| YouTube Channel

भक्तः (bhaktaH)

 
Hindi
Hindi
भक्त
Apte Hindi
Hindi
भक्तः
पुं*
- भज्+क्त
"पूजक, आराधक, उपासक, पुजारी या दास, स्वामिभक्त नौकर"
Wordnet
Sanskrit
Synonyms:
उपासकः, भक्तः
adjective
यः उपासति
"उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना "
Synonyms:
पूजकः, अर्चकः, उपासकः, भक्तः, आराधकः, सेवकः
noun
यः पूजयति।
"भगवतः यथार्थः पूजकः सांसारिकबन्धनात् मुक्तः भवति।"
Synonyms:
भक्तः, उपासकः, पूजकः, आश्रितः
noun
यः ईश्वरं भजते।
"सः हनुमतः भक्तः अस्ति।"
Synonyms:
भक्तः, व्रती, उज्झकः, यतिः, उपासकः
noun
यः कञ्चित् देवतुल्यं मत्वा तं भजते तस्य माहात्म्यं जानाति।
"सः गान्धीमहोदयस्य भक्तः अस्ति।"
Tamil
Tamil
ப4க்த: : ஆராதிப்பவன், பூஜிப்பவன், தொண்டன், பக்தன்.
शब्दकल्पद्रुमः
Sanskrit
भक्तः, त्रि, (भजते स्मेति भजसेवायां + क्तः ।)तत्परः इति हेमचन्द्रः
(यथा, महा-भारते १७३ १४ ।“न त्वां दृष्ट्वा पुनरन्यां द्रष्टुं कल्याणि ! रोचये ।प्रसीद वशगोऽहन्ते भक्तं मां भज भाविनि !
”पूज्यविषयकानुरागो भक्तिस्तद्वांश्च ।) अथश्रीभगवद्भक्तलक्षणानि लिङ्गपुराणे ।“व्रतकर्म्मगुणज्ञानभोगजन्मादिमत्स्वपि ।शैवेष्वपि कृष्णस्य भक्ताः सन्ति तथा तथा
श्रीभागवते एकादशस्कन्धे उत्तमभक्ता यथा, “ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मियादृशः ।भजन्त्यनेन भावेन ते मे भक्ततमा मताः
”मध्यमभक्तो यथा, --“ईश्वरे तदधीने वा वालिशेषु द्बिषत्सु ।प्रेममैत्रीकृपोपेक्षा यः करोति मध्यमः
”प्राकृतभक्तो यथा, --“अर्च्चायामेव हरये पूजां यः श्रद्धयेहते ।न तद्भक्तेषु चान्येषु भक्तः प्राकृतः स्मृतः
”इति श्रीहरिभक्तिविलासः
अपि ।“भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ! ।येषां स्पर्शनसन्दर्शात् सद्यः पूतो नराधमः
हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः ।स्वप्रशंसारता धूर्त्ताः शठाश्च साधुनिन्दकाः
पुनन्ति सर्व्वतीर्थानि येषां स्नानावगाहनात् ।येषाञ्च पादरजसा पूता पादोदकान्मही
येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते ।सर्व्वेषां परमो लाभो वैष्णवानां समागमः
ह्यग्नयानि तीर्थानि देवा मृच्छिलामयाः ।ते पुनन्त्युरुकालेन विष्णुभक्तः क्षणादहो !
