement
भवति विरलभक्तिर्म्लानपुष्पोपहारः 5.74
मणिमरीचिरचितेन्द्रचापभक्तयः विद्याधरपतयः Nāg.5.
Decoration, ornament, embellishment
सुकृतेहामृगाकीर्णं सूत्कीर्णं भक्तिभिस्तथा 2.15.35
आबद्धमुक्ताफलभक्तिचित्रे 7.1, 94
13.55.75
15.3. अधिरुह्य स वज्रभक्तिचित्रम् (आसनम्) Bu. Ch.5.44.
An attribute.
The being part of, belonging to.
A figurative sense, secondary sense
भक्त्या निष्क्रयवादः स्यात् MS.* 4.4.28 (भक्त्या here seems to have been used as an indeclinable)
also MS.* 8.3.22.
Predisposition (of body to any disease). -गम्य accessible by devotion. -गन्धि one who has only a small measure of devotion
भक्तिगन्धिरमुनाकलि कर्णः 21. 32. -चित्रम् drawings
बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् 7.15.38.
छेदः a coloured streak, lines of painting or decoration
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य 19.
distinguishing marks of devotion to Viṣṇu.-ज्ञ faithfully attached. -नम्र making a humble obeisance. -पूर्वम्, -पूर्वकम् devoutly, reverentially. -भाज्
devout, fervid.
firmly attached or devoted, faithful, loyal. -मार्गः the way of devotion
i. e. devotion to god, regarded as the way to the attainment of final emancipation and eternal bliss (opp. to कर्ममार्ग and ज्ञानमार्ग). -योगः loving faith, loyal devotion
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः Vikr.1.1.
रसः a sense of devotion.
a sentiment of devotion
भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयानकबीभत्सशान्ताद्भुतवीररूपेणा- नुभवाद् व्यासादिभिर्वर्णितस्य विष्णोर्विष्णुभक्तानां वा चरितस्य नव- रसात्मकस्य श्रवणादिना जनितश्चमत्कारो हि भक्तिरसः Muktāvalī.-रागः affection, deep devotion. -वादः assurance of attachment.
Apte 1890
Englishभक्तिः f. [भज्-क्तिन्] 1 Separation, partition, division.
2 A division, portion, share.
3 (a) Devotion, attachment, loyalty, faithfulness
Ku. 7. 37
R. 2. 63
Mu. 1. 15. (b) Faith, belief, pious faith.
4 Reverence, service, worship, homage.
5 Texture, arrangement
भवति विरलभक्तिर्म्लानपुष्पोपहारः R. 5. 74.
6 Decoration, ornament, embellishment
आबद्धमुक्ताफलभक्तिचित्रे Ku. 7. 10, 94
भक्तिच्छेदैरिव विरचितां भूतिमंगे गजस्य Me. 19
R. 13. 55, 75
15. 30.
7 An attribute.
8 The being part of, belonging to.
Comp.
छेदः {1} a coloured streak, lines of painting or decoration
Me. 19. {2} distinguishing marks of devotion to Viṣṇu.
नम्र a. making a humble obeisance.
पूर्वं,
पूर्वकं ind. deveutly, reverentially.
भाज् a. {1} devout, fervid. {2} firmly attached or devoted, faithful, loyal.
मार्गः the way of devotion
i. e. devotion to god, regarded as the way to the attainment of final emancipation and eternal bliss.
योगः loving faith, loyal devotion.
रसः a sense of devotion.
रागः affection, deep devotion.
वादः assurance of attachment.
