| YouTube Channel

ब्राह्मं (brAhmaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्राह्मं,
क्ली,
(ब्रह्मण इदम् ब्रह्मन् + “तस्ये-दम् ।” १२० इत्यण् ‘नस्तद्धिते ।’ १४४ ।इति टिलोपः ।) ब्रह्मतीर्थं तत्तु अङ्गुष्ठस्यमूले वर्त्तते इत्यमरः
५१
अनेनतीर्थेन द्बिजस्याचमनं यथा, आह्निकतत्त्वे ।“अन्तर्जानुशुचौ देश उपविष्ट उदङ्मुखः ।प्राग्वा ब्राह्मेण तीर्थेन द्बिजो नित्यमुपस्पृशेत्
अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य ।एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै
”ब्रह्मपुराणम् यथा, --“ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा
”इति मलमासतत्त्वधृतविष्णुपुराणवचनम्
(ब्रह्मसम्बन्धिनि, त्रि यथा, मनुः ६८ ।“ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।एकैकशो युगानान्तु क्रमशस्तन्निबोधत
”ब्रह्मा देवतास्य इति ब्रह्मन् + “सास्यदेवता ।” २४ इत्यण् टिलोपः ।ब्रह्मदेवताकमस्त्रादि यथा, रघुः १२ ९७ ।“अमोघं सन्दधे चास्मै धनुष्येकधनुर्द्धरः ।ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्
”)