सौतिरुवाच ।महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः ।निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे
श्रीनारायण उवाच ।भक्तानां लक्षणं लक्ष्मि ! गूढं श्रुतिपुराणयोः ।पुण्यस्वरूपं पापघ्नं सुखदं भक्तिमुक्तिदम् ।सारभूतं गोपनीयं वक्तव्यं खलेषु
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति ।वेदान्तवेदवेदाङ्गास्तं पवित्रं वदन्ति हि
पुरुषाणां शतं प्रूर्ब्बं पूतं तज्जन्ममात्रतः ।स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात्
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु जन्तुषु ।जीवन्मुक्तास्ते पूता यान्ति काले हरेः पदम्
मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ।मदगुणश्लाघनीयश्च मन्निविष्टश्च सन्ततम्
सगद्गदः साश्रुनेत्रः स्वात्मविश्रुत एव ।न वाञ्छन्ति सुखं मुक्तिं सालोक्यादिचतुष्टयीम्
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ।इन्द्रत्वञ्च मनुत्वञ्च देवत्वञ्च सुदुर्लभम्
स्वर्गराज्यादिभोगञ्च स्वप्ने नहि वाञ्छति ।ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा ।कल्याणभक्तियुक्तश्च मद्भक्तो प्रणश्यति ।भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम्
तेऽपि यान्ति महीं पूत्वा नवं तीथ ममालयम्
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे अध्यायः
अपि ।“रतिः कृष्णकथयाञ्च यस्याश्रुपुलकोद्गमः ।मनो निमग्नं यस्यैव भक्तः कथिता बुधैः
पुत्त्रदारादिकं सर्व्वं जानाति श्रीहरेरपि ।आत्मना मनसा वाचा भक्तः कथितो बुधैः
दयास्ति सर्व्वभूतेषु सर्व्वं कृष्णमयं जगत् ।यो जानाति महाज्ञानी भक्तो वैष्णवोत्तमः
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे अध्यायः
भगवद्भक्ता यथा, तत्रैव अध्याये ।मद्भक्ताश्चैव निःशङ्का कर्म्मनिर्मूलकारकाः ।नाहं शक्तश्च भक्तानां संहारे नित्यदेहिनाम्
भक्ता ममानुगा नित्यं मत्पादानततत्पराः ।अहं भक्तान्तिके नित्यं तेषां रक्षणहेतवे
सर्व्वे नश्यन्ति ब्रह्माण्डे प्रभवन्ति पुनः पुनः ।न भे भक्ताः प्रणश्यन्ति निःशङ्काश्च निरापदः
हरिभक्तिमाहात्म्यं यथा, --द्विजानां हरिभक्तानां प्रभावो दुर्लभः श्रुतौ ।येषां पादाब्जरजसा सद्यः पूता वसुन्धरा
तेषाञ्च पादचिह्नं यत्तीर्थं तत् परिकीर्त्तितम् ।तेषाञ्च स्पर्शमात्रेण तीर्थपापं प्रणश्यति
आलिङ्गनात् सदालापात्तेषामुच्छिष्टभोजनात् ।दर्शनात् स्पर्शनाच्चैव सर्व्वपापात् प्रमुच्यते
भ्रमणे सर्व्वतीर्थानां यत् पुण्यं स्रानतो भवेत् ।हरिदासस्य विप्रस्य तत् पुण्यं दर्शनाल्लभेत्
इति तत्रैव २१ अध्यायः
त्रिविधभक्तलक्षणं यथा, --भक्तानां त्रिविधानाञ्च लक्षणं श्रूयतामिति ।तृणशय्यारतो भक्तो मन्नामगुणकीर्त्तिषु
मनो निवेशयेत्त्यक्त्वा संसारसुखकारणम् ।दास्यं विना हीच्छन्ति सालोक्यादिचतुष्टयम्
नैव निर्व्वाणमुक्तिञ्च सुधापानमभीप्सितम् ।ध्यायते मत्पदाब्जञ्च पूजयेद्भक्तिभावतः
श्रीहेतुः किं तस्य देवः सङ्कल्परहितस्य ।सर्व्वसिद्धिं वाञ्छन्ति तेऽणिमादिकमीप्सितम्
ब्रह्मत्वममरत्वं वा सुरत्वं सुखकारणम् ।वाञ्छन्ति निश्चलां भक्तिं मदीयामतुलामपि
स्त्रीपुंविभेदो नास्त्येवं सर्व्वजीवेषु भिन्नता ।तेषां सिद्धेश्वराणाञ्च प्रवराणां व्रजेश्वर !