Hindi
Hindiभक्ति सेवा में
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiभक्तिः
- भज्+क्तिन्
"वियोजन, पृथक्करण, विभाजन, "
भक्तिः
- भज्+क्तिन्
"प्रभाग, अंश, हिस्सा"
भक्तिः
- भज्+क्तिन्
"उपासना, अनुरक्ति, सेवा, स्वामिभक्ति"
भक्तिः
- भज्+क्तिन्
"सम्मान, सेवा, पूजा, श्रद्धा"
भक्तिः
- भज्+क्तिन्
"विन्यास, व्यवस्था @ रघु*५।७४"
भक्तिः
- भज्+क्तिन्
"सजावट, अलंकार, शृंगार"
भक्तिः
- भज्+क्तिन्
विशेषण
भक्तिः
- भज्+क्तिन्
विभाजन
भक्तिः
- भज्+क्तिन्
"गौण अर्थ, आलंकारिक अर्थ"
भक्तिः
- भज्+क्तिन्
शरीर की उन्मुखता
Wordnet
Sanskrit भक्तिः
वर्णवृत्तविशेषः।
"भक्तेः प्रत्येकस्मिन् चरणे तगणः यगणः तथा अन्ते द्वौ गुरू भवतः।"
भक्तिः
पूज्येषु अनुरागः।
"ज्ञानप्राप्त्यर्थं गुरौ भक्तिः स्यात् इति उक्तिः।"
भक्तिः
ईश्वरं प्रति अनुरागः।
"ईश्वरं प्रति भक्तिः आवश्यकी एव।"
Tamil
Tamilப4க்தி: : பங்கு, அம்சம், சிரத்தை, பற்றுதல், பக்தி, நம்பிக்கை, தொண்டு, உபாசித்தல், அலங்கரிப்பு.
शब्दकल्पद्रुमः
Sanskritभक्तिः, (भज्यते इति । भज + क्तिन् ।)विभागः । सेवा । इति मेदिनी । ते, ३९ ॥
गौणवृत्तिः । भङ्गी । (अनुरागविशेषः । पूज्ये-ष्वनुरागो भक्तिरित्युपदेशः ॥
ईश्वरे परानुरक्तिः ।“अथातो भक्तिजिज्ञासा सा परानुरक्ति-रीश्वरे ।” इति शाण्डिल्यसूत्रम् ॥
उपासना ॥
परमेश्वरविषये परमप्रेम । उपास्याकारा-कारितचित्तवृत्त्यावृत्तिरूपा परिपक्वनिदिध्या-सनाख्या श्रवणमननाभ्यासफलभूता अनुरक्तिः ॥
“नहीष्टदेवात् परमस्ति किञ्चित् ।” इति बुद्धि-पूर्व्विका चित्तवृत्तिः । सा च परमप्रीत्यधीना ॥
यथा, विष्णुपुराणे । १ । २० । १८-१९ ।“नाथ ! योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ।या प्रीतिरविवेकानां विषयेष्वनपायिनी ।त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥
”“हे अच्युत ! त्वयि मे अच्युता ऐकान्तिकीभक्तिरस्तु । एकान्तभक्तिः परमप्रीत्यधीनेतितां प्रीतिं प्रार्थयते येति यादृशी प्रीतिर्विषयेषुआसक्तानां सा तादृशी प्रीतिर्मे हृदयातमापसर्पतु मापयातु हृदये सदा तिष्ठत्वित्यर्थः ॥
”इति तट्टीकायां श्रीधरस्वामी ॥
चन्दनादिभि-स्तिलकादिरचना । यथा, रघौ । १३ । ५५ ।क्वचित् खगानां प्रियमानसानांकादम्बसंसर्गषतीव पंक्तिः ।अन्यत्रकालागुरुदत्तपत्राभक्तिर्भवश्चन्दनकल्पितेव ॥
”)श्रद्धा । इति हेमचन्द्रः ॥
(भक्तिविवरणंयथा, --“भज इत्येष वै धातुः सेवायां परिकीर्त्तितः ।तस्मात् सेवा बुधैः प्रोक्ता भक्तिः साधनभूयसी ॥
इति गारुडे २३१ अध्यायः ॥
* ॥
अथ श्रीमद्भक्तिलक्षणं तृतीये श्रीकापिलेये ।“देवानां गुणलिङ्गानामानुश्रविककर्म्मणाम् ।सत्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीवसी ॥
अथ विशेषलक्षणानि । श्रीगौतमीयतन्त्रे ।“देवतायाञ्च मन्त्रे च तथा मन्त्रप्रदे गुरौ ।भक्तिरष्टविधा यस्य तस्य कृष्णः प्रसीदति ॥
तद्भक्तजनवात्सल्यं पूजायाञ्चानुमोदनम् ।सुमना अर्च्चयेन्नित्यं तदर्थे दम्भवर्जनम् ॥
तत्कथाश्रवणे रागस्तदर्थे चाङ्गविक्रिया ।तदनुस्मरणं नित्यं यस्तन्नाम्नोपजीवति ॥
भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्त्तते ।स मुनिः सत्यवादी च कीर्त्तिमान स भवेन्नरः ॥
”सप्तमस्कन्धे श्रीप्रह्लादोक्तौ ।“श्रवणं कीर्त्तनं विष्णोः स्मरणं पादसेवनम् ।अर्च्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।क्रियते भगवत्यध्वा तन्मन्येऽधीतमुत्तमम् ॥
”तत्रैव श्रीनारदयुधिष्ठिरसंवादे ।“श्रवणं कीर्त्तनञ्चास्य स्मरणं महतां गतेः ।सेवेज्यावनतिर्दास्यं सख्यमात्मनिवेदनम् ॥
”पाद्मे कार्त्तिकमाहात्म्ये श्रीयमधूम्रकेशसंवादे ।“श्रवणं कीर्त्तनं पूजा सर्व्वकर्म्मार्पणं स्मृतिः ।परिचर्य्या नमस्कारः प्रेम स्वात्मार्पणं हरौ ॥
”तत्रैवोत्तरखण्डे शिवपार्व्वतीसंवादे ।“आद्यन्तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ।धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥
अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा ।कीर्त्तनं श्रवणञ्चैव बन्दनं पादसेवनम् ।तत्पादोदकसेवा च तन्निवेदितभोजनम् ॥
तदीयानाञ्च संसेवा द्वादशीव्रतनिष्ठता ।तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ॥
भक्तिः षोडशधा प्रोक्ता भववन्धविमुक्तये ॥
”इति च ।किञ्च ।“दर्शनं भगवन्मूर्त्तेः स्पर्शनं क्षेत्रसेवनम् ।आघ्राणं धूपशेषादेर्निर्माल्यस्य च धारणम् ॥
नृत्यं भगवदग्रे च तथा वीणादिवादनम् ।कृष्णलीलाद्यभिनयः श्रीभागवतसेवनम् ॥
पद्माक्षमालादिधृतिरेकादश्यादिजागरः ।प्रासादरचनाद्यन्यज्ज्ञेयं शास्त्रानुसारतः ॥
लिखिता भगवद्धर्म्मा भक्तानां लक्षणानि च ।तानि ज्ञेयानि सर्व्वाणि भक्तेर्वै लक्षणानि च ॥
तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः ।बहिरङ्गान्तरङ्गाणि प्रेमसिद्धौ च तानियत् ॥
भेदास्तु विविधा भक्तेर्भक्तभावादिभेदतः ।मुक्ताफलादिग्रन्थेभ्यो ज्ञेयास्तल्लिखनैरलम् ॥
प्रेमभक्तौ च सिद्धायां सर्व्वेऽर्थाः सेवकाः स्वयम् ॥
भगवांश्चातिवश्यः स्याल्लिख्यतेऽस्याः सुल-क्षणम् ॥
”अथ प्रेमभक्तिलक्षणम् । नारदपञ्चरात्रे ।“अनन्यममता विष्णौ ममता प्रेमसङ्गता ।भक्तिरित्युच्यते भीष्म ! प्रह्नादोद्धवनारदैः ॥
प्रेमभक्तेश्च माहात्म्यं भक्तेर्माहात्म्यतः परम् ।सिद्धमेव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥
चिह्नानि प्रेमसम्पत्तेर्बाह्यान्याभ्यन्तराणि च ।कियन्त्युल्लिखितान्यस्या महिमैव विलिख्यते ॥
”अथ प्रेमसम्पत्तिचिह्नानि सप्तमस्कन्धे श्रीप्रह्रा-दस्य बालानुशासने ।“निशम्य कर्म्माणि गुणानतुल्यान्वीर्य्याणि लीलातनुभिः कृतानि ।यद्वातिहर्षोत्पुलकाश्रुगद्गदंप्रोत्कण्ठ उद्गायति नृत्यते च ॥
यदा ग्रहग्रस्त इव क्वचिद्धसत्या-क्रन्दति ध्यायति बन्दते जनम् ।मुहुः श्वसन् वक्ति हरे ! जगत्पते !नारायणेत्यात्ममतिर्गतत्रपः ॥