क्षुत्पिपासादिकां निद्रां लोभमोहादिकं रिपुम् ।त्यक्त्वा दिवानिशं माञ्च ध्यायते दिगम्बरः
मद्भक्तोत्तमो नन्द ! श्रूयतां मध्यमादिकम्
”“नासक्तः कर्म्मसु गृही पूर्व्वप्राक्तनतः शुचिः
करोति सततञ्चैव पूर्व्वकर्म्मनिकृन्तनम् ।न करोत्यपरं यत्नात् सङ्कल्परहितश्च यः
सर्व्वं कृष्णस्य यत्किञ्चिन्नाहं कर्त्ता कर्म्मणः ।कर्म्मणा मनसा वाचा सततं चिन्तयेदिति
न्यूनभक्तश्च तन्न्यूनः प्राकृतिकः श्रूतौ ।यमं वा यमदूतं वा स्वप्नेन पश्यति
पुरुषाणां सहस्रञ्च पूर्व्वं भक्तः समुद्धरेत् ।पुंसां शतं मध्यमश्च तच्चतुर्थञ्च प्राकृतः
भक्तश्च त्रिविधस्तात ! कथितश्च तवाज्ञया
”इति तत्रैव ८४ अध्यायः
कृष्णभक्तशरीरें तीर्थादीनि यथा, --“पृथिव्यां यानि तीर्थानि पुण्यान्यपि चजाह्नवि ! ।मद्भक्तानां शरीरेषु सन्ति पूतेषु सन्ततम्
मद्भक्तपादरजसा सद्यः पूता वसुन्धरा ।सद्यः पूतानि तीर्थानि सद्यः पूतं जगत्तथा
मन्मन्त्रोपासका विप्रा ये मदुच्छिष्टभोजिनः ।मामेव नित्यं ध्यायन्ते ते मत्प्राणाधिकाःप्रियाः ।तदुपस्पर्शमात्रेण पूतो वायुश्च पावकः ।कलेर्दशसहस्राणि मद्भक्ताः सन्ति भूतले
एकवर्णा भविष्यन्ति मद्भक्तेषु गतेषु ।मद्भक्तशून्या पृथिवी कलिग्रस्ता भविष्यति
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२८ अः
भगवद्भक्तमाहात्म्यं यथा, --“संस्मृतः कीर्त्तितो वापि दृष्टः स्पृष्टोऽपि वाप्रिये ! ।पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया
”इति वाराहे उपविभागे प्रबोधिनीमाहा-त्म्यम्
हरिभक्तकर्त्तव्यानि यथा, --“हरेश्चरितमीशस्य सर्व्वलोकेषु कीर्त्तनम् ।वैष्णवेषु कार्ष्णेषु भक्तः कुर्य्यादहर्निशम्
दासीर्दासांश्च यत्किञ्चित् स्वकीयं वस्तु चात्मनः ।कृष्णभक्तस्य गार्हस्थ्यं सर्व्वं कृष्णे निवेदनम्
”भक्तस्य लक्षणान्तरं यथा, --“प्रेम्णा संजातया भक्त्या तनुमुत्पुलकाञ्जनः ।विभर्त्त्यलौकिकं भक्तो वदेद्ध्वसति नृत्यति
परमानन्दयुक्तोऽसौ क्वचिद्गायति नन्दति ।क्रन्दत्यच्युतभावेन गद्गदेन पुनः पुनः
अनुशीलयति भजेत् गोविन्दमनुमोदते ।तरेदेवं विष्णुमायां दुस्तरां मुनिमोहिनीम्
सर्व्वत्रेश्वरबुद्ध्या यो भजेदीशं सनातनम् ।स तत्त्ववादी भक्तश्च सर्व्वभूतसुहृत्तमः
”इति पाद्मोत्तरखण्डे १०१ अध्यायः
*
भक्तत्यागे दोषो यथा, --“ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा ।तुल्यमेभिर्महापापं भक्तत्यागादुदाहृतम्
भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः मुखम् ।नेह नामुत्र पश्यामि तस्मात् शक्त ! दिवं व्रज
”इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानम्
(कृतविभागः यथा, लीलावत्याम् ।“भक्तो हरः शुध्यति यद्गुणः स्यात्
”)