तदा पुमान् मुक्तसमस्तबन्धन-स्तद्भावभावानुकृताशयाकृतिः ।निर्दग्धबीजानुशयो महीयसाभक्तिप्रयोगेण समेत्यधीक्षजम् ॥
”एकादशे च श्रीकवियोगेश्वरोत्तरे ।शृण्वन् सुभद्राणि रथाङ्गपाणे-र्जन्मानि कर्म्माणि च यानि लोके ।गीतानि नामानि तदर्थकानिगायन् विलज्जो विचरेदसङ्गः ॥
एवंव्रतः स्वप्रियनामकीर्त्त्याजातानुरागो द्रुतचित्त उच्चैः ।हसत्यथो रोदिति रौति गाय-त्युन्मादवन्नृत्यति लोकबाह्यः ॥
”तत्रैव श्रीप्रबुद्धयोगेश्वरोत्तरे ।“स्मरन्तः स्मारयन्तश्च मिथोऽघौघहरं हारम् ।भक्त्या संजातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥
क्वचिद्रुदन्त्यच्युतचिन्तया क्वचि-द्धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।नृत्यन्ति गायन्त्यनुशीलयन्त्यजंभवन्ति तष्णीं परमेत्य निर्वृताः ॥
श्रीभगवदुद्धवसंवादे च ।“कथं विना रोमहर्षं द्रवता चेतसा विना ।विनानन्दाश्रुकलया शुद्धेद्भक्त्या विनाशयः ॥
वाग्गद्गदा द्रवते यस्य चित्तंरोदित्यभीक्षणं हसति क्वचिच्च ।विलज्ज उद्गायति नृत्यते चमद्भक्तियुक्तो भुवनं पुनाति ॥
यथोक्तभक्त्यशक्तौ तु भगवच्चरणाम्बुजम् ।शरणागतभावेन कृत्स्नभीतिघ्नमाश्रयेत् ॥
”इति हरिभक्तिविलासे ११ विलासः ॥
अपि च । उत्तमभक्तेर्लक्षणं यथा, --“अन्याभिलासिताशून्यं ज्ञानकर्म्माद्यनावृतम् ।आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥
तथा नारदपञ्चरात्रे ।“सर्व्वोपाधिविनिर्भुक्तं तत्परत्वेन निर्म्मलम् ।हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥
”श्रीभागवतस्य तृतीयस्कन्धे च ।“अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ।सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ॥
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ।स एव भक्तियोगाख्य आन्त्यन्तिक उदाहृतः ॥
”इति ॥
सा उत्तमा भक्तिः षड्विधा यथा, --“क्लेशघ्नी शुभदा मोक्षलघुताकृत् सुदुर्लभा ।सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षणी च सा ॥
”तत्रास्याः क्लेशघ्नत्वम् ।“क्लेशास्तु पापं तद्बीजमविद्या चेति ते त्रिधा ॥
”शुभदत्वं यथा, --“शुभानि प्रीणनं सर्व्वजगतामनुरक्तता ।सद्गुणाः सुखमित्यादीन्याख्यातानि मनी-षिभिः ॥
”मोक्षलघुताकृद्यथा, --“मनागेव प्ररूढायां हृदये भगवद्रतौ ।पुरुषार्थास्तु चत्वारस्तृणायन्ते समन्ततः ॥
”सुदुर्लभा यथा, --“साधनौघैरनासङ्गैरलभ्या सुचिरादपि ।हरिणाचाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥
”सान्द्रानन्दविशेषात्मा यथा, --“ब्रह्मानन्दो भवेदेष चेत् परार्द्धगुणीकृतः ।नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि ॥
”श्रीकृष्णाकर्षणी यथा ।“कृत्वा हरिम्प्रेमभाजम्प्रियवर्गसमन्वितम् ।भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षणी च सा ॥
”सा उत्तमा भक्तिस्त्रिधा यथा, --“सा भक्तिः साधनं भावः प्रेमा चेति त्रिधो-दिता ॥
”साधनभक्तिर्यथा, --“कृतिसाध्या भवेत् साध्यभावा सा साधनाभिधा ।नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥
”भावभक्तिर्यथा, --“शुद्धसत्त्वविशेषात्मा प्रेमसूर्य्यांशुसाम्यभाक् ।रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥
”प्रेमभक्तिर्यथा, --“सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः ।भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥
”इति भक्तिरसामृतसिन्धौ पूर्व्वविभागः ॥
कृदन्तरूपमाला
Sanskrit1 {@“भन्जो आमर्दने”@} 2 ‘--आमर्दे तु भनक्ति…।।’ 3 इति देवः।
4 भञ्जकः-ञ्जिका, भञ्जकः-ञ्जिका, 5 बिभङ्क्षकः-क्षिका, 6 बम्भजकः-बंभजकः-जिका
7 भङ्क्ता-भङ्क्त्री, भञ्जयिता-त्री, बिभङ्क्षिता-त्री, बम्भजिता-त्री
8 भञ्जन्-भञ्जती, भञ्जयन्-न्ती, बिभङ्क्षन्-न्ती
-- भङ्क्ष्यन्-न्ती-ती, भञ्जयिष्यन्-न्ती-ती, बिभङ्क्षिष्यन्-न्ती-ती
-- -- भञ्जयमानः, -- बम्भज्यमानः
-- भञ्जयिष्यमाणः, -- बम्भजिष्यमाणः
9 विभक्-विभग्-विभजौ-विभजः
-- -- 10 भग्नम्-भग्नः-भग्नवान्, भञ्जितः, बिभङ्क्षितः, बम्भजितः-तवान्
भञ्जः, 11 प्रभञ्जनः, 12 13 भङ्गुरः, 14 15 16 भञ्जानः, भञ्जः, बिभङ्क्षुः, 17 बम्भञ्जः
भङ्क्तव्यम्, भञ्जयितव्यम्, बिभङ्क्षितव्यम्, बम्भजितव्यम्
भञ्जनीयम्, 18 भजेलिमाः 19, भञ्जनीयम्, बिभङ्क्षणीयम्, बम्भजनीयम्
20 भङ्ग्यम्, भञ्ज्यम्, बिभङ्क्ष्यम्, बम्भज्यम्
21 ईषद्भञ्जः-दुर्भञ्जः-सुभञ्जः
-- -- भज्यमानः, भञ्ज्यमानः, बिभङ्क्ष्यमाणः, बम्भज्यमानः
22 भङ्गः-भङ्गा, भञ्जः, बिभङ्क्षः, बम्भजः
भङ्क्तुम्, भञ्जयितुम्, बिभङ्क्षितुम्, बम्भजितुम्
भक्तिः, 23 सालभञ्जिका, 24 उद्दालकपुष्पभञ्जिका, भञ्जना, बिभङ्क्षा, बम्भजा
भञ्जनम्, भञ्जनम्, बिभङ्क्षणम्, बम्भजनम्
25 भङ्क्त्वा 26 -भक्त्वा, भञ्जयित्वा, बिभङ्क्षित्वा, बम्भजित्वा
विभज्य, विभञ्ज्य, विबिभङ्क्ष्य, विबम्भज्य
27 इक्षुभञ्जं, गजभञ्जं, 28 वल्लीभञ्जं 29 भञ्जम् २, भङ्क्त्वा २, भक्त्वा २, भञ्जम् २, भञ्जयित्वा २, बिभङ्क्षम् २, बिभङ्क्षित्वा २, बम्भजम् २
बम्भजित्वा २।
01 (११४५)
02 (७-रुधादिः-१४५३। सक। अनि। पर।)
03 (श्लो। ६५)
04 [[७। ‘नकारजावनुस्वारपञ्चमौ झलि धातुषु।’ इति अभियुक्तवचनात् उपदेशे नोप- धोऽयं धातुः। नकारस्य ‘नश्चापदान्तस्य झलि’ (८-३-२४) इत्यनुस्वारे परसवर्णे च रूपमेवम्। एवमेवोत्तरत्र तृजादिष्वपि रूपनिष्पत्तिर्ज्ञेया।]]
05 [[८। सन्नन्ताण्ण्वुलि धातुजकारस्य कुत्वे, सनः षत्वे च रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
06 [[९। यङन्ताण्ण्वुलि, द्विर्वचनादिकेषु ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इति अभ्यासे नुगागमः। नुकः पदान्तवद्भाववचनात् परसवर्णविकल्पः। तेन रूपद्वयम्।]]
07 [पृष्ठम्०९४२+ २८]
08 [[१। शतरि, ‘रुधादिभ्यः--’ (३-१-७८) इति श्नमि, ‘श्नान्नलोपः’ (६-४-२३) इति धातुनकारलोपे, ‘श्नसोरल्लोपः’ (६-४-१११) इति श्नमोऽकारस्य लोपे च रूपमेवम्।]]
09 [[२। विशेषेण भनक्तीति विभक्। क्विपि नकारलोपे कुत्वे च रूपम्।]]
10 [[३। ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे, तस्यासिद्धत्वात् पूर्वमेव ‘चोः कुः’ (८-२-३०) इति कुत्वे च रूपमेवम्।]]
11 [[४। प्रभञ्जयतीति प्रभञ्जनः = वायुः। नन्द्यादित्वात् (३-१-१३४) ण्यन्तात् कर्तरि ल्युः।]]
12 [[आ। ‘व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः।।’ भ। का। ८। ४।]]
13 [[५। ‘भञ्जभासमिदो घुरच्’ (३-२-१६१) इति तच्छीलादिषु कर्तृषु घुरच्प्रत्यये, घित्त्वेन ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वे च रूपमेवम्। प्रक्रियाकौमुदीव्याख्याने तु “भञ्जेः कर्मकर्तरि (प्रत्ययः) तथोक्तम् पाणिनीयमतदर्पणे-- ‘कर्मकर्तारमेवास्मादभिधत्ते स्वभावतः। न कर्ममात्रमित्येष प्रत्ययः कर्मकर्तरि।।’ इति।” इत्युक्तम्।]]
14 [[B। ‘सृपरोऽभङ्गरप्रज्ञो गृहीत्वा भासुरं धनुः।’ भ। का। ७। २२।]]
15 [शत्रुं]
16 [[६। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इति चानश्प्रत्यये रूपमेवम्। न तु शानच्प्रत्ययः। अत्र ताच्छील्ये शक्तौ वा चानश्।]]
17 [[७। यङन्तात् पचाद्यचि यङो लुकि उपधानकारलोपस्य निमित्ताभावात् तस्यानुस्वारपर- सवर्णयो रूपमेवम्।]]
18 [[८। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति केलिमर्प्रत्यये, तस्य कित्त्वेनोपधान- कारलोपे च रूपमेवम्। कर्मकर्तर्ययं प्रत्यय इति वृत्तिः। भाष्ये तु कर्मंण्येवायं प्रत्यय इति ज्ञायते।]]
19 [शालयः]
20 [[९। ण्यति, ‘चजोः--’ (७-३-५२) इति कुत्वम्।]]
21 [पृष्ठम्०९४३+ २४]
22 [[१। कर्मणि घञि कुत्वे च रूपमेवम्। स्त्रियां टाप्। भङ्गा = कुसुम्भम्।]]
23 [[२। ‘संज्ञायाम्’ (३-३-१०९) इति स्त्रियामधिकरणे भावादौ ण्वुल्। एवमेव उद्दालक- पुष्पभञ्जिका इत्यत्रापि ण्वुल्। उद्दालकपुष्पाणि = श्लेष्मातकपुष्पाणि भज्यन्ते यस्यां क्रियायां सेति विवरणम्। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इति समासः।]]
24 [[आ। ‘धिक् सालभञ्जिकाप्रख्यान् विषयान् कल्पनारुचीन्।।’ भ। का। ७। ७४।]]
25 [[३। क्त्वायाम्, ‘जान्तनशां विभाषा’ (६-४-३२) इत्यनुनासिकलोपविकल्पः, तेन रूपद्वयम्।]]
26 [[B। ‘भङ्क्त्वा भुजौ विराधाख्यं तं तौ भुवि निचख्नतुः।।’ भ। का। ४। ३।]]
27 [[४। ‘उपमाने कर्मणि च’ (३-४-४५) इति कर्मणि, कर्तरि च णमुल्। ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति णमुल्प्रयोजकधातोरेव अनुप्रयोगः। ‘इक्षुभञ्जं बभञ्जासौ गजभञ्जं बभञ्ज तम्। अत्र हीक्षुमिवेत्यर्थस्तथा गज इवेत्यपि।।’ इति। प्र। सर्वस्वे।]]
28 [[C। ‘अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं हरधनुरसौ वल्लीभञ्जं बभञ्ज च मैथिलि।’ श्रीगुणरत्नकोशे ५४।]]
29 [वा बभञ्ज।]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
